Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 67
________________ ११२ त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः समीपमागता । 'नाथ त्वां विना परः पुमान् यदि मया नाऽवलोकितस्तदा तव ज्वरोऽपयात्विति सत्यश्रावणं कृत्वा जलेन पतिमभिषिषेच । नृपश्च तदैव रोगमुक्तस्तां पूर्ववदेव बहु मेने । सुराश्च पुष्पवृष्टिं चक्रुः । कियत्यपि काले गते च नघुषस्य सिंहिकाकुक्षिजः सोदासो नाम पुत्रो बभूव । नघुषश्च सोदासं राज्ये न्यस्य परिव्रज्यामुपाददे । सोदासनृपे शासति चाऽष्टाह्निकोत्सवे मन्त्रिणोऽमारिं घोषयामासुः । तथा सोदासं त्वत्पूर्वैर्मांसं नाऽखादीति त्वमपि तन्मा खादीरित्युपादिशन् । सोदासस्तु मांसप्रियः 'त्वयाऽवश्यं गुप्तं मांसं देयमिति पाचकानादिशत् । अमारिघोषणायाश्च सूदः क्वाऽपि मांसं न प्राप । ततो राजाज्ञाभङ्गभिया मांसाप्राप्तेश्च मृतबालमांसमेव पक्त्वा सोदासाय ददौ । स च स्वादु तन्मांसं वर्णयित्वा कस्येदमिति सूदानपृच्छत् । नरमांसमिति तेनोक्तश्चाऽद्येवैतद् मह्यं देयमिति तान् समादिशत् । ततस्ते प्रत्यहं पुरे बालानहार्षुः । मन्त्रिणस्तथोग्रकर्माणं नृपं ज्ञात्वा धृत्वा वने तत्यजुः । तत्पुत्रं सिंहरथं राज्येऽभिषिषिचुश्च । सोदासस्तु मांसं खादन् पृथिव्यां बभ्राम । एकदा च दक्षिणापथे कमपि मुनिं दृष्ट्वा धर्ममपृच्छत् । मुनिश्च तस्मा आर्हतमहिंसाप्रधानं धर्मं समुपदिदेश । सोदासस्तं धर्मं श्रुत्वा चकितः प्रमुदितः परमश्रावकोऽभवत् । इतश्च महापुरे नगरेऽपुत्रे राज्ञि मृते पञ्चभिर्दिव्यैः सोदासो नृपो बभूव । ततः स ममाऽऽज्ञां कुर्विति सिंहरथं प्रति दूतं प्रेषयत् । तेन तिरस्कृतश्च दूतः समागत्य सोदासाय यथातथं वृत्तमाख्यत् । सोदासश्च युद्धवा सिंहरथं विजित्य राज्यद्वयं तस्मै दत्त्वा स्वयं प्राव्राजीत् । सिंहरथस्य च ब्रह्मरथस्तस्य चतुर्मुखस्ततो हेमरथ सप्तमं पर्व चतुर्थः सर्गः ११३ स्तस्य शतरथः पुत्रो बभूव । ततः क्रमादुदयपृथुर्वारिरथ इन्दुरथ आदित्यरथो मान्धाता वीरसेनः प्रतिमन्युः प्रतिबन्धू रविमन्युर्वसन्ततिलकः कुबेरदत्तः कुन्थुः शरभो द्विरदः सिंहदशनो हिरण्यकशिपुः पुञ्जस्थलः ककुत्स्थो रघुश्चेत्येतेषु केषुचिद् मुक्तेषु केषुचित् स्वर्गेषु च साकेतपुरेऽनरण्यो नाम नृपो बभूव । तस्य पृथ्वीकुक्षिजौ द्वावनन्तरथ दशरथाख्यौ पुत्रावभूताम् । इतश्चाऽनरण्यस्य मित्रं सहस्त्रकिरणो नृपो युद्धे रावणेन पराजितो वैराग्यमापन्नो व्रतमाददे । तत्सौहार्दादनरण्योऽपि मासजाते लघुपुत्रे राज्यं न्यस्याऽनन्तरथेन सह व्रतं गृहीतवान् । अनरण्ये मोक्षमाप्तेऽनन्तरथस्तपस्तप्यमानो महीं विजहार । दशरथश्च बालोऽपि क्रमाद् वर्धमान आर्हद्धर्मपरायणो दभ्रस्थलपुरेशितुः सुकोशलस्याऽमृतप्रभाकुक्षिजां रूप लावण्यसम्पन्नामपराजितां नाम कन्यामुदुवाह। तथा कमलसङ्कुले पुरे सुबन्धुतिलकनृपस्य मित्रादेवीकुक्षिजां सुमित्रेत्यपराभिधां कैकेयीं नाम कन्यामन्यांच सुप्रभाख्यां राजपुत्रीं परिणिनाय । ताभिर्वैषयिकं सुखं भुञ्जानश्च स धर्माऽर्थानसाधयत् । इतश्च भरतार्धेश्वरो रावणः सभामास्थाय नैमित्तिकमपृच्छत्'मम स्वतः परतो वा मृत्युर्भावी ?' ततो नैमित्तिको ऽवोचत्'भाविन्या जानकीनामनार्या हेतोर्दशरथपुत्रात् ते मृत्युर्भविष्यती'ति । तच्छ्रुत्वा विभीषण उवाच- 'नैमित्तिकस्याऽस्य वचो वितथी - करिष्यामि, अनर्थमूलं जनकं दशरथं च तत्कन्यातनयजनकं सद्य एव हनिष्यामि, तदेवं च्छित्रे मूले नैमित्तिकवचोऽवश्यमेव मिथ्या

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129