Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१३४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तरोस्तले विश्रान्तायां रामाज्ञया लक्ष्मणो जलमानेतुं प्रययौ । गच्छंश्च स स्वच्छसलिलं सरो दृष्टवान् । तदैव च तत्र कूबरपुरेशः कल्याणमालाभिधः क्रीडितुमागतो लक्ष्मणं दृष्ट्वा कामवशो मम भोजनातिथिर्भवेति प्रोक्तवान् । लक्ष्मणश्च कामविकारं देहलक्षणानि च दृष्ट्वा दध्यौ-'नूनमियं केनाऽपि कारणेन पुंवेषा नारी । ततः प्रकटमुवाच-'सभार्यो मम प्रभुरितोऽनतिदूरे तिष्ठति,तं विना न भुञ्जे । ततस्तेन प्रधानपुरुषैः ससीतो रामोऽभ्यर्थ्य तत्राऽऽनीय नत्वा द्वयोः कृते तत्कालं पटकुटी निरमात् । तत्र कृतस्नानभोजनं राममेकमन्त्रिणा सह निष्परिच्छदः स्त्रीवेश: समाययौ ।
तां लज्जानतमुखी रामः प्राह-'सौम्य ! पुरुषवेषेण स्त्रीत्वं किमिति निहनुषे ?' तत: कुबरपतिः प्राह-'महापुरेऽस्मिन् कूबरपुरे वालिखिल्यो नाम नृप: पृथ्वीनाम्नी तद्भार्या चाऽऽस्ताम् । अन्यदा तस्यां सगर्भायां स वालिखिल्यो म्लेच्छमहाभटैरवस्कन्दं दत्त्वा बद्ध्वा निन्ये । पश्चाच्च पृथ्वीदेवी मां तनयामसूत । सुबुद्धिना सचिवेन च पुत्रोऽजनीति घोषणा कृता । सिंहोदरश्च तच्छ्रुत्वा यावद् वालिखिल्यः समागच्छति तावदयं बालोऽपि राजाऽस्त्वि'त्यवदत् । तदारभ्य पुंवेषधारिण्यहं मातृ-मन्त्रिजनं मुक्त्वाऽन्यैरनुपलक्षिता क्रमेण वर्धमाना कल्याणमालाख्या राज्यं करोमि । तथा पितृमुक्तये म्लेच्छानां भूरि द्रव्यं यच्छामि,ते च द्रव्यं गृह्णन्ति, किन्तु मम पितरं न मुञ्चन्ति । तत् प्रसद्य तेभ्यो मम पितरं मोचय' ।
ततो राम उवाच-'तावत् पुंवेषैव राज्यं प्रशासती तिष्ठ, यावद् गत्वा म्लेच्छेभ्यस्त्वत्पितरं न मोचयामि' । ततः सा महाप्रसाद एष इत्युवाच । सुबुद्धिमन्त्री च लक्ष्मणोऽस्या
सप्तमं पर्व - पञ्चम: सर्ग: वरोऽस्त्विति प्रार्थितवान् । ततो रामः पुनरुवाच-'वयं पित्रादेशाद् देशान्तरं यास्यामः । निवृत्तेष्वस्मासु लक्ष्मण एनां परिणेष्यति' । एवं प्रतिपद्य तत्र दिनत्रयं स्थित्वा रात्रिशेषे सुप्ते जने स ससीतालक्ष्मणो ययौ । साऽपि प्रभाते तानपश्यन्ती व्याकुलमनाः स्वं पुरं गत्वा यथापूर्वं राज्यं चक्रे ।
रामोऽपि क्रमेण नर्मदामुत्तीर्य पथिकैर्वार्यमाणोऽपि विन्ध्याटवीं प्रविष्टवान् । तत्राऽऽदौ च दक्षिणदिशि कण्टकिद्रुमस्थितः काको विरसं क्षीरद्रुमस्थितश्च काको मधुरं रुराव । किन्तु तेन रामस्य हर्षो विषादो वा न जातः । अग्रे गच्छंश्च देशघाताय निर्गतमुदायुधमसङ्ख्यरथादिसमन्वितं म्लेच्छसैन्यं ददर्श । तेष यवा सेनानी: सीतां विलोक्य कामार्तो म्लेच्छानादिशत्-'एतौ पथिको विनाश्य बलादेतां स्त्रियमपहृत्य मत्कृते समानयत' । तेऽपि च म्लेच्छास्तथाज्ञप्तास्तेन सहैव शरादिभिः प्रहरन्तो राममभ्यधावन्त । ततो लक्ष्मणो रामं प्राह-'आर्य ! इहैव तिष्ठ सीतया सह । अहममून् कुक्कुरानिव विद्रावयामि' ।
एवमुक्त्वा धनुरधिज्यं विधाय तच्छब्दैम्लेंच्छानत्रासयत् । चापशब्दोऽप्यसास्तत्र बाणवृष्टेः का कथेति म्लेच्छराजो राममुपजगाम म्लेच्छराजः । ततः स शस्त्राणि त्यक्त्वा रथादवतीर्य दीनवदनो लक्ष्मणेन सक्रोधमीक्ष्यमाणो नत्वाऽवोचत्-'देव ! कौशाम्बीनगर्यां वैश्वानरद्विजस्य सावित्रीकुक्षिजो रुद्रदेवाख्यः सुतोऽस्मि । आजन्म क्रूरकर्माऽहं पापरत एकदा खात्रमुख एव राजपुरुषैर्गृहीतो नृपाज्ञया शूलां समारोपयितुं नीतो दीनमुखः श्रावकवणिजा दृष्टो दण्डं दत्त्वा मोचितः । पुनश्चौरिकां मा कार्षीरित्युपदिश्य तेन विसृष्टस्तं देशं त्यक्त्वा भ्रमन्निमां पल्लीं प्राप्त:

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129