Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
८६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः एकदा च व्याधेन मृगाय क्षिप्तो बाणोऽन्तरैव विन्ध्यनितम्बेऽसवलत् । बाणस्वलनहेतुं ज्ञातुं च तत्र गतः पाणिना स्पृशन् स आकाशस्फटिकशिलामज्ञासीत् । ततः स दध्यौ-'मन्ये, अस्यां भूमिच्छायेवाऽन्यतश्चरन् हरिणः सङ्क्रान्तो मया ददृशे । पाणिस्पर्श विना नेयं कथमप्युपलक्ष्यते । तदियं शिलाऽवश्यं वसोपस्य योग्या' । ततः स व्याधो रहसि तां शिलां राज्ञे व्यज्ञपयत् । राजाऽपि च हृष्टस्तज्जग्राह । तस्मै व्याधाय महद्धनं च ददौ । तथा स गुप्तरीत्या तया शिलया स्वासनवेदिकां घटयामास । तथा तच्छिल्पिनोऽघातयत् । तस्य सिंहासनं च तस्यां वेदौ निवेशितं जनः सत्यप्रभावादाकाशस्थितमबुधत् । तथाऽस्य नृपस्य सत्येन तुष्टा देवताः सान्निध्यं कुर्वन्तीति तस्य प्रसिद्धिदिगन्तरं व्याप्ता । तया प्रसिद्ध्या भीताश्च राजानस्तस्य वशं ययुः ।
अन्यदा चाऽहं तत्र गत: पर्वतं शिष्याणामृग्वेदं व्याख्यानयन्तमपश्यम् । अजैर्यष्टव्यमित्यत्र मेषैरित्युपदिशन्तं तमहमवोचम्'भ्रातः ! भ्रान्त्या किमिदमुच्यते ? त्रिवार्षिकाणि धान्यानि न जायन्ते इति तान्यजपदेन व्याख्यातानीति गुरुणोपदिष्टं केन हेतुना व्यस्मार्षीः' । ततः पर्वतकोऽवादीत्-'तातेन तथा नोदितं, किन्त्वजा मेषा इत्येवोदितं, निघण्टुषु च तथैवोक्तम्' । ततोऽहमवोचम्- 'शब्दानां मुख्या गौणी चाऽर्थकल्पना, तत्रेह गुरुर्गौणीमचकथत् । ततो गुरुर्धर्मोपदेष्टा त्वमन्यथा कुर्वन् पापं नाऽर्जय' । तत: पर्वत: साक्षेपमुवाच-'गुरुर्मेषानजान् जगाद, त्वं गुरूपदिष्टशब्दार्थोल्लङ्घनात् साधु धर्ममर्जयसि? नृणां दण्डभयाद् मिथ्याभिमानवचो न स्युरिति स्वपक्षस्थापने नो जिह्वाच्छेदपणोऽस्तु । अत्र चोभयोः सहाध्यायी वसुर्नृपः प्रमाणम्' । अहमपि च तत् प्रत्यश्रौषम्।
सप्तमं पर्व - द्वितीयः सर्गः
८७ अथ जननी रहसि पर्वतकमूचे-'अहं गृहकर्मरताऽपि त्वत्पितुरजास्त्रिवार्षिकं धान्यमित्य श्रौषम् । तत्पणे जिह्वाच्छेदं यदकार्षीस्तदसाम्प्रतम् । अविवेकः परमापदां पदं भवति' । ततः पर्वतोऽवदत्-'मया तावदिदं कृतं, कृतस्य च पुनःकरणं भवितुं नाऽर्हति' । तत: सा पर्वतकापायशङ्कयोद्विग्ना वसुमुपेयाय 'वसुना च-'अम्ब ! यत् त्वमीक्षिताऽसि तत् क्षीरकदम्बोऽद्य दृष्टः । कि करोमि ? किं वा प्रयच्छामी'त्यभिदधे ।
साऽवोचत-'महीपते ! पुत्रभिक्षां मह्यं दीयता, पुत्रेण विनाऽन्यैर्धन-धान्यैः किम्' । ततो वसुरुवाच-'मम पर्वतः पाल्य: पूज्यश्च, यतो गुरुवद् गुरुपुत्रे वत्तितव्यमिति श्रुतिरिति । कस्मै यमोऽद्य कुपितः, को मे भ्रातरं जिघांसुः, त्वं किमातुराऽसि, ब्रूहि' । ततः साऽजव्याख्यानवृत्तान्तं स्वपुत्रस्य तं पणं च तत् प्रामाण्यं चाऽऽख्यायाऽर्थयते स्म । त्वं भ्रातू रक्षणं कुर्वाणोऽजान् मेषान् कथय, महान्तो हि प्राणैरप्युपकुर्वन्ति किं पुनर्गिरा ?'
ततो वसुरवोचत्-'मातर्मिथ्या कथं वच्मि ? सत्यभाषिणो हि प्राणसंशयेऽप्यसत्यं न भाषन्ते । पापभीरुणा चाऽन्यदप्यसत्यं न वाच्यम् । गुरुवाचोऽन्यथाकरणे कूटसाक्ष्ये च कथैव का ?' ततस्तया सरोष गुरुपुत्रं रक्ष सत्यव्रताग्रहं वेत्युक्त: स तद्वचोऽमस्त । ततो मुदिता सा पर्वतमाता गृहं ययौ । पर्वतोऽपि वसुराजस्य पर्षद्याजगाम । ततो वसुराजे सभासदेषु च यथास्थानमुपविष्टेषु सत्स्वहं पर्वतश्च निजं निजं पक्षमवोचाव । ततो विप्रवृद्धैरूचे-'राजन् ! त्वयि विवादस्तिष्ठते, त्वमनयोः प्रमाणम् । सत्यत एव घटप्रभृतिदिव्यानि वर्तन्ते । सत्यादेव पर्जन्यो वर्षति सत्यादेव च देवता: सिद्धयन्ति, त्वयैव चाऽयं लोकः सत्ये स्थाप्यते । अतः सत्यव्रतोचितं ब्रूहीति त्वां ब्रूमहे' । तद्वचः श्रुत्वा

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129