Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१२०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पृष्टश्च हिया सोऽधोमुखो जातः । ततो वयस्यैः कारणं ज्ञात्वा स नृपो नारदं भक्त्या स्वगृहमानीतवान् । ततः सर्वं सीतावृत्तान्तं ज्ञात्वा 'तवैवैषा पत्नी भविष्यति, मा खिद्यस्वे'ति पुत्रमाश्वास्य नारदं व्यसृजत् । ततो जनकमपहत्याऽऽनयेति चपलगतिं नाम विद्याधरमादिदेश। सोऽपि रात्रावनुपलक्षितो जनकं हृत्वा राज्ञः समर्पयामास । ततश्चन्द्रगतिबन्धुवत् स्नेहाद् जनकं समाश्लिष्य समाश्वास्य च सस्नेहमवदत्-'तव पुत्री सीता सर्वगुणसम्पन्नाऽस्ति, भामण्डलो मम पुत्रश्चाऽपि तथाऽस्ति, तद्वयोर्वधू-वरत्वेन संयोगोऽस्तु, आवयोश्चाऽपि मिथो मैत्री सम्पद्यताम्' ।
ततो जनक उवाच-'मया स्वसुता रामाय दत्ता कथमन्यस्य दीयताम् ? कन्या हि सकृत् प्रदीयते' । ततश्चन्द्रगतिः प्राह-'मम स्नेहवृद्ध्यर्थमेवाऽऽनीय याचितोऽसि, तामहं हर्तुमपि समर्थः । यद्यपि त्वया सीता रामाय दत्ता, तथाऽपि रामो न: पराजित्यैव तां परिणेष्यति मद्गृहे देवताज्ञया यक्षसहस्राधिष्ठिते दुःसहतेजसी वज्रावर्ता-ऽर्णवावर्ते द्वे धनुषी कुलदेवतावत् पूज्ये कृते बलभद्र-वासुदेवयोर्भविष्यतः, ते गृहाण । यदि दाशरथिराभ्यामेकमप्यधिज्यं करोति, तदा वयं जिताः, रामः सीतामुद्वहतु' । जनकमेवमुक्त्वा बलात् प्रतिज्ञाप्य सपुत्रस्ते धनुषी जनकं च मिथिलामानैषीत् । तत्र च चन्द्रगतिर्जनकं राजसद्मनि मुमोच, स्वयं च पुर्या बहिर्भुवि सपरिवारोऽवात्सीत् ।
अथ जनको निशि तद्वृत्तं सर्वं देवीं विदेहां शशंस । तच्छ्रुत्वा विदेहां शोकसन्तप्तां 'रामः ख्यातपराक्रम' इति समाश्वास्य प्रभाते मञ्चोपशोभिते मण्डपे ते चापे अर्चित्वा स्थापयामास जनकः।
सप्तमं पर्व - चतुर्थः सर्गः स्वयंवरायाऽऽकारिता विद्याधरेन्द्राश्च मञ्चेषूपाविशन् । सीता च सखीभिस्तत्रैत्य धनुःपूजां विधाय रामं मनसि कृत्वा तत्राऽतिष्ठत् । भामण्डलकुमारस्तु तां यथा नारदोदितं दृष्ट्वा कामविह्वलो जातः । समये च जनकद्वारपालः सर्वान् विद्याधरेन्द्रान् सम्बोध्योवाच-'भवतो जनको निवेदयति, यः कश्चिदनयोश्चापयोरेकतरमपि गुणमारोपयति, सोऽद्यैव मे सुतामुद्वहतु' ।
ततो राजानः प्रत्येकं चापसमीपं तदारोपणेच्छया समाजग्मुः । किन्तु पन्नगै रक्षिते ते उग्रतेजसी चापे स्प्रष्टुमपि न शेकुः । ततो रामस्तेषु लज्जयाऽधोमुखं निवृत्तेषु तत्रोपेत्य वज्रावर्त तच्चाप पाणिनाऽऽदायाऽधिज्यं विधाय कर्णान्तमाकृष्य स्फालयामास । सीता च तत्क्षणं रामे स्वयंवरमालां चिक्षेप । रामश्च धनुषो गुणमुत्तारयामास । लक्ष्मणोऽपि रामाज्ञयाऽर्णवावर्त्त द्वितीयं कार्मुकं सज्यं विधायाऽऽस्फाल्य गुणमुत्तार्य यथास्थानं मुमोच । ततो विद्याधरा अतिविस्मिताः सरकन्या प्रतिमा निजा अष्टादशकन्या लक्ष्मणाय ददुः । भामण्डलसहिताश्चान्द्रगत्याद्या विद्याधरेन्द्राश्च म्लानमुखा निजनिजं नगरं ययुः ।
अथ दशरथो जनकसन्देशमाप्य समागतः । राम-सीतयोविवाहश्च समहोत्सव सम्पन्नः । तदा जनकभ्राता कनकः सुप्रभाकुक्षिजां निजां भद्रां नाम कन्यकां भरताय ददौ । ततो दशरथः सुतैर्वधूभिश्च समन्वितोऽयोध्यां ययौ ।
अथाऽन्यदा दशरथो महत्या समृद्ध्या चैत्यमहोत्सवं शान्तिस्नात्रं च चकार । तथा स्नानजलं कञ्चुकिना प्रथममहिष्यै पश्चाच्च दासीभिरपरपत्नीभ्यः प्रेषयामास । किन्तु तरुणत्वाद् दास्यः

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129