Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 80
________________ १३८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः यक्षैर्दत्ते आसने समुपाविशत् । ततः कुत आगतोऽसीति रामेण पृष्टः सर्वं पूर्वं वृत्तं समाख्यातवान् । सुशर्मा चाऽपि सीतामुपगम्य प्राग्वृत्तं समाख्यायाऽऽशिष दत्त्वा दीनवदना समुपाविशत् । ततो रामेण धनैः कृतार्थी कृतो विसृष्टश्च निजं ग्राममुपेत्य प्रबुद्धो ब्राह्मणो दीनाय दानं यथारुचि दत्त्वा नन्दावतंससूरिपार्श्वे व्रतमग्रहीत् । अथ वर्षाकालेऽतीते जिगमिषु रामं प्रेक्ष्य गोकर्णो विनयाद् बद्धाञ्जलिरुवाच-'मयि प्रसीद, भक्तिस्खलितं क्षमस्व' । ततो रामाय स्वयंप्रभं नाम हारं लक्ष्मणाय दिव्यरत्ननिर्मिते ताडके सीतायै चूडामणिमिप्सितनादिनी वीणां च ददौ । रामश्च तं यक्षं सम्मान्य प्रतस्थे । यक्षोऽपि तां पुरीमुपसंजहार । सप्तमं पर्व - पञ्चमः सर्गः लक्ष्मणोऽपि किमियं करोतीति तमारुरोह । ततः सा प्राञ्जलिर्वनदेवतादीन् सम्बोध्य 'नेह जन्मनि लक्ष्मणो मम भर्ताऽभवत्, किन्तु यदि मद्भक्तिः सुनिश्चला, तर्हि स भवान्तरे भर्ता भूयात्' । इत्युक्त्वोत्तरवस्त्रेण गलपाशं विधाय वटशाखायां बद्ध्वा च त्वरितमेवाऽऽत्मानमलम्बयत् । ततो लक्ष्मण: 'भद्रे ! साहसं मा कार्षीः । लक्ष्मणोऽहमिति ब्रुवन् पाशमपास्य तामादायोत्तीर्य रात्रिशेषे प्रबुद्धयो राम-सीतयोर्वनमालाया अशेषं वृत्तान्तं शशंस । लज्जावगुण्ठितमुखी वनमालाऽपि सद्य एव जानकी-रामचरणौ ननाम । इतश्च महीधरभार्येन्द्राणी वनमालामपश्यन्ती सकरुणं पूच्चके । महीधरश्चाऽन्वेषणाय निर्गत इतस्ततो भ्राम्यन् तत्रस्थां तां दृष्ट्वा 'हत हतैतान् कुमारीतस्करानि ति पुरुषान् समादिशत् । ततो लक्ष्मण: क्रुद्धो धनुषि ज्यामारोप्य टङ्कारमकारयत् । तद्ध्वनिना त्रस्तेषु सैन्येषु महीधरो लक्ष्मणं दृष्ट्वोपलक्ष्य 'सौमित्रे ! धनुर्विज्यं कुरु, मत्सुताभाग्यादेव त्वमिहाऽऽगतः' इत्यवादीत् । तथा रामं प्रेक्ष्य रथादवतीर्य नत्वा 'तव भ्रात्रे सोमित्रये मया स्वयं जातानुरागेयं कल्पिता पुरा । इदानी मद्भाग्यादनयोः समागमो जज्ञे', इत्युक्त्वा महत्या प्रतिपत्त्या तान् निजसद्म निनाय । ___अथ तेषु तत्र तिष्ठत्सु कदाचन सभास्थितं महीधरं नृपमतिवीर्यनृपदूतः समुपेत्योचे-'नन्द्यावर्तपुराधीशोऽतिवीर्यस्त्वां भरतविग्रहे साहाय्यायाऽऽह्वयति । भरतस्य बले भूयांसो भूभूजाः समेयुः । तत् त्वमपि महाबलोऽतिवीर्येण समाहूयसे' । ततो लक्ष्मेणन 'नन्द्यावर्त्तनृपस्य भरतेन सह विरोधे को हेतुरि'ति पृष्टो दूत उवाच-'न: स्वामी भरताद् भक्तिमिच्छति, किन्तु स न अथ ते च रामादयो गच्छन्तोऽरण्यानि त्यक्त्वा सन्ध्यासमये विजयपुरं प्राप्य बहिरुद्याने वायव्यदिशि वटवृक्षतलेऽवात्सुः । तत्र पुरे च महीधरो नृप इन्द्राणी तद्भार्या वनमालेति तत्सुता चाऽऽसन् । वनमाला बाल्य एव लक्ष्मणगुणान् श्रुत्वा तं मुक्त्वा नाऽन्यं वरमियेष । तदा च दशरथं प्रव्रजितं राम-लक्ष्मणौ निर्गतौ च श्रुत्वा महीधरो विषण्णोऽभवत् । चन्द्रनगरे च वृषभनृपपुत्राय सुरेन्द्ररूपाय स वनमालां ददौ । वनमालाऽपि च तच्छृत्वा मरणे कृतनिश्चया रात्रावेकिका तद्द्यानं दैवात् प्राप । तत्र वनदेवतां सम्पूज्य जन्मान्तरेऽपि लक्ष्मणो मम पतिरस्त्विति सम्प्रार्थ्य तं वटं प्राप्ता सुप्तसीता-रामप्राहरिकेण लक्ष्मणेन दृष्टा । ततो लक्ष्मणो दध्यौ-'किमियं वनदेवता, एतस्य वटस्याऽधिष्ठात्री यक्षिणी वा ?' एवं चिन्तयति तस्मिन् सा तद्वटद्रुममारूढा।

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129