Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१७२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः युद्धव्याजादिहाऽऽगतः । अधुनाऽपि सीतां समर्पय, प्रसीद, मद्वचः कुरु । अहं मृत्युभयाद् राज्यलोभाद् वा न, किन्त्वपवादभयादेव राममुपगतोऽस्मि । तत्सीतामर्पय, यथा पुनरेवाऽहं त्वां श्रयामि' । तत: क्रुद्धो दशकन्धरस्तं कटुवाक्यैनिर्भय॑ धनुरास्फालयामास । विभीषणोऽपि प्रत्युक्त्वा स्वं धनुरास्फालयामास । ततो विविधान्यस्त्राणि वर्षन्तौ तौ मिथो युयुधाते । इन्द्रजित्कुम्भकर्णाद्याश्चाऽपि स्वामिभक्त्याऽधावन्त ।।
ततो रामः कुम्भकर्णं लक्ष्मण इन्द्रजितमपरे चाऽपरान् रुद्धवा सागरे नक़र्नका इवाऽयुध्यन्त । एवमतिदारुणे युद्धे प्रवर्त्तमाने इन्द्रजिलक्ष्मणाय तामसास्त्रममुञ्चत् । तच्च लक्ष्मणस्तपनास्त्रेण वारयामास । ततो लक्ष्मणो नागपाशास्त्रं मुक्त्वा इन्द्रजितमबध्नात् । तेन चाऽऽक्रान्तसर्वाङ्गः स भूमौ निपपात । विराधश्च लक्ष्मणाज्ञया तं स्वरथे निक्षिप्य स्वशिबिरमनैषीत् । रामेण नागपाशास्त्रेण बद्धं कुम्भकर्णं च भामण्डलो रामाज्ञया शिबिरमनैषीत् । अन्येऽपि मेघवाहनादयो रामस्य सैनिकैर्बद्धा निजे शिबिरे निन्यिरे । तद् दृष्ट्वा च क्रोध-शोकाभ्यामाक्रान्तो रावणो विभीषणाय शूलं मुमोच । तच्च लक्ष्मणो मध्य एव बाणैः कणशश्चकार । ततो विजयार्थी रावणो धरणेन्द्रप्रदत्ताममोघविजयाख्यां महाशक्ति सर्वजगद्भयावहां समुद्दधे।
ततो रामो लक्ष्मणमुवाच-'अस्माकमतिथिरेष विभीषणो हन्यते, आश्रितघातिनो नो धिक्' । तच्छ्रुत्वा च लक्ष्मणो विभीषणाग्रे गत्वा स्थित्वा रावणमाक्षिपत् । तं गरुडस्थं दृष्ट्वा रावण उवाच-'तुभ्यं शक्तिोंक्षिप्ता, मा मृथाः, अथवा म्रियस्व, यतस्त्वमेव मे हन्तव्यः' इत्युक्त्वा तां भ्रमयित्वा लक्ष्मणाय
सप्तमं पर्व - सप्तमः सर्गः मुमोच । तां चाऽऽपतन्ती लक्ष्मणाद्याः स्वैः स्वैरौनिवारयामासुः । किन्तु सा शक्तिरस्त्राणि तान्यविगणय्य लक्ष्मणोर:स्थले पपात । तया विभिन्नश्च सौमित्रिभूमौ पपात । कपिसैन्ये च महान् हाहारवो जज्ञे । तेन चाऽतिक्रुद्धो रामो रावणं जिघत्सुरिवाऽऽयोधयितुमारेभे। क्षणाच्च स तं रावणं विरथं चकार । रावणश्च रथान्तरमारुरोह । एवं रामो रावणं पञ्च वारान् विरथी चकार । रावणश्च हृद्यचिन्तयत्-भ्रातृस्नेहादयं स्वयं मरिष्यति, तद्युद्धेनाऽलम् । एवं विचार्य स द्रुतं लङ्कापुरीं जगाम । रविश्चाऽस्तमुपेयाय ।
*** ततो रावणे गते रामो लक्ष्मणमुपेत्य तं भुवि पतितं दृष्ट्वा मूच्छित: सुग्रीवादिकृतशीतोपचारेण लब्धसंज्ञो रुदन् बहु विललाप। क्रोधाद् रावणं प्रति धावमानश्च विनयात् सुग्रीवाद्यैः 'रावणो लङ्कां गतो लक्ष्मणश्च विह्वल इति धैर्यमाधेहि, लक्ष्मणस्य संज्ञोपायं चिन्तये'ति प्रतिबोधितोऽपि भूयोऽपि विललाप । ततो विभीषण उवाच 'स्वामिन् ! अधैर्येणाऽलम्, अनया शक्त्या हतोऽपि नरो रात्रि यावज्जीवति, तन्मन्त्र-तन्त्रादिना घातप्रतीकाराय यतनीयम्' । ततो रामेण तथास्त्वित्युक्ते सुग्रीवाद्या विद्यया सप्तप्राकारान् चतुरान् राम-लक्ष्मणयोः परितो विचक्रुः । तत्र पूर्वद्वारे सुग्रीवाद्या, उदीच्यामङ्गदाद्याः, प्रतीच्यां नीलाद्या, दक्षिणस्यां च भामण्डलाद्या अस्थुः । एवं राम-लक्ष्मणौ मध्ये कृत्वा सुग्रीवाद्याः प्रजागरपरास्तस्थुः ।
कश्चिच्च सीताया: लक्ष्मणस्य विपतिं प्रातः रामस्य च भ्रातृसौहृदाद् मरणमाचख्यौ । तेन च वज्रेणेव हता सा भूमौ मूच्छिता

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129