Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१५८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः एताभिः किमित्युक्त्वा बहिरुद्याने गत्वा तस्थौ । सुग्रीवोऽपि तदाज्ञया पुरीं प्रविवेश ।
इतश्च लङ्कायां पुरि रावणान्तःपुरस्त्रियो मन्दोदर्यादयः खरादिहननवृत्तान्तं श्रुत्वा भृशमरुदन् । सुन्देन सह चन्द्रणखाऽपि रुदती रावणगृहे प्रविवेश । रावणं दृष्ट्वा च कण्ठे लगित्वाऽऽर्तस्वरं रुरोद । ततो रावणस्त्वद्भर्तृ-पुत्रहन्तारमचिरादेव हनिष्यामीति तां प्रबोध्य तेन शोकेन सीताविरहपीडया च शयने निपत्य तस्थौ ।
ततो मन्दोदरी तमुपेत्योवाच-'स्वामिन् । किं प्राकृतजनवद् निश्चेष्टस्तिष्ठसि ?' ततो रावण उवाच-'सीताविरहपीडयाऽहं निश्चेष्टोऽस्मि, यदि मम जीवितेन ते प्रयोजनं तदा सीतां प्रबोधय । अनिच्छन्तीमन्यनारी जातुचिद् न भुजे इति गुरुसाक्षिको मम नियमः' । सा च पत्युः पीडया पीडिता तत्क्षणं देवरमणोद्याने समुपेत्य सीतामुवाच- अहमेषा मन्दोदरी रावणमहिषी, तव दासीभावं स्वीकरिष्यामि, रावणं भज । त्वं धन्याऽसि, यां विश्ववन्द्यो मम पति: सेवितुमिच्छति । यदि रावणो लभ्यस्तर्हि भूचरेण रामेण तपस्विना किम्" ?
ततः क्रुद्धा सीतोवाच-'क्व सिंहः क्व च शृगालः ! क्व मम पती रामः क्व च ते पतिः ! तव तस्य च दम्पतित्वं युक्तम् । यदेकोऽन्यस्त्रीषु रिरंसुरपरा च दूती । त्वं द्रष्टुमप्यनर्हा, दूरं सम्भाषणम् । इतः स्थानाद् दूरमपसर, मम दृष्टिपथं त्यज' । तदानीमेव च रावणोऽपि तत्राऽऽगतो जगाद-'सीते ! मा कुपः, मन्दोदर्यहं च तव दासतामापन्नौ, प्रसादं कुरु' । सीतया चाऽन्यतो
सप्तमं पर्व - षष्ठः सर्गः मुखीभूय 'अन्तकस्तवाऽन्तिकमागतो मम हरणेन, तवाऽऽशा सर्वदा निष्फलैव स्यात्' । इत्येवं बहुश आक्रुश्यमानोऽपि कामार्त्तः पुनः पुनः प्रार्थयामास । अत्राऽवसर एव सूर्योऽस्तमुपागतः । रात्रि?रा प्रावृतत् । कामक्रोधान्धो दुर्बुद्धी रावणः सीतायारुपसर्ग कर्तु प्रचक्रमे । भयङ्कराः श्वापद-पिशाचादयो रावणविकृताः सीतासमीपमीयुः । तथाऽपि सा पञ्चपरमेष्ठिनमस्कारं स्मरन्ती न भीता न वा रावणं भेजे।
अथ विभीषणः प्रातर्निशावृत्तान्तं सर्वं विज्ञाय रावणमुपेत्य सीतां चोवाच-'त्वं सर्वं स्ववृत्तान्तमाख्याहि, मा भैषीः' । ततः सीता तं मध्यस्थं परिज्ञाय नम्रमुख्येव पित्रादिवृत्तान्तमारभ्य हरणान्तं सर्वं वृत्तं निवेदितवती । तन्निशम्य रावणं प्रणम्य विभीषण उवाच-'त्वया कतमिदं कर्म कुलदोषाय । यावच्च रामो नो हन्तुमिह न समायाति तावदेव सीतां तत्र नय" । तेन च क्रुद्धो रावणो विकत्थमानो विभीषणेन पुनः पुनर्बोध्यमानोऽपि तदनादृत्य पुष्पके सीतामारोप्य क्रीडापर्वतकादिकमदर्शयत् । रतिं याचमानो रावणस्तया च रामचरणाब्जमरालयाऽविगणितो रम्यस्थानेषु भ्रान्त्वा पुनस्तामशोकवनिकायां मुक्तवान् ।
विभीषणश्च रावणं दुर्बोध्यं विज्ञाय कुलामात्यानाहूय लङ्काया भाविभयत्राणमपृच्छत् । तैः कृतमन्त्रश्च सुधीविभीषणः सीतानिमित्तं रक्षःकुलक्षयं रामस्य हनूमदादिसाहाय्यं च तैत्विा पुरुषार्थे कृतनिश्चयो दुर्गे यन्त्रादिरोपणं चक्रे ।
इतश्च कथमपि कालं गमयन् विरहार्लो रामो लक्ष्मणमनुशिष्य सुग्रीवमनुप्रेषितवान् । लक्ष्मणं च चापादिसज्जं वेश्मन्युप

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129