Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 82
________________ १४३ mom १४२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ राममनुज्ञाप्य कौतुकात् पुरीं प्रविश्य 'योऽस्य राज्ञः शक्तिप्रहारं सहते, तस्मै स्वकन्यकामेव ददाती'त्याघोषणां श्रुत्वा तद्धेतुं कमपि जनमपृच्छत् । स जन उवाच-'अत्र नगरे शत्रुदमनो नृपोऽस्ति । तस्य कनकादेवीकुक्षिजा जितपद्माख्या सुताऽस्ति । तद्वरस्य बलपरीक्षार्थं प्रत्यहं नृपो घोषणामिमां कारयति, किन्तु कोऽपि तादृशः पुरुषो नैति' । तच्छ्रुत्वा लक्ष्मण: सभास्थितं तं नृपमुपगम्य तेन कुतो हेतोः कुतस्त्य इति पृष्टोऽहं भरतदूतोऽस्मि । प्रयोजनेन केनाऽपि गच्छन् तवेमां कन्यां श्रुत्वा परिणेतुमागतोऽस्मि । मम शक्तिघातं सहिष्यसे इति राज्ञा पृष्टश्च 'किमेकेन पञ्चाऽपि सहिष्ये इति च लक्ष्मण उदतरत् । तदानीमेव च तत्राऽऽगता जितपद्मा लक्ष्मणं प्रेक्ष्य कामार्ता जाता । तया वार्यमाणोऽपि च नृपो लक्ष्मणाय दुःसहं शक्तिपञ्चकं प्राहरत् । लक्ष्मणश्च द्वे कराभ्यां द्वे कक्षाभ्यामेकां च दन्तैरग्रहीत् । ततो जितपद्मा स्वयं तस्मिन् वरमालामक्षिपत् । नृपोऽपि च कन्या त्वयोदुह्यतामित्यवोचत् । लक्ष्मणोऽपि बहिरुद्याने ममाऽग्रजो रामोऽस्ति, तेन सर्वदा परतन्त्रोऽस्मीत्यवोचत् । ततो नृपस्तौ रामलक्ष्मणौ ज्ञात्वा सद्यो गत्वा नत्वा स्ववेश्माऽऽनीय भक्त्याऽपूजयच्च । ततश्चलिते च राम लक्ष्मणः परावृत्तस्त्वत्सुतां परिणेष्यामीति नृपमुक्तवान् । अथ निशायां ततो निर्गत्य रामः सायं वंशशैलाख्यपर्वततटस्थितं वंशस्थलं नाम नगरं प्राप । तत्र सनृपं लोकं भयाकुलं प्रेक्ष्य कमपि जनं तद्भयकारणमपृच्छत् । ततः स पुरुष उवाच-'अद्य तृतीयो दिवसोऽस्ति, रात्रावस्मिन् पर्वते उच्चै रौद्रो ध्वनिर्जायते। तद्भयाच्च सकलो लोको रात्रावन्यत्र गच्छति । प्रातश्च पुनरायाति, सप्तमं पर्व - पञ्चमः सर्गः नित्यमियं कष्टा स्थिति:' । ततश्च रामः कौतुकालक्ष्मणेन प्रेरितस्तमद्रिमारुह्य कायोत्सर्गस्थितौ मुनी दृष्ट्वा सजानकी-लक्ष्मणो वन्दित्वा तदने गोकर्णदत्तवीणामवादयत् । लक्ष्मणश्च ग्रामरागमनोहरं गातुं प्रववृते । सीता च ननर्त । तदैव च रविरस्तमियाय । रात्रिः प्रवृत्ता, विविधानेकवेतालपरिवतोऽनलप्रभो देवश्चाऽऽगतः। स च स्वयं वेतालरूप: साट्टहासं तौ मुनी दृष्ट्वोपद्रोतुं प्रावर्त्तत । ततो राम-लक्ष्मणौ सीतां साधुसमीपे मुक्त्वा तं निहन्तुं सन्नद्धावुत्तस्थाते। ततः स देवस्तयोस्तेजः सोढुमक्षमो निजं स्थानं ययौ । तौ च केवलमापतुः । ततो देवैः केवलज्ञानमहिम्नि कृते रामो नत्वोपसर्गकारणमपृच्छत् । ततस्तयोरेको मुनिः कुलभूषणो जगौ-'पद्मिन्यां नगर्या विजयपर्वतो नृपो बभूव । तस्य चाऽमृतस्वराख्यो दूत आसीत् । तस्य दूतस्योपयोगाकुक्षिजावुदितो मुदितश्च द्वौ पुत्रावास्ताम् । तथा तस्य दूतस्य वसुभूतिद्विजो मित्रमासीत् । उपयोगा च तदनुरक्ताऽमृतस्वरं हन्तुमियेष । एकदा च नृपादेशाय गच्छन्नमृतस्वरः सह गच्छता वसुभूतिना हतः । पुरीमागत्य चाऽमृतस्वरेण कार्यवशादहं निवर्तित इति जनानवोचत् । उपयोगां चाऽमृतस्वरो मार्गे छलं प्राप्य मया हत इत्यवदत् । ततः सा तमभिनन्द्येमौ पुत्रावपि जहि, यथा सर्वथा विघ्ननाशः स्यादित्युक्तवती । सोऽपि तथेति प्रतिपन्नवान् । दैवाच्च वसुभूतिभार्या तच्छ्रुत्वेय॑योदित-मुदितयोस्तदाख्यत् । तेन च क्रुद्धोदितेन वसुभूतिर्हतः । स च मृत्वा नलपल्ल्यां म्लेच्छो जातः । नृपश्च महर्षेर्धर्मं श्रुत्वा बोधिमाप्योदित-मुदितौ चाऽपि प्रव्रज्यामग्रहीषुः ।

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129