Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 87
________________ १५२ पुरुष-गद्यात्मकसारोद्धारः रामं स्मरन्ती सीता नम्रमुखी तस्थौ । रावणश्च कामार्त्तस्तस्याः पादयोः पपात । सीता च परपुरुषस्पर्शभीता पादावपसारयत् । निस्त्रप! परस्त्रीलम्पट ! शीघ्रमेव तव मृत्युर्भवितेति रावणमाचुक्रोश च । तदानीं च समन्ताद् रावणस्य सारणादयो मन्त्रिणः सामन्तादयश्च संमुखाः समागतवन्तः । रावणश्च सोत्साहं महोत्सवां लङ्कापुरीमागमत् । सीता च यावद् राम-लक्ष्मणकुशलं न प्राप्नोमि तावद् न भोक्ष्ये इत्यभिग्रहं गृहीतवती । ततो रावणो लङ्कापूर्वदिशि स्थिते देवरमणोद्याने रक्ताशोकतरुतले त्रिजटयाऽऽरक्षकैश्चाऽऽवृतां जानकीं मुक्त्वा प्रमुदितः स्वं धाम जगाम ॥ ५ ॥ इति सीताहरणवर्णनात्मकः पञ्चमः सर्गः ॥५॥

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129