Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 92
________________ १६० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्थितं विज्ञाय सुग्रीवोऽन्तःपुरात् सद्य एव निर्गत्योपतस्थे । लक्ष्मणेन च कुद्धेन 'निःशङ्कं सुखं तिष्ठसि, प्रतिश्रुतं विस्मृतम् ? अधुनाऽपि सीताप्रवृत्तिमानेतुं प्रयतस्वे'ति निर्भत्सितः पादयोः पतित्वा प्रमादं मे क्षमस्वेति सम्प्रार्थितवान् सुग्रीवः । ततो लक्ष्मणमग्रे कृत्वोपगम्य नत्वा स्वान् सैन्यानादिदेश-'सर्वेऽपि यूयं गत्वा सीतामन्वेषयत' । तथाऽऽदिष्टाश्च ते द्वीपादिषु ययुः । विराधो भामण्डलोऽपि च सीताहरणवृत्तान्तं निशम्य दुःखितः ससैन्य आगत्य रामं शुश्रूषमाणोऽस्थात् । सुग्रीवश्च स्वयं गच्छन् कम्बुद्वीपे रावणात् पराजयं स्मृत्वा भीतभीतं रत्नजटिनमुपगम्योवाच-"किं नाऽभ्युत्थानं करोषि ?" ततो रावणेन युद्धे स्वविद्याहरणवृत्तान्तं निवेदयन्तं तमुपरामं नीतवान् । तेन च सीतावृत्तान्तं ज्ञात्वा मुदितस्तं रत्नजटिनमाश्लिष्य रामः पुनः पुनः पप्रच्छ । तथा रावणहनने विहितसाहसं लक्ष्मणं निशम्य जाम्बवानाह-'कोटिशिलोत्पाटी रावणहन्तेत्यनन्तवीर्यमुनिनाऽऽख्यातं, तत्प्रत्ययार्थं कोटिशिलामुत्पाटय" । तत एवमस्त्वित्युक्तवन्तं लक्ष्मणं विमानेन यत्र कोटिशिलाऽस्ति तत्र नयन्ति स्म ते । ततो देवैः कृतसाधुवादं समुद्धृतकोटिशिलं दृष्ट्वा सञ्जातप्रत्ययाः किष्किन्धायामुपरामं नीत्वोचुः कपिवृद्धाः'युष्मत्तो रावणक्षयः, नीत्यनुसारेणाऽऽदौ समर्थो दूतः प्रेष्यः । स च गहनां लङ्कां गत्वा विभीषणं सीतार्पणाय कथयिष्यति, तेन बोधितेनाऽपि रावणेनाऽवज्ञातो दूतो द्रुतं त्वामुपागमिष्यति' । रामेणाऽनुमते च तद्वचसि सुग्रीवः श्रीभूतिं प्रेष्य हनूमन्तमाहूतवान् । हनूमांश्च सुग्रीवादिपरिवृत्तं राममुपगम्य नत्वा तस्थौ। रामश्च सुग्रीववणितं स्वं गव-गवाक्ष-जाम्बवदादिष्वात्मान सप्तमं पर्व - षष्ठः सर्गः मन्यतमं कथयन्तं लङ्कासमुत्पाटने रावणादिहनने सीतासमानयने च विहितोत्साहं प्रशस्य लङ्कायां सीतान्वेष्यमाणमादिश्याऽभिज्ञानायोर्मिकां दत्त्वा चूडामण्यभिज्ञानानयनाय चाऽनुशिष्याऽहं त्वद्विरहार्तस्त्वां कथमपि धृतप्राणां रावणं हतं दर्शयिष्यामीति सन्दिष्टवान् । ___ हनूमानपि लङ्कातो मदागमनं यावद्भवताऽत्रैव स्थातव्यमिति रामं प्रार्थ्य विमानेन सपरिच्छदो लङ्कां प्रत्यचालीद् । ततो गच्छन् महेन्द्रपर्वते मातामहस्य महेन्द्रस्य महेन्द्रपुरनगरं दृष्ट्वाऽनपराधमातृनिर्वासनं स्मृत्वा क्रुद्धो रणभेरीमवादयत् । ततश्च निर्गतेन सपुत्रमहेन्द्रसैन्येन हनूमत्सैन्यस्य दारुणं युद्धमजनि । महेन्द्रपुत्रः प्रसन्नकीतिर्हनूमताऽयुध्यत । ततः स्वामिकार्यविलम्बकृद् युद्धं निन्दयित्वा प्रारब्धनिर्वाहार्थं जयं मनसि ध्यात्वा रथादीन् विनाश्य प्रसन्नकीर्ति महेन्द्रमपि च गृहीत्वा नत्वा चाऽऽख्यत्-'अहं ते दौहित्रोऽञ्जनासुतो रामकार्यार्थ यामि, किन्तु प्राक्कृतागसा योधितोऽसि, क्षमस्व, राममुपगच्छ' । महेन्द्रोऽपि तमाशीर्वचोभिरभिनन्द्य राममुपजगाम । अथाऽग्रे गच्छन् हनूमान् दधिमुखाद्रौ कायोत्सर्गस्थितौ महामुनी तदनतिदूर एव विद्यासाधनतत्पराश्चतस्त्रः कुमारिकाश्च दवसङ्कटे पतितान् दृष्ट्वा विद्यया सागरजलेन तत् शमयामास । तदैव च ताः सर्वाः तौ मुनी प्रदक्षिणीकृत्य हनूमन्तमाहु:-'त्वया साधव उपसर्गात् साधु रक्षिताः, त्वत्साहाय्येन न: कालमप्राप्ताऽपि विद्या सिद्धा' । ततो हनूमता का यूयमिति पृष्टास्ता: कन्या अब्रुवन्"दधिमुखपुराधीशस्य गन्धर्वराजस्य कुसुममालाकुक्षिजा: कन्या वयम् । मत्कृते व्यग्रं खेचरमङ्गारकमन्यं वाऽविगणय्य मुनेः साहसगतेर्हन्ता ते जामाता भावीति विज्ञातवान् मत्पिता न तादृशं

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129