Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
११६
mona
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अन्यदा च नृपस्तयोः कुमारयोविक्रमेण विश्वस्तः स्वामयोध्यापुरीं ययौ । तत्र च सूर्य इव प्रतापेन भासमानः स महीमन्वशात् । तत्र च कैकेयी शुभस्वप्नसूचितं भरतं नाम पुत्रमसूत । सुप्रभा च शत्रुघ्नं नाम कुलनन्दनं नन्दनमजीजनत् । स्नेहाच्च भरत-शत्रुघ्नौ बलदेव-वासुदेवाविवाऽवियुक्तावेवाऽनिशं तस्थतुः ।
___ इतश्चाऽस्मिन्नेव जम्बूद्वीपे भरते क्षेत्रे दारुग्रामे वसुभूतिर्नाम द्विजो बभूव । तस्य चाऽनुकोशाकुक्षिजोऽतिभूति म पुत्रो बभूव। अतिभूतेश्च सरसाख्या पत्न्यासीत् । सा च जातरागेण कयाननाम्ना विप्रेण च्छलाज्जते । अतिभूतिश्च तामन्वेष्टुं भूतवद् भृशं महीं बभ्राम। अनुकोशा वसुभूतिश्चाऽपि सुतस्नुषार्थे महीं चेरतुः । तौ च सुतस्नुषे अपश्यन्तौ पर्यटन्तावेकं साधं दृष्ट्वा भक्तितो वन्दित्वा धर्म श्रुत्वा तन्मुनिपार्श्वे व्रतं जगृहतुः । अनुकोशा च गुरोराज्ञया कमलश्रियं नामाऽऽर्यिकां ययौ । काले तौ विपद्य सौधर्मे देवत्वमापतुः । वसुभूतिश्च ततश्च्युत्वा वैताढ्ये चन्द्रगतिनामा रथनूपुरपुरेशोऽभूत् । अनुकोशा चाऽपि ततश्च्युत्वा तस्य पुष्पवती नाम भार्या जाता । सरसा च कामप्यायिकां दृष्ट्वा प्रव्रज्य मृत्वैशाने देवी जाता । सरसाविरहार्तोऽतिभूतिश्च विपद्य संसार चिरं भ्रान्त्वा हंसपोतोऽभवत् ।
एकदा च श्येनेन भक्ष्यमाण: स साधुसमीपं पपात । कण्ठगतप्राणस्य तस्य स साधुनमस्कारमन्त्रं ददौ । अनन्तरं च मृतो नमस्कारप्रभावेण स दशवर्षसहस्रायुः किन्नरेषु देवोऽभवत्। ततश्च्युत्वा च विदग्धे पुरे प्रकाशसिंहभूपतेः प्रवरावल्लयां पत्न्यां कुण्डलमण्डितः पुत्रो बभूव । कयानोऽपि भोगासक्तश्चिरं भवं भ्रान्त्वा चक्रपुरे चक्रध्वजनृपपुरोहितस्य धूमकेशस्य स्वाहाकुक्षिज:
सप्तमं पर्व - चतुर्थः सर्गः पिङ्गलो नाम सुतो बभूव । स च चक्रध्वजस्य पुत्र्याऽतिसुन्दर्या सहैकगुरोः समीपे पपाठ । काले गच्छति च परस्परमनुरागे जाते पिङ्गलः छलात् तां हत्वा विदग्धनगरं ययौ । तत्र चाऽज्ञान: स तृण-काष्ठादि विक्रयात् कथञ्चित्कालं यापयामास ।
कुण्डलमण्डितश्च तत्राऽतिसुन्दरीं दृष्ट्वाऽन्योन्यमनुरागे जाते तामपहृत्य पितुर्भिया दुर्गदेशे पल्लीं कृत्वाऽवास्थित । पिङ्गलश्च तया विरहित उन्मत्त इव महीमटन् कदाचिदार्यगुप्तमुनि दृष्ट्वा धर्म श्रुत्वा तत्पाद्ये व्रतं गृहीतवान् । किन्तु सोऽतिसुन्दर्याः प्रेम न मुमोच । पल्लीस्थितः कुण्डलमण्डितश्च च्छलात् सर्वदा दशरथप्रजां लुण्टयामास । ततो दशरथाज्ञया बालचन्द्राख्यः सामन्त: सौप्तिकं प्रदाय बद्ध्वा तं दशरथस्याऽन्तिकमनैषीत् । ततो दशरथः काले गच्छति शान्तकोप: कुण्डलमण्डितममुचत् । ततः कुण्डलमण्डितः पितृराज्यार्थं महीमटन् मुनिचन्द्रमुनेर्धर्मं श्रुत्वा श्रावकोऽभवत । राज्यकाम एव च विपद्य स मिथिलानगरे जनकभार्याया विदेहाया: उदरे कुण्डलमण्डितजीवयुग्मरूपेण सुता जाता । पूर्णे काले च विदेहा युगपत् पुत्र-कन्यके असूत ।
पिङ्गलश्च विपद्य सौधर्मे देवो जातोऽवधिना प्राग्जन्म पश्यन् शत्रु कुण्डलमण्डितं जनकपुत्रं दृष्ट्वा पूर्ववैराज्जातक्रोधस्तं जातमात्रं हत्वा दध्यौ-'किमेनं शिलातले आस्फाल्य निहन्मि, अथवा पूर्वभवदुष्कर्मण: फलं भूयस्सु भवेष्वन्वभवं, तदेनं हत्वा पुनरनन्तभवः कथं स्यामि'ति विचार्य भूषणादिभिभूषयित्वा तं बालं पतत्पतङ्गप्रतिम वैताढ्यदक्षिणश्रेण्यां रथनपरपत्तने नन्दनोद्याने तूलिकायामिव शनैरमुचत् । चन्द्रगतिश्च तं दृष्ट्वा किमेतदिति जातसम्भ्रमस्तन्निपातानुसारेण नन्दनोपवनं गतस्तं दृष्ट्वाऽपुत्रत्वात्

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129