Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
m
१४७
१४६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कञ्चित् प्रयोजनमस्तीत्युक्तस्तथाऽप्युपकरिष्यामीत्युक्त्वा तिरोहितवान् ।
अथ वंशस्थलाधीशः सुरप्रभस्तत्रैत्य नत्वा पूजयित्वा रामाज्ञया तत्र शैलेऽर्हच्चैत्यान्यकारयत् । रामनाम्ना च स गिरिस्तत्प्रभृति रामगिरिरिति ख्यातः । रामश्च सुरप्रभमापृच्छ्य प्रस्थाय गहनं दण्डकारण्यं प्रविवेश । तत्र च महागिरिकन्दरे आवासं विधाय निजगृह इवोवास ।
अथाऽन्येधुर्भोजनसमये त्रिगुप्त-सुगुप्तौ चारणौ मुनी नभसा तत्र समायातौ कृतद्विमासोपवासौ पारणार्थमुपस्थितौ भक्त्या वन्दितवन्त: सीता-राम-लक्ष्मणाः । सीता च यथोचितैरन्नपानैस्तौ प्रत्यलाभयत् । तदा देवै रत्नगन्धाम्बुवृष्ट्यो विदधिरे । तदानीं च कम्बुद्वीपविद्याधरेश्वरो रत्नजटी द्वौ सुरौ चाऽऽगत्य रामाय साश्वं रथं ददुः । तत्र च गन्धाम्बुवृष्टिगन्धेनाऽऽकृष्टो गन्धनामा खगो रोगी पादपादुत्तीर्य समायातो मुनेर्दर्शनमात्रेण सम्प्राप्तजातिस्मरणो मूर्च्छया भूमौ पपातः । स: सीतयाऽम्बुभिः सिक्तो लब्धसंज्ञ: समुत्थाय साधुपादेषु पतित: साधोः स्पौषधीलब्या क्षणाद् नीरोगोऽभवत् ।
तदानीं च तस्य पक्षौ हैमौ, चञ्चू विद्रुमाभा, पादौ पद्मरागप्रभौ, वपुर्नानारत्नप्रभं जटाश्च शिरस्यभवन् । तदादि तस्य पक्षिणो जटायुरिति नामाऽभवत् । ततो रामो मुनी अपृच्छत्-'क्रव्यादः कुधीश्चाऽपि गृध्रोऽयं वः पादयोः पतित्वा कस्माच्छान्तो जातः । तथाऽत्यन्तकुरूपाङ्गः क्षणात् कनकरत्नद्युतिः कथमभवत् ?' ततः सुगुप्तमुनिराह
सप्तमं पर्व - पञ्चमः सर्गः
इह पुरा कुम्भकारकटं नाम पुरं दण्डको नाम राजा चाऽऽसीत् । तदा च श्रावस्त्यां जितशत्रू राजा धारिणी च तद्भार्या स्कन्दकश्च तत्पुत्र आसन् । तयोश्च पुरन्दरयशसं नाम कन्यां दण्डकः पर्यणैषीत् । एकदा च केनचित् प्रयोजनेन दण्डको जितशत्रु प्रति पालकं नाम द्विजं दूतं प्राहिणोत् । तदानीं च जितशत्रुरर्हद्धर्मगोष्ठीपर आसीत् । कुधी: पालकश्च तं धर्मं दूषयितुं प्रारेभे । तत: स्कन्दकेन युक्त्या स निरूत्तरीचक्रे । तदा सभ्यैरुपहसितः स्कन्दकः साम! राज्ञा विसृष्टः कुम्भकारकटमुपेतवान् । स्कन्दकश्चाऽन्यदा विरक्तः पञ्चशत्या राजपुरुषाणां मुनिसुव्रतपादान्ते व्रतं गृहीत्वा पुरन्दरयशःप्रभृतिकं बोधयितुं कुम्भकारकटं यामीत्यापप्रच्छ प्रभुम् ।
प्रभुणा च तत्र गतस्य ते सपरिवारस्य मारणान्तिक उपसर्गो भावीत्युक्तम् । तत्र वयमाराधका भाविनो न वेति पुनः पृष्टेन भगवता त्वां विना सर्वेऽप्याराधका इत्याख्यातम् । सर्वमेतत् सम्पूर्णमित्युक्त्वा मुनिपञ्चशत्या परिवृतश्चलितः स्कन्दकमुनिः कुम्भकारकटं प्राप्तवान् । पालकश्च तं दृष्ट्वा तं पराजयं स्मरन्नुद्याने
शस्त्राण्यखानयत् । तत एकस्मिन्नुद्याने समवसृतं स्कन्दकमुनि वन्दितुं दण्डकः सपरिवार आययौ । मुनेर्देशनां श्रुत्वा च हृष्टो गृहं ययौ । तत: पालको रहसि दण्डकमूचे-'स्वामिन् ! असौ मुनिर्बकाचार: पाखण्डी सहस्रयोधिभिर्मुनिवेषधरैः पुम्भिस्त्वां हत्वा राज्यं ग्रहीतुमिहाऽऽगतोऽस्ति । अत्रोद्याने च निजस्थाने गुप्तं शस्त्राणि निखातानि दृष्ट्वा प्रत्ययं कुरु' ।
ततो नृपः सर्वतो मुनिस्थानानि निखन्य चित्राण्यस्त्राणि दृष्ट्वा च परं विषण्णोऽविचार्यैव पालकमादिदेश-'मन्त्रिन् ! त्वया

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129