Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 88
________________ षष्ठः सर्गः अथ रामो धनुर्धरो द्रुतमेव शत्रुभिः सङ्ग्राममारभमाणं लक्ष्मणमुपाजगाम । तमागच्छन्तं दृष्ट्वा किं सीतामेकाकिनीं मुक्त्वा त्वमिहाऽऽगम इति लक्ष्मणः पृष्टवान् । तव सिंहनादेनाऽऽयातोऽस्मीति रामेण प्रत्युक्तश्च लक्ष्मणः पुनरुवाच- 'मया न सिंहनादो विहितो भवता च श्रुतः, तद् नूनं वयं केनाऽपि वञ्चिताः । सीतामपहर्तुं केनाऽप्यनेनोपायेन दूरमुपनीतोऽसि तदत्र बलवत्कारणं शङ्के । ततः सीतां परित्रातुं त्वरितमेव गच्छ । अहमप्यरीन् हत्वा द्रुतमेव पृष्ठतः समागच्छामि' । "लक्ष्मणेनैवमुक्तो रामः स्वस्थानं प्राप्य सीतामनवलोक्य च मूच्छितो भुवि पपात । लब्धसंज्ञश्चोत्थाय मुमूर्षु जटायुषं दृष्ट्वा च दध्यौ - 'केनाऽपि च्छलेन मे दयिताऽपहता, तेनैव चाऽयं युध्यमानो हतः " । ततः प्रत्युपकारकामो रामः तस्य श्रावकस्य जटायुषो नमस्कारमन्त्रं ददौ । स च विपद्य माहेन्द्रे महर्द्धिको देवोऽभवत् । रामश्च सीतावेष्टुमितस्ततोऽरण्ये बभ्राम | इतश्च लक्ष्मण एक एव खरेण युध्यमान खरानुजं त्रिशिरसं खरं निवार्य युद्धोद्यतं रथस्थं जघान । तदानीमेव च पाताललङ्केश्वरचन्द्रोदरनृपतनयो विराधः सबल: समुपत्य नत्वा लक्ष्मणमूचे'तव भृत्योऽहमेतेषां तव शत्रुणां शत्रुः । इमे रावणपत्तयो मे पितरं

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129