Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 89
________________ १५४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः चन्द्रोदरं निर्वास्य पाताललङ्कां जगृहुः । यद्यपि तव न मत्साहाय्यप्रयोजनं तथाऽपि मां समादिश" । ततो विहस्य लक्ष्मण उवाचमया हन्यमानान् शत्रून् पश्य, पराक्रमशालिनामन्यसाहाय्याद् विजयस्त्रपाकरः । अद्यारभ्य रामस्ते स्वामी, त्वं चाऽद्य मया पाताललङ्काराज्ये स्थापितोऽसि" । ततो विराधं तत्र दृष्ट्वाऽधिकं क्रुद्धोऽभ्येत्य खरो जगाद-'विश्वासघातिन् । क्व मम पुत्र: शम्बूकः ? विराधेन किमधुना रक्ष्यसे ?" ततो विहस्य लक्ष्मणो जगाद-'तवाऽनुजस्त्रिशिरा भ्रातुप्पुत्रस्य सोत्कण्ठस्तमनुप्रेषितः, त्वामपि तत्र नेताऽस्मि । मूर्ख ! मया प्रमादेन तव पुत्रो हतः, तत्र मे पौरुष नाऽस्ति । किन्तु त्वां हत्वा कीनाशं प्रीणयामि" । तद्वचसा क्रुद्धश्च खरो लक्ष्मणं प्रहर्तुमारेभे । लक्ष्मणोऽपि क्षणेनाऽपि बाणैर्नभच्छादयामास । द्वयोर्भयङ्करो युद्ध: प्रावर्त्तत । तदानीं च 'विष्णुनाऽपि युद्धे यस्येदृशी शक्तिः स खरः प्रतिविष्णोरप्यधिक" इति नभोवाणी प्रादुर्भूता । लक्ष्मणश्चाऽस्य वधेऽपि कालविलम्ब इत्यमर्षाल्लज्जितो बाणेन खरशिरश्चिच्छेद । दूषणोऽपि च युद्धायोद्यतः ससैन्यो लक्ष्मणेन विनाशितः । ततो विराधेन सह वलितो लक्ष्मणो दूरं गत्वा सीताविरहितं रामं दृष्ट्वा परमं विषादं प्राप । रामश्च सीताविरहपीडितः पुरस्थमपि लक्ष्मणमपश्यन् नभोऽभिमुखं जगाद-"मयेदं वनं भ्रान्तं किन्तु सीता नाऽवलोकिता । हे वनदेवताः ! युष्माभिः सा न दृष्टा किम् ? अस्मिन् गहने वने एकाकिनी सीतां मुक्त्वा लक्ष्मणाय गतोऽस्मि । लक्ष्मणं च रक्षोभटसहस्राग्रे मुक्त्वेहाऽऽगतः । मम धियं धिक्" । एवं ब्रुवन् रामो मूर्च्छया भुवि पपात । ततो लक्ष्मण उवाच-'एष तव भ्राता सप्तमं पर्व - षष्ठः सर्गः लक्ष्मणोऽरीन् हत्वा समुपस्थितोऽस्मि" । तद्वचसाऽमृतेनेव सिक्तो लब्धसंज्ञो रामोऽग्रे लक्ष्मणं दृष्ट्वाऽऽलिलिङ्ग । ततो लक्ष्मण उवाच-"सिंहनादस्य कारणं सीताहरणं ध्रुवं कस्याऽपि च्छलिनः । तत्तस्य प्राणैः सहैव सीतामानेष्यामि । सम्प्रति तवृत्तान्तप्राप्तये यतामहे । एष विराधश्च पैतृके पाताललङ्काराज्ये स्थाप्यताम् । यद् मया खरयुद्धे तत् स्वीकृतम्" । विराधश्च सीताप्रवृत्तिमानेतुं विद्याधरभटान् प्रेषयामास । राम-लक्ष्मणौ च क्रुधाऽधरंनिर्दशन्तौ शोकमग्नौ तत्र तस्थतुः । विद्याधराश्च दूरं भ्रान्त्वाऽपि सीताप्रवृत्तिमप्राप्य तत्रैत्याऽधोमुखास्तस्थुः । तज्ज्ञात्वा रामस्तानब्रवीत्-'स्वामिकार्ये युष्माभिर्यथाशक्ति साधु समुद्योग: कृतः । यदि सीताप्रवृत्तिर्न प्राप्ता, तत्र न भवतो दोषः" । ततो विराधो नत्वाऽवदत्-'शोकं मा कृथाः, पाताललङ्कायां मां निवेशयितुमद्याऽऽगच्छ, तत्र सीताप्रवृत्तिरपि सुलभा स्यात्" । ततो लक्ष्मणसहितो रामो विराधेन सबलेन सह पाताललङ्काया परिसरं प्राप्तवान् । तत्र च खरपुत्रः सुन्दो रणाय महासैन्यसमन्वितोऽभ्याययौ । स च विराधेन समं भयङ्करं युद्धं चकार । ततो रामे रणं प्राप्ते चन्द्रणखावचसा सुन्दः प्रणश्य लङ्कायां रावणं शरणं ययौ । राम-लक्ष्मणौ च पाताललङ्कां प्रविश्य विराधं पैतृके पदे निवेशयामासतुः । राम-लक्ष्मणौ च खरस्य प्रासादे विराधश्च सुन्दस्य प्रासादे तस्थुः । इतश्चिरं ताराभिलाषिणः साहसगतेहिमवत्कन्दरे प्रतारिणी विद्या सिद्धा । स च तया सुग्रीवरूप: किष्किन्धपुरे गत्वा क्रीडार्थ सुग्रीवे बहिरुद्याने गते ताराविभूषितं तदन्तःपुरं प्रविवेश ।

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129