Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१४०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्वीकरोतीति विग्रहहेतुः' । ततो रामो दूतं पप्रच्छ-'अतिवीर्यस्य युद्धे भरतः समर्थो यत् तत्सेवां न मन्यते ?' ततो द्वावष्यसाधारणावित्युक्तवन्तं दूतं सत्वरमागच्छामीति विसृज्य महीधरो राममुवाच-'अयमल्पज्ञो यदस्मान् भरतयुद्धे समाह्वयति । तत्सेनया सह गत्वाऽनुपलक्षितशत्रुभावोऽतिवीर्यमेव हनिष्यामः' ।
ततो राम उवाच-'त्वं तिष्ठ, ससैन्यैस्तत्सुतैः सहऽहमेव तत्र गत्वा यथा यथोचितं करिष्यामि । एवमस्त्विति तेनोक्तश्च रामः ससैन्यैस्तत्पुत्रैः सहित: ससीता-लक्ष्मणो नन्द्यावर्तपुरं ययौ । रामो बहिरुद्याने कृतनिवास: किमभीष्टं ते करोमीति क्षेत्रदेवतया प्रार्थितो न न: किमपि कर्त्तव्यमित्युक्तवान् । तथाऽपि तवोपकरोम्येतद्यदतिवीर्यः स्त्रीभिजित इति तस्याऽयशसे तस्य ससैन्यस्य स्त्रीरूपं तव च कामिकं तत् करिष्यामी'ति सोचे । ततो महीधरसैन्यं स्त्रीराज्यमिव क्षणात् स्त्रीरूपमभवत् । राम-लक्ष्मणौ चाऽपि स्त्रीरूपावभूताम् । ___ ततो रामस्तमतिवीर्य महीधरेण स्वं सैन्यं तव साहाय्यकृते प्रेषितमिति द्वा:स्थेनाऽज्ञापयत् । ततोऽतिवीर्यो जगाद-'यदि महीधरः स्वयं नाऽऽगात् तर्हि तस्य बहुमानिनो मुमूर्षोः सैन्येनाऽलम्। एकोऽपि भरतं जेष्यामि । तत्सैन्यं द्रुतं निर्वास्यताम्' । ततस्तत्राऽन्यः कश्चिदूचे-'केवलं महीधरः स्वयं नाऽऽगात्, प्रत्युतोपहासाय स्त्रीसैन्यं प्राहिणोत् । तच्छ्रुत्वाऽत्यन्तं क्रुद्धो जातो नन्द्यावर्तेशः । स्त्रीरूपधारिणो रामाद्याश्च द्वारमुपाययुः । ततोऽतिवीर्यो दासीवदिमाः स्त्रियो गलेषु गृहीत्वा पुराद् बहिनिर्वास्यतामित्यादिक्षत् ।
ततः सामन्ताद्याः ससैन्यास्तत्स्त्रीसैन्यमुपद्रोतुं प्रावर्त्तन्त । ततो रामो गजस्तम्भमुत्पाट्याऽऽयुधीकृत्य तानपातयत् । तत: सैन्यभङ्गे
सप्तमं पर्व - पञ्चमः सर्गः भृशं कुपितोऽतिवीर्यः खड्गमाकृष्य रणाय स्वयमुत्तस्थौ । लक्ष्मणश्च तत्खड्गमाच्छिद्य तं केशेष्वाकृष्य तद्वस्त्रेण बद्ध्वा व्याघ्रो मृगमिव तमादाय चचाल । ततः करुणावशात् सीता तं मोचयामास । लक्ष्मणश्च भरतसेवामतिवीर्यं प्रत्यपादयत् । क्षेत्रदेवता च सर्वेषां स्त्रीवेषं सञ्जहार । तदाऽतिवीर्योऽपि तौ राम-लक्ष्मणावज्ञासीत् । ततस्तयोः पूजां विधाय मानभङ्गेन विरक्त: किमहमन्यं भजिष्यामीत्यहङ्कारवान् दीक्षोत्सुको राज्ये सुतं विजयरथं निवेश्य रामेण निषिद्धोऽपि प्रावाजीत् । ततो विजयरथः स्वस्वसारं रतिमालं लक्ष्मणाय ददौ । लक्ष्मणस्तां स्वीचकार ।
रामोऽपि ससैन्यो विजयपुरं विजयरथश्च भरतं सेवितुमयोध्यां प्रतस्थे । भरतश्च तवृत्तान्तं ज्ञात्वा तं विजयरथमायान्तं सच्चकार । विजयरथश्च रतिमालानुजां विजयसुन्दरीं भरताय ददौ । तदा चाऽतिवीर्यो मुनिर्विहरन् तत्र समाययौ । भरतेन च वन्दित्वा क्षमयाञ्चक्रे । विजयरथश्च सप्रसादं भरतेन विसृष्टो नन्द्यावर्तपुरं ययौ ।
___ अथ महीधरमनुज्ञाप्य रामे गन्तुमुत्सुके लक्ष्मणो वनमालामापप्रच्छे । तदा बाष्पार्द्रमुखी वनमालोचे-'यन्मत्प्राणत्राणमकार्षीस्तदधुना मुधा । त्वद्विरहजं हि दुःखमर्धवधतुल्यम् । ततो मृत्युरेव वरम् । तदद्यैव परिणीय मां सहैव नय' । ततो लक्ष्मणो'ऽभीप्सितं स्थानं रामं प्रापय्य त्वां समेष्यामी'ति सशपथं तामाश्वासितवान् । रात्रिशेषे च ससीता-लक्ष्मण: प्रस्थाय क्रमाद् वनान्यतिक्रम्य रामः क्षेमाञ्जलि पुरीं प्राप । तत्र लक्ष्मणेनाऽऽनीतैः सीतया स्वकरेण संस्कृतैः फलादिभिर्बहिरुद्याने वर्त्तयामास ।

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129