Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 96
________________ १६८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः निर्वासितस्त्वां शरणमागात्' । तच्छ्रुत्वा रामो द्वारपालेन विभीषणं प्रवेश्य प्रणमन्तं च ससम्भ्रमं परिषष्वजे। ततो विभीषण उवाच'दुर्नयं भ्रातरं त्यक्त्वा त्वामुपस्थितोऽस्मि, सुग्रीववद् मां भक्तं विद्धि' । ततो रामस्तस्मै लङ्काराज्यं प्रतिपन्नवान् । हंसद्वीपे च दिनान्यष्टावतिवाह्य सैन्यैः परिवृतो रामो लङ्कां प्रति चचाल । तथा सेनया विंशति योजनानि पृथिव्या रुद्ध्वा सज्जोऽवतस्थे रामः । ततो रामसेना कलकलेन रावणसेनान्यो हस्त-प्रहस्ताद्याः सन्नह्य रावणं परिवठः । ततो रत्नश्रवसः प्रथमः पुत्रो भानुकर्णः सन्नह्य रथमारुह्योपेत्य रावणस्य पारिपाश्विकोऽभवत् । इन्द्रजिद्मेघवाहनौ च दशग्रीवस्य द्वयोः पार्श्वयोस्तस्थतुः । अन्येऽपि पुत्राः कोटिशः सामन्ता: शुक-मारीच-सुन्दादयोऽभ्ययुः । रावणश्च युद्धचतुरैरक्षौहिणीनामसङ्ख्यैः सहस्रदिशः प्रच्छादयन् पुर्याः प्रचचाल । नानाशस्त्रप्रहरणाश्च रावणभटा विपक्षवीरान् नामग्राहं मुहुर्मुहुः पृच्छन्तो रणाय विचेरुः । ततो रावणो रणाय पञ्चाशद् योजनान्याच्छाद्य तस्थौ । तत्र च स्वनायकान् प्रशंसन्तः परनायकान् निन्दन्तो मिथो नाम कथयन्तोऽस्त्राण्यस्त्रेर्वादयन्तो द्वयोः सैन्याः कांस्यतालवद् मिमिलुः । ततो द्वयोः सैन्ययोः शस्त्राशस्त्रि दारुणे युद्धे प्रवृत्ते वानरै राक्षससैन्यमभजि । ततो योद्घमुद्यतौ हस्त-प्रहस्तौ नल-नीलाभ्यां युयुधाते । हस्तो नलश्च प्रथमतो युध्यमानौ बाणान् ववृषतुः । तत्र नलो हस्तं नीलश्च प्रहस्तमवधीत् । ततो नल-नीलयोरुपरिष्टाद् नभस: पुष्पवृष्टिर्बभूव । ततः क्रुधा मारीचाद्या: कपिभिरयुध्यन्त । परस्परं प्रहरत्सु च तेषु रविरस्तं ययौ । ततो द्वयोरपि सैन्यानि युद्धाद् निवृत्त्य स्वान् हतानहतांश्चाऽन्वेषयन्तोऽस्थुः । प्रातश्च पुनरपि सप्तमं पर्व - सप्तमः सर्गः राक्षसभटा रामसैन्यैर्योद्धमुपस्थिताः । रावणश्च मध्येसैन्यं गजरथमारुह्याऽरीन् तृणाय मन्यमानो रणभूमिमगात् । रामसैन्यानि च नभसि देवैर्दृश्यमानानि रणाय समाजग्मुः । अथ रावणहुङ्कारप्रेरितै रक्षःसैन्यैः कपिसैन्यानि बभञ्जिरे। तेन च क्रुद्धः सुग्रीवो धनुरादायाऽधिज्यं विधाय प्रबलैः सैन्यैर्महीं कम्पयन् चचाल । ततो मम विक्रमं पश्य, त्वमिहैव तिष्ठेति सुग्रीवं निषिध्य हनूमान् प्रस्थाय राक्षससैन्यं मन्दराद्रिः सागरमिवाऽमनात् । ततो मेघवद् गर्जन् माली हनूमतेऽधावत् । द्वावपि मिथोऽस्त्राणि प्रहरन्तौ चिच्छेदाते । चिरं युद्धवा च हनूमान् मालिनं निरस्त्रं चक्रे । ततो वज्रोदरः समेत्य हनूमन्तमवोचत्-'एहि, मया युध्यस्व, मा स्म गा:' । तद्वचः श्रुत्वा क्रुद्धो हनूमान् सिंहनादं विधाय शरैस्तं छादयामास । देवेषु प्रशंसत्सु च हनूमान् युगपदस्त्राणि मुञ्चन् वज्रोदरमवधीत् । तेन च क्रुद्धो रावणपुत्रो जम्बुमाली युद्धाय हनूमन्तं डुढौके । क्रुद्धश्च हनूमांस्तं विरथं कृत्वा गुरुतरेण मुद्गरेण ताडयामास । जम्बुमाली च तेन प्रहारेण मूच्छितो भुवि पपात । ततो रोषाद् महोदरोऽन्ये च राक्षसभटा: जिघांसवो हनूमन्तं शूकरं श्वान इव वेष्टयामासुः । तैर्भुजादिषु हन्यमानश्च हनूमान् क्षणादेव सूर्यस्तमांसीव तानभाङ्क्षीत् । तत: क्रुद्धः कुम्भकर्णः शूलमादाय कपीनमथ्नात् । तं च दृष्ट्वा सुग्रीव-भामण्डलाद्या धावित्वा सिंहं व्याधा इव रुद्धवाऽस्त्राण्यमुञ्चन् । ततो मुनिवाक्यवदमोघं स्वापनास्त्रं कुम्भकर्णस्तेष्वमुञ्चत् । सुग्रीवश्च स्वं सैन्यं निद्रायमाणं दृष्ट्वा प्रबोधिनी महाविद्यां सस्मार । वानरभटाश्चोत्थाय सुग्रीवाधिष्ठिताः कुम्भकर्णमुपाद्रवन् । सुग्रीवश्च गदया कुम्भकर्णस्य रथं सारथिं वाहनानि च

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129