Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 77
________________ १३२ पुरुष-गद्यात्मकसारोद्धारः मह्यं धर्मद्वारं देहि, येनाऽहं धर्मायाऽन्यत्र गच्छामीति प्रत्युदतरत् । स सिंहोदरो न तत् तथा प्रतिपन्नवान् । सवज्रकर्णं पुरं रुद्ध्वा च स बहिः स्थितोऽस्ति । तेनाऽयं देश उद्वसो जातोऽस्ति । अहमपि च सकुटुम्बोऽत्र नष्टोऽस्मि । सौधानि मम कुटी च जीर्णाऽत्र दग्धानि । क्रूरगृहिण्या च शून्येभ्य इभ्यगृहेभ्य उपकरणान्यानेतुं प्रेषितो यामि । तस्या दुर्वाक्यस्याऽप्येतद् मम शुभं फलं यद्भाग्याद् देवतुल्यस्त्वं दृष्टोऽसि' । ततो रामस्तस्य दरिद्रस्य रत्नस्वर्णमयं सूत्रमदत्त । तं विसृज्य च राम्रो दशाङ्गपुरमेत्य बहिश्चैत्ये चन्द्रप्रभं नत्वा तत्र स्थितः । रामाज्ञया च लक्ष्मणः क्षणात् तत्पुरं प्रविश्य वज्रकर्णमुपगम्य 'मम भोजनातिथ्यभाग् भवेति तेनोक्तो मम स्वामी बहिरुद्याने स्थित इति तमादौ भोजयामीत्युक्तवान् । ततो लक्ष्मणेन सह वज्रकर्णो विविधं भोज्यं रामान्तिकमुपनायितवान् । भोजनानन्तरं च रामेणाऽनुशिष्टः प्रेषितश्च लक्ष्मणोऽवन्तीशमुपगम्य राजराजो भरतस्ते वज्रकर्णेन विरोधं निषेधतीत्युक्तवान् । ततः सिंहोदरः प्राह- भरतोऽपि भक्तानामेव भृत्यानां प्रसादं कुरुते । अयं वज्रकर्णश्च मम सामन्तो दुराशयो मां न नमतीति कथं प्रसीदामीति वद' । ततो लक्ष्मणेन 'नाऽविनयात् किन्तु धर्मानुरोधिप्रतिज्ञया न नमति । तदयं न क्रोधपात्रं, त्वया भरतशासनं मान्यम् । यतः स आसमुद्रमेदिन्या: शासिते' त्युक्तः क्रुद्धो वज्रकर्णपक्षपातिनं भरतं न जानामीत्यवोचत् । ततोऽतिक्रुद्धः सौमित्रिः प्राह- 'रे भरतं न जानासि ? सपद्येव तं ज्ञापयामि, युधे सन्नद्धो भव, सद्य एव त्वां नाशयामि' । ततः सिंहोदरः ससैन्यो लक्ष्मणं हन्तुमुद्यतस्तेन सप्तमं पर्व पञ्चमः सर्गः १३३ गजालानमुत्पाट्य सैन्यानि विनाश्योत्पत्येभस्थितो निजवाससा कण्ठेऽबध्नात् । ततो लक्ष्मणस्तं दशाङ्गपुरवासिनां सविस्मयं पश्यतामेव रामसमीपं नीतः । ततः सिंहोदरो रामं दृष्ट्वा नत्वाऽभाषत - 'मया त्वमिहाऽऽगत इति न ज्ञातः । ममाऽज्ञानदोषं क्षमस्व, कर्त्तव्यमादिश, भृत्ये शिक्षार्थमेव गुरोः शिष्ये इव स्वामिनः कोपः । ततो वज्रकर्णेन सन्धि कुर्वित्यादिष्टो रामेण सिंहोदरस्तां वाचं तथेति प्रतिपन्नवान् । वज्रकर्णोऽपि च तत्राऽऽगतो विनयेन पुरोभूय बद्धाञ्जलिरुवाच-‘स्वामिनौ वृषभस्वामिवंशजौ बलदेव - वासुदेव मया दिष्ट्या दृष्टौ चिराज्ज्ञातौ । एनं सिंहोदरं मत्प्रभुं मुञ्च । तथा तथैनं शाधि यथाऽयं ममाऽन्यप्रणामाभिग्रहं सहते' । ततो रामभ्रूसंज्ञया सिंहोदरस्तत् प्रतिपद्य लक्ष्मणेन मुक्तो वज्रकर्णं परिषष्वजे । तथा रामसाक्षिकं राज्यार्धं परमया मुदा वज्रकर्णाय दत्तवान् । वज्रकर्णश्च सिंहोदरात् श्रीधराकुण्डले याचित्वा विद्युदङ्गाय ददौ । तथा वज्रकर्णोऽष्टौ स्वकन्याः ससामन्तः सिंहोदरश्च कन्याशतत्रयं लक्ष्मणाय ददौ । ततो लक्ष्मणः प्रोवाच- 'एता: कन्या वः पार्श्व एव सम्प्रति तिष्ठन्तु । यतः पित्रा मम भ्राता भरतो राज्ये निवेशितोऽस्ति । समये प्राप्तराज्यो वः सुताः परिणेष्यामि । इदानीं तु वयं प्रस्थाय मलयाचले स्थास्यामः । तत 'ओम्' इत्युक्त्वा स्थितौ वज्रकर्ण-सिंहोदरौ रामेण विसृष्टौ निजनिजं पुरं गच्छतुः । *** रामश्च तत्र रात्रिमतिवाह्य प्रभाते ससीता-लक्ष्मणो गच्छन् क्रमेण कमपि निर्जलं देशं सम्प्राप । तत्र तृष्णाकुलायां सीतायां

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129