Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१३६
पुरुषम् गद्यात्मकसारोद्धारः
काक इत्यपराख्यया ख्यातः क्रमात् पल्लीपतित्वमाप । तत इह स्थितो लुण्टाकैः पुराणि लुण्टयित्वा नृपानपि धृत्वाऽऽनयामि । किन्तु व्यन्तर इव तव वश्योऽस्मि । कर्त्तव्यं समादिश, ममाऽविनयं क्षमस्व' |
ततो रामेण वालिखिल्यं मुञ्चेत्यादिष्टः स म्लेच्छ्राट् तं मुमोच । वालिखिल्यश्च रामं ननाम रामाज्ञया च काकेन स पुनः कूबरपुरं प्रापितो निजां कन्यां पुंवेषां दृष्टवान् । ततो रामलक्ष्मणवृत्तान्तं तौ मिथोऽकुर्वताम् । काकश्च निजां पल्लीं गतः ।
रामोऽपि ततो निर्गत्य विन्ध्याटवीमतिक्रम्य महानदीं तापीं प्राप । रामः तामुत्तीर्याऽरुणग्रामं प्राप्य सीतायां तृषार्त्तायां सलक्ष्मणः कोपनस्य कपिलस्य द्विजस्य गृहं प्राप्तः । तत्र च सुशर्माख्यया ब्राह्मण्या पृथगासनं प्रदाय स्वादु शीतलं सलिलं तया दत्तं पपौ । तदैवाऽऽगतेन पिशाचेनेव दारुणेन कपिलेन 'पापिष्ठे ! किमेते मलिना मम गेहे प्रवेशिताः ?' इत्येवं निर्भर्त्स्यमानां तां ब्राह्मणीं दृष्ट्वा क्रुद्धो लक्ष्मणस्तमुद्धृत्य दिवि पर्यभ्रमयत् । ततो रामेण कीटमात्रेऽस्मिन् कोपेनाऽलम्, अमुं द्विजब्रुवं मुञ्चेत्यादिष्टः शनैस्तं द्विजममुञ्चत् । ततश्च रामस्तद्गृहाद् निर्ययौ ।
अथ ते गच्छन्तः क्रमादन्यां महाटवीं प्राप्ताः । तदैव च वर्षर्तुः समुपस्थितः । वारिदे वर्षति च 'अत्रैव वटे वर्षाकालं नयाम' इति वदन् रामश्च तत्रैव वटतरोस्तले तस्थौ । तद्वटस्थश्चेभकर्णाख्यो यक्षस्तद्वचो निशम्य भीतो गोकर्णं स्वप्रभुमुपजगाम । तं प्रणम्य 'निजावासाद् वटादहं कैश्चिद् दुःसहतेजोभिरुद्वासितः, तत् त्रायस्व मां, ते हि यावद् वर्षर्त्तुं मद्वट एव स्थास्यन्ति' इति प्रार्थितवान् सः ।
सप्तमं पर्व पञ्चमः सर्गः
१३७
गोकर्णोऽप्यवधिना सर्वं ज्ञात्वाऽवोचत्- 'गृहायातावेतावृषभौ बलदेववासुदेवावच्य' । एवमुक्त्वा स रात्रौ तत्रोपेत्य नवयोजनविस्तृतां द्वादशयोजनायामां धन-धान्य- प्रासादादिसमृद्धां रामपुरीं नाम पुरीं निरमात् । प्रातश्च मङ्गलध्वनिना प्रबुद्धो रामस्तं वीणाधरं यक्षं समृद्धां नगरीं च दृष्ट्वा विस्मितः । ततः 'त्वं मे स्वामी चातिथिश्च, गोकर्णो नाम यक्षोऽहं त्वत्कृते पुरीं निर्मितवानस्मि । मया सेव्यमानस्त्वं यथाकालं यथारुचि तिष्ठेति गोकर्णेन प्रार्थितः ससीता-लक्ष्मणस्तत्रैव तस्थौ ।
इतश्च कपिलो विप्रः समिदाद्यर्थं भ्रमन् पर्शुपाणिस्तन्महारण्यं प्राप्य तां पुरीं दृष्ट्वा विस्मितो दध्यौ - 'इयं माया वेन्द्रजालं वा गान्धर्वमेतद् वा पुरम् ?' तत्र चैकां मानुषीरूपां यक्षिणीं कस्येयं पुरीत्यपृच्छच्च । सोचे-गोकर्णेन कृतेयं रामपुरी रामार्थम् । अत्र रामो दीनादिभ्योऽर्थं ददाति । अत्र समागतः सर्व एव कृतार्थो भवती' त्युक्तः समिद्भारं त्यक्त्वा स विप्रो मया कथं रामो द्रष्टव्य इति तां प्रार्थितवान् ।
तया च पुन: ‘अस्यां पुर्यां यक्षै रक्षितं द्वारचतुष्टयमस्ति, तदत्र प्रवेशोऽतिदुर्लभः । अत्र पूर्वद्वारे चैत्यं यथाविधि वन्दित्वा श्रावकीभूय प्रवेष्टुमर्हसि । नाऽन्यथेत्युक्तः स कपिलो धनार्थी साधूनुपगम्य तेभ्यो धर्मं श्रुत्वाऽल्पकर्मत्वाद् विशुद्धः श्रावकोऽभवत् । ततो गृहं गत्वा धर्ममाख्याय भार्यामपि श्राविकां विधाय रामपुरीमेत्य तया भार्यया सह चैत्यं वन्दित्वा राजगृहं प्राविशत् । तत्र सीता-राम-लक्ष्मणानुपलक्ष्य भीतो नंष्टुमना लक्ष्मणेन 'मा भैषीः, यथेष्टं धनं प्रार्थयस्वे 'त्युक्तो गतशङ्को रामायाऽऽशिषं दत्त्वा

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129