Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
एकदा च स रत्नमाली विद्याधरेन्द्रं वज्रनयनं जेतुं सिंहपुरं गत्वा तत्पुरं ज्वालयितुं प्रारेभे । तदैव पूर्वजन्मपुरोधस उपमन्योर्जीवो देव: सहस्त्रारादुपेत्य तमुवाच- 'भो ! महानुभाव ! पापं मा कृथाः, त्वं पूर्वजन्मनि भूरिनन्दनो नाम नृपोऽभूः । तदा त्वं मांसनिवृत्ति प्रतिज्ञातवान् । उपमन्युना पुरोहितेनोक्तश्च प्रतिज्ञामत्याक्षीः । स पुरोहितश्च स्कन्दाभिधेन केनाऽपि पुरुषेण निपातितो गजो जातः । स च भूरिनन्दननृपेण गृहीतो रणे हतो भूरिनन्दननृपस्य गन्धाराकुक्षिजोऽरिसूदनः पुत्रोऽभूत् । जातिस्मरणमाप्य च प्रव्रज्य विपद्य सोऽहं सहस्त्रारे देवो जातोऽस्मि । भूरिनन्दनश्च विपद्य वनेऽजगरो भूत्वा तत्र दावानले दग्धो द्वितीयां नरकावनिं प्राप्त स्नेहात् प्रतिबोधितस्तत उद्धृत्य त्वं रत्नमाली जात: । तत्तदानीमिव मांसप्रत्याख्यानभङ्गं मा कार्षीः । पुरदाहाद् निवर्त्तस्व' ।
१२४
रत्नमाली च तद्वचः समाकर्ण्य युद्धाद् निवृत्तो राज्ये सूर्यंजयपुत्रं कुलनन्दनं निवेश्य सूर्यंजयेन सहैव तिलकसुन्दराचार्यसमीपे व्रतमादाय विपद्य महाशुक्रे देवौ जातौ । ततश्च्युत्वा सूर्यंजयजीवस्त्वं दशरथोऽभूः । रत्नमाली च जनक, उपमन्युस्तु कनकोऽभूत् । ते नन्दिवर्धनजन्मनि पिता नन्दिघोषोऽहं ग्रैवेयकाच्च्युत्वा सत्यभूतिरस्मि ।
तच्छ्रुत्वा जातवैराग्योऽनरण्यजः प्रव्रज्येच्छू रामं राज्येऽभिषेक्तुकामो गृहं गत्वा राशी: सुतान् मन्त्रिणश्च समाहूयाऽऽपप्रच्छ । ततो भरतो नत्वाऽवोचत् - ' अहमपि त्वया समं व्रतं ग्रहीष्यामि' । तच्छ्रुत्वा पति-पुत्रयोरुभयोर्विरहं सम्भाव्य कैकेय्युवाच- 'स्मरसि स्वामिन् ! यत् तत्र स्वयंवरोत्सवे मत्सारथ्यकर्मणा तुष्टेन त्वया स्वयं वरो दत्तः । तमधुना मह्यं प्रयच्छ, यतस्त्वं सत्यप्रतिज्ञोऽसि। ततो
१२५
सप्तमं पर्व चतुर्थः सर्गः दशरथो जगाद - 'व्रतनिषेधं विना यद् ममाऽधीनमन्यत् तद् याचस्व' । तच्छ्रुत्वा कैकेयी जगौ 'यदि स्वयं प्रव्रजसि, तर्हि राज्यं भरताय यच्छ' । ततो दशरथ:- 'अद्यैव मद्राज्यं गृह्यतामिति तामभिधाय लक्ष्मणसहितं राममाहूय 'यो मया वरो दत्तः पुरा प्रतिज्ञातः सोऽधुना कैकेय्या भरतराज्यरूपेण याचितः ' ।
तच्छ्रुत्वा हृष्टेन रामेण 'भरताय राज्यं दीयतां, मात्रा साधु याचितम्' । एवं रामवचनं श्रुत्वा प्रीतो नृपो यावद् मन्त्रिणोऽदिक्षत् तावद् भरतो जगाद-'तात ! मया प्राक् सहैव व्रतादानं याचितं तद् नाऽन्यथाकर्तुमर्हसि । ततो राजोवाच- 'मम प्रतिज्ञां मुधा मा कुरु, मम मातुश्चाऽऽज्ञामन्यथा कर्तुं नाऽर्हसि । रामोऽपि भरतं 'पितुः प्रतिज्ञां पालयितुं त्वं राज्यं गृहाणे' त्युवाच । ततो भरतः सगद्गदं पादयोः पतित्वा राममुवाच- 'तव पितुश्च मे राज्यदानमुचितं, किन्तु मम तद्ग्रहणं नोचितम्' ।
ततो रामो नृपमुवाच - 'मयि सत्ययं राज्यं न ग्रहीष्यति, तस्मादहं वनवासाय यामि' । एवमनुज्ञाप्य राजानं नत्वा भरतस्य रुदतः स धनुर्धरो निर्ययौ । तं च निर्गच्छन्तं दृष्ट्वा सुतवत्सलो दशरथः पुनः पुनर्मूच्छितः । रामश्चाऽपराजितां देवीं नत्वोवाच'मातः ! यथाऽहं तथा भरतोऽपि ते पुत्रः । पिता स्वां प्रतिज्ञां पालयितुं भरताय राज्यमदात् । तन्मयि सत्ययं न गृह्णाति ततो वनं यामि । मद्वियोगेन कातरा मा भू:' । अपराजिता च तद्वाचमाकर्ण्य मूच्छिता भुवि पपात । लब्धसंज्ञा च मुहुर्मुहुः करुणं विललाप ।
रामो मधुरैर्वाक्यैस्तां बोधयित्वा नत्वाऽन्याश्च जननी: प्रणम्य निर्ययौ । सीताऽपि दूराद् दशरथं नत्वाऽपराजितामुपेत्य

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129