Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 66
________________ १११ ११० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः उदयसुन्दरेण मनोरमया पञ्चविंशतिकुमारैश्च सह परिव्रज्यामुपाददे। वज्रबाहुं प्रव्रजितं श्रुत्वा च विजयो नृपोऽपि वैराग्यमापन्नः पुरन्दरं राज्ये न्यस्य निर्वाणमोहमुनेः पार्श्वे व्रतं जग्राह । पुरन्दरोऽपि पृथ्वीकुक्षिजं कीर्तिधरं पुत्रं राज्येऽभिषिच्य क्षेमङ्करमुनिपार्श्वे प्रावाजीत् । ___ कीर्तिधरश्चाऽपि सहदेव्या समं विषयान् भुञ्जानो व्रतं जिघृक्षुर्मन्त्रिभिनिवेदित:-'अपुत्रस्य तव व्रतादानं नाऽर्हति, तद्यावत् पुत्रो नोत्पद्यते तावत् प्रतीक्षस्व' । ततो गृहवासिनस्तस्य यथाकालं सहदेवीकुक्षिजः सुकोशलो नाम पुत्रो बभूव । 'जातं बालं श्रुत्वा मे पतिः प्रव्रजिष्यती'ति सहदेवी तं पुत्रमगोपयत् । किन्तु नृपः सुगुप्तमपि तं बालं जानाति स्म । ततो राजा सुकोशलं राज्ये न्यस्य विजयसेनसूरिपादान्ते व्रतं गृहीतवान् । तीव्र तपस्तप्यमानश्चाऽन्यदा स गुर्वनुज्ञयाऽन्यतो विजहार । अथैकदा मासोपवासी भिक्षार्थं साकेतं प्राप्तो मध्याह्ने तत्र भ्रमति स्म । प्रासादोपरिस्था सहदेवी च तं दृष्ट्वाऽचिन्तयत्'पितरं दृष्ट्वा सुकोशलोऽपि यदि प्रव्रजेत्, तदा निर्वीरा स्यामिति पुत्रराज्यस्थिरतार्थं निर्दोषोऽपि पतिर्नगराद् निर्वास्यः' । ततो राज्ञी तमन्यव्रतिभिः सह नगराद् निरवासयत् । किन्तु सुकोशलस्य धात्री व्रतिनं स्वामिनं निर्वासितं ज्ञात्वा भृशं रोदिति स्म । सुकोशलेन कि रोदिषीति पृष्टा च यथातथं वृत्तान्तं निवेदयामास । । तच्छ्रुत्वा च स पितुरन्तिकं गत्वा विरक्तो बद्धाञ्जलितग्रहणेच्छां निवेदयामास। सगर्भा च तत्पत्नी चित्रमाला मन्त्रिभिः सहेत्याऽस्वामिकं राज्यं त्यक्तुं नाऽर्हसीति निवारयामास। ततो नृपो सप्तमं पर्व - चतुर्थः सर्गः जगाद-'गर्भस्थस्तव सूनुरेव मया राज्येऽभिषिक्तः' । तदनन्तरं च व्रतं गृहीत्वा दुस्तपं तपस्तेपे । निर्ममौ च तौ पिता-पुत्रौ सहैव विहारं चक्रतुः । सहदेवी च तनयवियोगखिन्नाऽऽर्तध्यानपरा मृत्वा गिरिगुहायां व्याघ्री बभूव। ___अथ तौ कीर्तिधर-सुकोशलमुनी वर्षर्तुचतुर्मासी गमयितुमेकस्यां गिरिगुहायां तस्थतुः । कार्तिके मासि समायाते पारणार्थमटन्तौ तौ तया व्याघ्रया मार्गे दृष्टौ । सा च तौ दृष्ट्वा विस्फारितमुखा दधाव । तौ च मुनी धर्मध्यानापन्नौ तथैव कायोत्सर्गेणाऽविकम्पिती तस्थतुः । सा चाऽऽदौ प्रहारेण सुकोशलं भूमौ निपात्य नखैस्तच्चर्म विदार्याऽसृजमपिबत् । किन्तु कर्मक्षयसहायेयमित्यखिन्नो मुनि: शुक्लध्यानस्थस्तत्कालोत्पन्नकेवलो मोक्षमाप । कीर्तिधरोऽपि केवलं प्राप्य मोक्षं ययौ । इतश्च सुकोशलनृपप्रिया चित्रमाला हिरण्यगर्भ पुत्र सुषुवे। हिरण्यगर्भस्य च मृगावतीकुक्षिजो नघुषो नाम पुत्रो बभूव । हिरण्यगर्भश्च तृतीये वयसि नघुषं राज्ये निवेश्य विमलमुनिपादान्ते व्रतमग्रहीत् । नघुषश्च सिंहिकया विषयान् भुञ्जान उत्तरापथनृपान् जेतुमभिययौ । सिंहिकां च स्वे राज्य एव मुक्तवान् । तदा दक्षिणापथराज इह नघुषो नाऽस्तीति च्छलेनाऽयोध्यां रुरुधिरे । ततश्च क्रुद्धा सिंहिका तान् सिंही द्विपानिव बलेन पराभूयाऽनाशयत्। नघुषश्चोत्तरापथं जित्वा समागत: पत्न्या जयवृत्तान्तं श्रुत्वा दध्यौ'दुष्करमिदं कर्म स्त्रीणामयोग्यं तदवश्यमियं कुलटे'ति मनसि निश्चित्य तां सिंहिकां प्रियामपि तत्याज । एकदा चाऽन्यथाऽशान्तं नघुषस्य दाहज्वरं ज्ञात्वा सा स्वसतीत्वज्ञापनाय पत्युस्तापच्छेदाय च जलमादाय नघुष

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129