Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 68
________________ ११४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्यात्' । ततो रावणेन तथाऽस्त्वित्युक्तः स स्वगृहं जगाम । तत्सभास्थो नारदश्च तच्छ्रुत्वा दशरथस्याऽन्तिकं जगाम । तत्र च तेनाऽभ्युत्थानादिना सत्कृत: कुत आयासीति पृष्टश्च सर्वं यथातथं निवेदयामास । राजा दशरथो जनकश्च मन्त्रिणे सर्वं वृतं समाख्याय राज्यं समर्प्य च कालयापनेच्छया निर्ययौ । मन्त्रिणश्च शत्रुमोहायाऽन्धकारे दशरथस्य जनकस्य च मृन्मयी प्रतिमां नृपालये स्थापयामासुः । दशरथ-जनको चाऽलक्ष्यौ महीमटतः । विभीषणश्चैत्याऽन्धकार एव दशरथमूर्तेर्मस्तकं चकर्त्त । तदानीं च नगरे महान् कोलाहलो जज्ञे । अन्तःपुरे च महानाक्रन्दध्वनिरुत्तस्थौ । अङ्गरक्षकाश्च सन्नह्याऽधावन् । मन्त्रिणश्च मृतकार्याणि विदधुः । ततो विभीषणो दशरथं मृतं ज्ञात्वा मिथिलेश्वरं जनकमेकमकिञ्चित्करमहत्वैव लङ्कां ययौ । । भ्राम्यन्तौ मिथो मिलितौ जनक-दशरथौ मित्रे उत्तरापथं प्रापतुः । तत्र शुभमतिनृपस्य पुरे तदुहितुर्दोणमेघसोदरायाः कैकेय्याः स्वयंवरं श्रुत्वा तन्मण्डपमुपेयतुः । हरिवाहणमुख्यानां नृपाणां मध्ये च तौ मञ्चे निषेदतुः । कैकेयी चाऽलङ्कृता साक्षाल्लक्ष्मीरिव स्वयंवरमण्डपमुपागता प्रतीहार्या दत्तहस्ता भूयसो नृपानतीत्य गङ्गा सागरमिव दशरथं प्राप्य तत्रैव तस्थौ । सातिशयं प्रमोदमाप्ता च दशरथकण्ठे वरमालां चिक्षेप । हरिवाहणादयश्च नृपास्तिरस्कृतंमन्या बहु विरुद्धं जल्पन्तः स्वशिबिरमागत्य सैन्यानि संवर्मयामासुः । दशरथस्य पक्षे शुभमतिश्चाऽपि महोत्साहेन चतुरङ्गिणी संवर्मयामास । सप्तमं पर्व - चतुर्थः सर्गः दशरथश्च 'प्रिये ! त्वं सारथिकर्म कुरु, यथा शत्रून् मनामी'ति कैकेयीमुवाच । सकलकलाकौशलशालिनी कैकेयी चाऽपि रश्मि गृहीत्वा महारथमारुरोह । दशरथश्चाऽपि सन्नद्ध एकाक्येव रथमारुरोह । ततः कैकेयी शत्रुरथैः प्रत्येकं युगपदिव निजरथमयोजयत् । लघुहस्तो दशरथोऽपि हरिवाहणादीनां रथान् प्रत्येकं चूर्णयामास । इत्थं सर्वानपि भूपान् विद्राव्य स कैकेयीं परिणिनाय । 'त्वत्सारथ्येन प्रसन्नोऽस्मि, वरं वृण्वि'ति च कैकेयीमुवाच । तत: 'समये वरं याचिष्ये, तन्न्यासीभूतोऽस्तु मे वर' इति कैकेय्योक्तश्च नृपस्तदनुमेने । ततो बलाद् हृतैः परसैन्यैः सह दशरथो लक्ष्म्येव कैकेय्या समं राजगृहनगरी ययौ । जनकश्चाऽपि स्वां नगरौं जगाम । अथ दशरथस्तत्रैवाऽपराजितामुख्यमन्तःपुरमानाययामास । तत्र राजगृहे राशीभी रममाणश्चिरमस्थात् । काले गच्छति चाऽपराजिता बलभद्रजन्मसूचकान् गज-सिंह-चन्द्र-सूर्यान् निशाशेषे स्वप्नेऽपश्यत् । तदा महद्धिको देवो ब्रह्मलोकाच्च्युत्वा तत्कुक्षाववातरत् । पूर्णे समये च सम्पूर्णलक्षणं शुक्लवर्णं सुतं सुषुवे । नृपश्च समहोत्सवं तस्य पद्म इत्यभिधामकरोत् । स बालो राम इत्यपि प्रथितो बभूव । सुमित्राऽपि च विष्णुजन्मसूचकान् गज-सिंहचन्द्रा-ऽर्क-वह्नि-श्री-समुद्रान् निशाशेषे स्वप्नेऽपश्यत् । तदानीं च देवलोकाद् महद्धिको देवश्च्युत्वा तत्कुक्षाववातरत् । समये च घनश्यामं सर्वलक्षणलक्षितं जगन्मित्रं पुत्ररत्नं सुषुवे । नृपश्च समहोत्सवं तस्य 'नारायण' इति नामाऽकरोत् । स लक्ष्मण इत्यपरनाम्ना भुवि ख्यातो बभूव । नील-पीताम्बरौ धात्रीभिाल्यमानौ क्रमेण वर्धमानौ तौ क्रमेण सकला: कला जगृहतुः ।

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129