Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 83
________________ षष्टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः एकदा च सम्मेते चैत्यानि वन्दितुं प्रस्थितौ तावुदित- मुदितौ मार्गभ्रष्टौ तां पल्लीं प्रापतुः । तत्र वसुभूतिजीवो म्लेच्छ: पूर्ववैरात् तौ निरीक्ष्य हन्तुं धावितो म्लेच्छाधिपतिना निषिद्धः । स म्लेच्छराजश्च प्राग्भवे मृगः कर्षकाभ्यामुदित- मुदितजीवाभ्यां व्याधाद् मोचितः । तेन म्लेच्छेशेन रक्षितौ तौ सम्मेतमेत्य चैत्यानि वन्दित्वा चिराय विहरन्तावनशनं विधाय विपद्य महाशुक्रे सुन्दर-सुकेशाख्यौ देवौ बभूवतुः । वसुभूतिजीवो म्लेच्छ्च भवान् भ्रान्त्वा कथञ्चिद् मानुषं प्राप्य तापसो भूत्वा विपद्य ज्योतिष्केषु सुरेषूत्पन्नो मिथ्यादृष्टिधूमकेतुनाम्ना । उदित - मुदितजीवौ च शुक्राच्च्युत्वा भारतेऽरिष्टपुरे प्रियम्वदनृपस्य पद्मावतीकुक्षिजौ रत्नरथचित्ररथाख्यौ सुतौ जातौ । धूमकेतुरपि च्युत्वा तन्नृपस्य कनकाभायां पत्न्यामनुद्वरो नाम पुत्रो जज्ञे स सदा रत्नरथे चित्ररथे च समत्सरो बभूव । किन्तु तौ तस्मिन् मात्सर्यं न चक्रतुः । प्रियम्वदश्च रत्नरथे राज्यं चित्रकथा - ऽनुद्वरयोर्यौवराज्यं च न्यस्य षड् दिवसानि प्रायोपवेशनं कृत्वा विपद्य देवा बभूव । १४४ अथ कश्चिन्नृपोऽनुद्वरे याचमानेऽपि श्रीप्रभां नाम कन्यां रत्नरथाय ददौ । तेन क्रुद्धोऽनुद्वरो रत्नरथस्य महीमलुण्टयत् । रत्नरथेन च रणे निपात्य गृहीतो बहुशो विडम्ब्य मुक्तस्तापसो भूत्वा स्त्रीसङ्गाद् निजं तपो निष्फलीचक्रे । ततो मृत्वा भवान् भ्रान्त्वा मर्त्यो भूत्वा पुनरपि तापसः सन्नज्ञानकं तपश्चकार । सोऽयं मृत्वा ज्योतिष्केष्वनलप्रभोऽयमुपसर्गं चकार । रत्नरथ - चित्ररथौ च दीक्षां गृहीत्वाऽच्युतेऽतिबल - महाबलौ देवौ अभूताम् । ततः च्युत्वा सिद्धार्थपुरे क्षेमङ्करनृपस्य विमलादेवीकुक्षिजावहं कुलभूषणोऽयं देशभूषणश्च पुत्रौ जातौ । सप्तमं पर्व पञ्चमः सर्गः १४५ घोषोपाध्यायतो द्वादशाब्दीं यावत् सकलाः कला गृहीत्वा त्रयोदशेऽब्दे घोषेण सहाऽऽयातौ राज्ञाऽन्तिके राजकुले वातायनस्थां कन्यामपश्याव । तदा जातानुरागौ सद्य एव विमनायितौ राजानमुपगम्य कला अदर्शयाव । नृपेण सत्कृत उपाध्यायो निजास्पदं जगाम । आवां च राजाज्ञया मातरं नन्तुमगच्छाव । तत्र मातुः समीपे तां कन्यामपश्याव I माता च 'युवयोः स्वसा कनकप्रभेयमित्यकथयत् । तथा घोषोपाध्यायगृहे वसतोर्युवयोरियं जातेति युवां नोपलक्षयथ इति चाऽऽख्यातवती । तच्छ्रुत्वा लज्जितावावामज्ञानात् स्वसारं कामयमानौ क्षणाद् विरक्तौ प्राव्राजिष्व । ततस्तीव्रं तपस्तप्यमानौ अत्र प्राप्य महागिरौ शरीरेऽपि निःस्पृहौ कायोत्सर्गेणाSsस्थाव | आवयोर्वियोगेन पिता चाऽनशनेन विपद्य महालोचननामा देवो गरुडेश आसनकम्पेनाऽऽवयोरुपसर्गं विज्ञाय प्राग्जन्मस्नेहात् सम्प्रतीहाऽऽगतः । सोऽनलप्रभदेवो देवैः सह कौतुकादनन्तवीर्यमुनिं केवलिनमुपगम्य नत्वा देशनामश्रौषीत् । देशनान्ते च केनचिच्छिष्येणाऽस्मिन् मुनिसुव्रततीर्थे तव पश्चात् कः केवलीति पृष्टो मुनिराचख्यौ - 'मम निर्वाणे कुलभूषणो देशभूषणश्च द्वौ भ्रातरौ केवलिनौ भविष्यतः'। तच्छ्रुत्वा चाऽनलप्रभो निजं स्थानं प्राप्य विभङ्गेन कायोत्सर्गस्थितावावां ज्ञात्वाऽऽनन्तवीर्यवचनमन्यथा कर्तुमशक्तः प्राग्जन्मवैराद् दारुणमुपसर्गं चकार । तस्योपसर्गं कुर्वतश्च चत्वारि दिनानि व्यतीयुः । अद्याऽत्र युवामागतौ युष्मद्भीत्या च स पलायामास । आवयोश्च कर्मक्षयात् केवलमुत्पन्नम् । तदेवमयमुपसर्गपरोऽपि नौ कर्मक्षये सहायोऽभूत् । गरुडेशो महालोचनदेवोऽपि राममूचे'राघव ! त्वं साध्वकार्षीः, ते किं प्रत्युपकरोमि ?' ततो रामेण न

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129