Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 74
________________ १२६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः रामानुगमनं याचितवती । 'त्वमत्यन्तं सुकुमारशरीरा न वनवासकष्टं सोढुमर्हसी'ति तया सस्नेहं क्रोडमारोप्य बोधिताऽपि साग्रह तामनुज्ञाप्य नत्वा राममनु निर्ययौ सा सीता । अहो अस्याः पतिभक्तिरित्येवं पौरस्त्रीभिः सा वनं प्रति गच्छन्ती साश्रु ददृशे । लक्ष्मणोऽपि रामं वनाय निर्गतं श्रुत्वा क्रुद्धो हृदि दध्यौ-'तात: प्रकृत्या सरलः, स्त्रियश्च कुटिला: । कथमन्यथा चिराद् वरं धृत्वाऽद्य याचते ? भवतु । भरताय राज्यं दत्तं नृपेणेति स्वस्य पितुश्च ऋणमपगतम् । तदद्य भरताद् राज्यं हृत्वा रामे न्यस्यामि । अथवाऽयं महासत्त्वस्तृणवद् राज्यं त्यक्तवानिति पुनर्न ग्रहीष्यति । तातस्य दुःखं च भविष्यति तस्मात् पदातिवदहमपि राममनुगच्छामि' । एवं विचार्य नृपमापृच्छय नत्वा सुमित्रामुपगम्य नत्वोवाच- 'रामो वनं गमिष्यति, तमहमप्यनुगमिष्यामि' । ततो धैर्यमालम्ब्य सुमित्रोवाच-'रामो मां नमस्कृत्य दूरं गतः, मा विलम्बस्व' । ततो लक्ष्मण: सहर्ष मातरं स्तुत्वा नत्वाऽपराजितां नन्तुमगच्छत् । तां नत्वोवाच च-'राम एकाक्येव चिरमगात् । तमनुजिगमिषुस्त्वामाप्रष्टुमागतोऽस्मि' । ततः साश्रु सोवाच-'वत्स ! त्वमपि मां त्यक्त्वा वनाय प्रस्थितोऽसि. मन्दभाग्याऽहं हताऽस्मि, ममाऽऽश्वासनाय त्वमेकोऽत्र तिष्ठ' ।। ततो लक्ष्मणः प्रत्युवाच-'त्वं रामस्य माताऽसि, तदधैर्येणाऽलम् । मम भ्राता दूरे याति, तं शीघ्रमनुयास्यामि, विघ्नं मा कृथाः' । एवमुक्त्वा नत्वा च स सीता-रामावनुदधाव । ततस्त्रयोऽपि ते प्रसन्नवदना वनाय पुर्या निर्ययुः । नागराश्च कष्टां दशां प्रापुः । कैकेयीं देवं चाऽऽक्रोशन्तः प्रेम्णा ताननुदधावुः । सप्तमं पर्व - चतुर्थः सर्गः .... १२७ दशरथोऽपि साश्रु सान्तःपुरपरिच्छदः स्नेहगुणैराकृष्टो द्रुतमनुजगाम। ततो रामोऽवस्थाय पितरं जननीरपि च कथञ्चित् सम्बोध्य विसृज्य च सीता-लक्ष्मणाभ्यां सह त्वरितं विनिर्ययौ । स ग्रामे पुरे च मार्गे ग्रामवृद्धादिभिरवस्थातुं प्रार्थ्यमानोऽपि नाऽवस्थित । इतश्च भरतो राज्यं नाऽऽदत्त, प्रत्युत स्वं कैकेयीं चाऽऽचुक्रोश । नृपश्च परिव्रज्योत्सुक: सामन्तादीन् राममानेतुं प्रेषयामास । ते च रामं प्राप्य राजाज्ञां निवेद्य निवृत्तये प्रार्थयामासुः। स तु प्रार्थ्यमानोऽपि न निववृते । ततस्ते तेन विसृज्यमाना अपि तन्निवर्त्तने कृताशा: पुन: पुन: सहैव चेलुः । ततः श्वापदादिभिर्गहनां पारियात्राटवीं प्राप्य तत्र गभीरां नदी ददृशुः । रामश्च तत्र स्थित्वा सामन्तादीनवोचत्-'इत: स्थानाद् यूयं निवर्तध्वम्, अस्माकं कुशलवृत्तान्तं च तातस्य निवेदयत । मद्वाक्याद् भरतं भजध्वम्'। ततस्ते स्वं निन्दन्तो रुदन्तः साश्रु न्यवर्त्तन्त । रामोऽपि ससीता-लक्ष्मणः तैस्तटस्थैः साश्रु दृश्यमानस्तां दुस्तरां नदीमुत्ततार । ततो रामेदृग्गोचरातीते ते सामन्ताद्याः कथञ्चनायोध्यामागत्य राज्ञे सर्वं वृत्तान्तं शशंसुः । ततो नृपो भरतमुवाच-'रामो नाऽऽयातः, तद्राज्यं गृहाण । मम दीक्षाविघ्नाय मा भूः' । भरतोऽपि-'राज्यं नाऽहं ग्रहीष्यामि, स्वयमेव गत्वा कथञ्चनाऽपि राममानेष्ये इत्युवाच । तदैव च कैकेयी समागत्य नृपमब्रवीत्-'भरताय त्वया राज्यं दत्तं, परमेष न गृह्णाति । तथाऽन्यासां मातॄणां मम च महद् दुःखमस्ति । पापया मया नृपे सत्यपि राज्यमराजकं कृतम् । अपराजितादीनां रुदितं श्रुत्वा मम

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129