Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 85
________________ १४८ शाकापुरुषचरितम् - गद्यात्मकसारोद्धारः साधु ज्ञातम् । अस्य दुर्मतेरुचितं कर्तुं त्वमेव जानासि तत् कुरुष्व, पुनर्न प्रष्टव्योऽहम् । ततः पालकः शीघ्रं गत्वा यन्त्रं कारयित्वा स्कन्दकस्य पुरत एव साधून् प्रत्येकं निपीडितवान् । स्कन्दकश्च निपीड्यमानानेतान् स्वयं देशनापूर्वकं सम्यगाराधनाविधिमकारयत् । चरमे शिशौ मुनावुपयन्त्रं नीते च करुणावशात् स्कन्दकः पालकमुवाच- 'आदौ मामेव पीलय, ममैतद् वचः कुरु, बालं मुनिं यथा पील्यमानं न पश्यामि' | पालकस्तु स्कन्दकं तत्पीडापीडितं ज्ञात्वा तमेव बालमुनिमपीलयत् । ते मुनयश्च सर्वे समुत्पन्नकेवला अव्ययपदमवापुः । स्कन्दकस्तु प्रत्याख्याय निदानं चकार दण्डक-पालककुलराष्ट्रविनाशायाऽस्य तपसः फलेन भूयासम् । एवं कृतनिदान: पालकेन पीलितो विपद्याऽग्निकुमारो देवोऽभूत् । शकुनिकया च पुरन्दरयशसा दत्तं रत्नकम्बलतन्तुजं रक्ताक्तं तद्रजोहरणमुद्धृतं यत्नेन धृतमपि दैवात् पुरन्दरयशोदेव्याः पुरः पपात । सा च भ्रातुर्मुनेर्विपदं ज्ञात्वा दण्डकमाक्रोशन्ती शोकमग्ना शासनदेवतया मुनिसुव्रतपादान्ते नीता प्राव्राजीत् । स्कन्दका - ऽग्निकुमारश्च प्राग्जन्माऽवधिना ज्ञात्वा सपालकं सनगरं दण्डकं ददाह । तत्प्रभृत्युद्वसमिदं दारुणं दण्डकारण्यं दण्डकनाम्ना भुवि विख्यातं बभूव । दण्डकोऽपि भवान् भ्रान्त्वाऽयं गन्धाख्यः स्वकर्मभिर्महारोगी पक्षीजातोऽस्मद्दर्शनाज्जातिस्मरणं प्राप्तोऽस्मत्स्पर्शोषधीलब्ध्या नीरोगो जातः । तच्छ्रुत्वा प्रसन्नः स पक्षी पुनरपि मुनिपादयोः पतित्वा धर्मं श्रुत्वा श्रावकत्वमुरीचकार । मुनिरपि तस्येप्सितं ज्ञात्वा जीवघातमांसाहाररात्रिभोजनकर्मणां प्रत्याख्यानं ददौ । युष्माकमेष साधर्मिकः । सप्तमं पर्व पञ्चमः सर्गः १४९ तस्मिन् वात्सल्यं श्रेयस्करमुक्तं जिनेश्वरैरिति राममुक्त्वा तेन चाऽस्माकमेष परमो बन्धुरित्यङ्गीगारपूर्वकं वन्दितौ तौ मुनी नभसोत्पत्याऽन्यतो जग्मतुः । रामादयश्च जटायुना सह तं दिव्यं रथमारुह्य क्रीडया विजहुः । इतश्च पाताललङ्कायां खर- चन्द्रणखात्मजौ शम्बूक - सुन्दौ तरुणावास्ताम् । पितृभ्यां निषिध्यमानोऽपि शम्बूकः सूर्यहासासिसाधनार्थं दण्डकारण्यमुपेत्य क्रौञ्चरवातीरे वंशगह्वरान्तः स्थित्वा मां यो वारयिष्यति तं हनिष्यामीत्युक्तवान् । ततः स एकाशनो, विशुद्धो, ब्रह्मचार्यधोमुखो, वटशाखायां बद्धपादो, विद्यां सप्ताहाग्रद्वादशाब्द्या सिद्धिमुपगन्त्रीं जपितुमारेभे । एवमधोमुखं तस्थुषस्तस्य दिवसचतुष्ट्याऽधिकद्वादशाब्दी व्यतिक्रान्ता । ततः सेधुकामः सूर्यहासः कोशगुप्तस्तत्र समागतः । तदानीमेव क्रीडयेतस्ततो भ्राम्यन् लक्ष्मणस्तत्रोपेत्य तमसिं दृष्ट्वा हस्तेनाऽऽदाय कोशादाकृष्य तत्तीक्ष्णत्वपरीक्षार्थं समीपस्थां वंशजालीं लुलाव । तेन च वंशगह्वरान्तरस्थस्य शम्बूकस्य शिरं कर्तितं पुरः पतितं दृष्टम् । 'अयुध्यमानोऽशस्त्रश्च मया कोऽपि हतः, मां धिगि 'त्यात्मानं निन्दयित्वा गत्वा रामायाऽशेषं वृत्तान्तं निवेद्याऽसिं च दर्शयामास । ततो राम उवाच - 'सूर्यहासोऽयमसिः अस्य साधकस्त्वया हतः अस्य कोऽप्युत्तरसाधको भविष्यति' । अत्रान्तर एव रावणस्वसा चन्द्रणखा मत्पुत्रस्याऽद्य सूर्यहासः सेत्स्यतीति कृतत्व पूजासामग्रीमादाय मुदिता तत्रोपस्थिता पुत्रस्य च्छित्रं शिरो ददर्श च । क्वाऽसि वत्स ! शम्बूकेति रुदति लक्ष्मणस्य मनोहरां पादन्यासपङ्क्तिमपश्यत् । मत्पुत्रघातकस्येयं पादपङ्क्तिरिति


Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129