Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१५०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तामनुसरन्त्यविदूर एव ससीता-लक्ष्मणमासेचनकं रामं तरुतले स्थितमपश्यत् सा । रिरंसापरवशा सुन्दरं कन्यारूपं विकृत्य कम्पमानगात्रोपतस्थे सा । ततो रामेण कुत इहाऽऽगम इति पृष्टोवाच-'अवन्तिराजस्य कन्याऽहं सौधतले सुप्ता रात्रौ केनाऽपि हृता । इहाऽरण्ये च सखड्गेन केनाऽपि विद्याधरेण दृष्टः स स्त्रीरत्नमपहृत्य न गन्तुमर्हसि मयि तिष्ठतीति तेनोक्तः । ततो द्वावपि सामर्षों युद्ध्वा विपेदाते । अहं चैकाकिनीतस्ततो भ्राम्यन्ती दैवात् त्वां प्राप्ताऽस्मि । तन्मां कुलजां कुमारी परिणय' । ध्रुवमियं काऽपि मायाविनी मां वञ्चयितुमिहाऽऽगतेति चिन्तयन्तौ राम-लक्ष्मणौ स्मेरनेत्रावन्योन्यं ददृशतुः ।
रामस्तामुवाच-'अहं सभार्यः, तल्लक्ष्मणमभायं भज । ततस्तेनैवमुक्ता लक्ष्मणेन च तथैवोक्ता प्रार्थनाभङ्गात् पुत्रवधाच्च क्रुद्धा गत्वा खरादीनां सर्वं पुत्रवधादिवृत्तान्तमाख्यत् । ततस्ते खरादयः क्रुद्धाश्चतुर्दशभिविद्याधरसहनै राममुपद्रोतुमभ्याययुः । ततो मयि तिष्ठति तव यद्धेनाऽलमिति प्रार्थयन्तं लक्ष्मणं-'जयाय गच्छ, सङ्कटे ममाऽऽह्वानाय सिंहनादं कुर्या' इति रामः समादिशत्। ततो रामेणाऽनुज्ञप्तो लक्ष्मणो धनुरादाय गत्वा तान् हन्तुं गरुडः सानिव प्रववृते । युद्धे प्रवर्धमाने च स्वभर्तुः सहायार्थ सा रावणस्वसा गत्वा रावणमूचे-'दण्डकारण्ये समायातौ मनुष्यौ राम-लक्ष्मणौ ते भागिनेयं जघ्नतुः । तज्ज्ञात्वा तत्र गत्वा ते स्वसृपतिः सानुजः सबलो लक्ष्मणेन युध्यमानोऽस्ति । रामश्चाऽन्यत्र सीतया सह स्थितोऽस्ति । सीता परमसुन्दरी लोकविलक्षणैवाऽस्ति, यदि तत्स्त्रीरत्नं न गृह्णासि, तद् रावणो नाऽसि' ।
ततो रावणः पुष्पक विमानमारुह्य तं यत्र जानकी तत्र शीघ्र याहीत्यादिशत् । तत्र विमाने समुपस्थिते च राममुग्रतेजसं दृष्ट्वा
सप्तमं पर्व - पञ्चमः सर्गः भीतस्ततो व्याघ्रोऽग्नेरिव दूरे स्थितोऽचिन्तयत्-'इतो रामो दुष्प्रापः, इतश्च सीताहरणमिष्टमितीतो व्याघ्र इतस्तटी' । तद्विचार्य स्मृतिमात्रेणोपस्थितामवलोकनी विद्यां बद्धाञ्जलिरादिशत्-'मम सीताहरणे साहाय्यं कुरु' । ततः सा विद्योवाच-'रामसमीपस्थायाः सीताया हरणमसाध्यम् । तत्रैष उपायो यद् रामो लक्ष्मणं तत्सङ्केतितसिंहनादेन यथा याति तथा कुरु' । ततस्तथा कुर्विति रावणेनाऽऽदिष्टा साऽन्यत्र गत्वा लक्ष्मणसिंहनादं विचकार । तं च श्रुत्वा लक्ष्मणोऽप्रतिमल्ल इति तस्य कुतः सङ्कटमिति चिन्तयति रामे लक्ष्मणवात्सल्यात् सीतोवाच-किं विलम्बसे ? शीघ्रं गत्वा लक्ष्मणं त्रायस्व' । तत: सिंहनादेन सीतावचनेन च प्रेरितोऽशकुनान्यप्यगणयन् द्रुतं जगाम ।
ततो रावणो विमानादुत्तीर्य बलाद् रुदती सीतां विमाने समारोपयितुमारेभे । तद् दृष्ट्वा च क्रुद्धो जटायुर्नखचञ्चुभिर्दशग्रीवस्योरो विदारयामास । रावणोऽपि खड्गमाकृष्य तं खगं पक्षौ छित्वा भूतलेऽपातयत् । ततो निःशङ्को रावणः सीतां पुष्पके समारोप्य दुतं नभसोत्पपात । सीतारुदितं श्रुत्वा चाऽर्कजटिपुत्रो रत्नजटिर्दध्यौ-'समुद्रस्योपरि रुदितं श्रूयते, तद् नूनं रामपत्नी रावणेन ह्रियते । राम-लक्ष्मणौ च च्छलितौ । तदद्य स्वामिनो भामण्डलस्योपकरोमी'ति विचिन्त्य खड्गमाकृष्य रावणं दधाव । रावणश्च युद्धायाऽऽह्वयमानं तं हसित्वा विद्यासामर्थ्यतस्तस्याऽखिलां विद्यां जहार । तेन च स पक्षहीन: पक्षीव हतविद्यः पतित: कम्बुद्धीपे कम्बुशैलमारुह्य तस्थौ ।
रावणोऽपि विमानस्थो नभसा गच्छन् कामातः सीतां सानुनयमुवाच-'खेचरभूचराधीशस्य मे महिषीपदमाप्य किं रोदिषि ? रामस्तव नाऽनुरूप: । मां पति मन्यस्व' । एवं कथयति रावणे

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129