Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१५७
१५६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सत्यसुग्रीवश्चाऽपि तदैवाऽऽगतो द्वारि 'सुग्रीवोऽग्रेगत' इति वादिभिरपालैर्निरुद्धः । ततो वालिपुत्र: सुग्रीवद्वयं दृष्ट्वा सन्देहात् शुद्धान्तोपद्रवं त्रातुं शीघ्रं ययौ । कपटसुग्रीवश्च तेन शुद्धान्ते प्रविशन्निरुद्धः । तदानीं च सैनिकानां चतुर्दशाक्षौहिण्यस्तत्राऽमिलन् । द्वयोरपि तयोर्भेदमजानन्तस्तेऽर्धेऽर्धे सत्यसुग्रीवत: कपटसुग्रीवतश्च विभक्ताः । ततो द्वयोरपि सैन्ययोर्दारुणं युद्धमजनि । तत्राऽन्तरे कपटसुग्रीवो गर्जितं कुर्वन् युद्धोद्यतोऽभवत् । तौ द्वावपि युद्ध्यमानौ च्छिन्नास्त्री मल्लयुद्धेन कृतघातावन्योन्यं जेतुमसमर्थों दूरमपसृत्य तस्थतुः ।
ततः सत्यसुग्रीवोऽञ्जनासुतं साहाय्यार्थं समाहूय भूयोऽपि मायासुग्रीवेण युध्यमानो भेदमजानतो हनुमतः पश्यतोऽपि मायासुग्रीवः सत्यसुग्रीवं ताडयामास । तेन खिन्नश्च सत्यसुग्रीवः किष्किन्धपुराद् बहिर्निर्गत्याऽऽवासमग्रहीत् । मायासुग्रीवश्च तत्रैव स्थितोऽपि वालिनन्दनाद् निषिद्धोऽन्तःपुरप्रवेशं न लेभे ।
__ सत्यसुग्रीवश्चाऽधोमुखो दध्यौ-'अहो ! कोऽपि परस्त्रीलम्पटो मायापटुरेष मे शत्रुः । माया-पराक्रमाभ्यामुत्कृष्टोऽयं मया कथं वध्यः ? पराक्रमभ्रष्टं मां धिक् । धन्यो वाली, यो राज्यं तृणवत् त्यक्त्वा परमं पदं जगाम । मम कुमारश्चन्द्ररश्मिर्जगतोऽपि बलीयान् । किन्तु द्वयोर्भेदमजानन् स कं रक्षतु कं वा हन्तु ? किन्तु तेनेदं साधु समाचारितं यत् तस्याऽन्तःपुरप्रवेशो रुद्धः । अस्य पापीयसो वधाय कं बलीयांसं श्रयामि ? किं त्रिलोकीवीरं रावणं देवयज्ञभञ्जनं श्रयामि ? किन्त्वसौ प्रकृत्या स्त्रीलम्पटो मां तं च हत्वा तारां ग्रहीष्यति । ईदृशेऽवसरे खरः साहाय्यकर आसीत्,
सप्तमं पर्व - षष्ठः सर्गः सोऽपि रामेण हतः । तत्तावेव राम-लक्ष्मणौ विराधस्य राज्यप्रदौ पाताललङ्कायां स्थितौ गत्वा मित्रीकरोमि" ।
एवं विचार्य रहसि स्वयमनुशिष्य विश्वासपात्रं दूतं प्रेषितवान्। स दूतश्च गत्वा पाताललङ्कायां विराधं प्रणम्याऽशेषं वृत्तान्तं निवेद्याऽब्रवीत्-'मम स्वामी महति व्यसने पतितः, त्वद्वारेण राम-लक्ष्मणौ शरणीकर्तुमिच्छति' । ततस्तेन सुग्रीवो द्रुतमायात्वित्युक्त इत: समेत्य सुग्रीवाय निवेदयामास । सुग्रीवश्चाऽपि द्रुतमेव ससैन्यः प्रस्थाय पाताललां प्राप्य विराधमुपस्थाय तेन सहैव गत्वा रामं नत्वाऽवोचत्-'अस्मिन् व्यसने त्वं मे गतिः' । रामोऽपि स्वयं दःख्यपि परकार्यव्यसनी तदुःखं च्छेत्तुं समाजगाम। विराधेन सीताहरणवृत्तान्तं ज्ञात्वा च बद्धाञ्जलि: सुग्रीवो रामं निवेदयामास-'त्वत्प्रसादाद् विनष्टारिः ससैन्यः शीघ्रमेव सीतायाः प्रवृत्तिमानेष्यामि' । ततो रामो विराधं विसृज्य ससुग्रीवः किष्किन्धां प्रति प्रतस्थे ।
ततो रामे पुरद्वारमधिष्ठिते सुग्रीवः कपटसुग्रीवं रणायाऽऽह्वास्त । मायासुग्रीवोऽपि गर्जन् शीघ्रमेवाऽभ्याजगाम । द्वावपि च मत्तौ वनगजाविवाऽयुध्येताम् । रामश्च सरूपौ तौ दृष्ट्वा संशयानः क्षणमुदासीन इव तस्थौ । ततः किञ्चिद् विचार्य रामो वज्राभिधधनुष्टङ्कारमकरोत् । तद्धवनेश्च साहसगतेः प्रतारिणी विद्या क्षणादेव पलायत । ततो मायया सर्वं विमोह्य परदारै रिरंसुकाम ! पाप ! तिष्ठेत्युक्त्वा राम एकेनाऽपि बाणेन तस्य प्राणानहार्षीत् । तत: सुग्रीवं राज्ये न्यवेशयत् । सुग्रीवश्च प्राग्वदेव निजैर्नमश्चक्रे । ततः सुग्रीवस्त्रयोदशाऽत्यन्तसुन्दरीनिजा: कन्या ग्रहीतुं प्राञ्जली राममयाचिष्ट । रामश्च सीतान्वेषणार्थं प्रयतस्व,

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129