Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 65
________________ १०८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ययुः । तत्र मानसवेगया सार्द्ध महेन्द्रः केतुमत्यन्ये बान्धवाश्च समाययुः । ततः पुनरेव तत्र सर्वे महोत्सवं चक्रुः । स्वं स्वं परं चाऽन्योन्यमापृच्छ्य ययुः । अञ्जनया हनुमता च सह पवनस्तत्रैव तस्थौ । हनुमांश्च वर्धमानः सर्वाः कला जगृहे । विद्याश्चाऽसाधयत् । क्रमशो यौवनं प्रपेदे। इतश्चाऽसहनो रावणः सन्धिदोषमुद्भाव्य वरुणं जेतुं प्रतस्थे। दूतैराहूताश्च सर्वे विद्याधरास्तस्य सैन्यं वर्धयामासुः । पवन-प्रतिसूर्यो च प्रस्थितौ दृष्ट्वा हनुमानूचे-'भवन्ताविहैव तिष्ठतम्, अहं शत्रून् जेष्यामि । नाऽहं बाल इत्यनुकम्प्यः । एवमाभाष्य स कृतप्रस्थानमङ्गल: सामन्तादिपरिवृतो रावणस्कन्धावारं ययौ । रावणश्च तं समागतं प्रणमन्तं मुदा स्वाङ्के चक्रे । तथा युद्धाय वरुणपुर्याः समीपे प्रतस्थौ। वरुणश्चाऽपि ससैन्य: पुराद् निर्ययौ । वरुणश्च युद्धे रावणं खेदयामास । ततः क्रुद्धो हनुमान् विद्यासामर्थ्याद वरुणात्मजान युद्ध्वा बबन्ध । तद् दृष्ट्वा च क्रुद्धो वरुणो हनुमन्तमधाविष्ट । रावणोऽपि तमापतन्तं दृष्ट्वा बाणवृष्टिं कुर्वन् मध्य एवाऽवरुरोध । छलेन च वरुणमाकुलं कृत्वा बबन्ध । ततश्च सर्वतो जयजयारावपूर्वकं रावणो निजस्कन्धावार प्राप । वरुणं च वशगं विधाय सपुत्रं मुमोच । वरुणश्च हनुमते सत्यवती नाम स्वपुत्रीं ददौ । रावणश्च हृष्टश्चन्द्रणखापुत्रीमनङ्गकुसुमां हनुमते दत्त्वा लङ्कां ययौ । तथा सुग्रीवः पद्मरागां नलो हरिमालिनीमन्ये चाऽपि स्वाः सुता हनुमते प्रददुः । हनुमांश्च रावणेन सादरं विसृष्टो हनुपुरं जगाम । अन्ये चाऽपि वानरेन्द्रा विद्याधरेन्द्राश्च स्वं स्वं पुरं ययुः ॥ ३ ॥ इति हनुमदुत्पत्ति-वरुणसाधनो वर्णनात्मकः तृतीयः सर्गः ॥३॥ चतुर्थः सर्गः अथ मिथिलानगर्यां हरिवंशे वासवकेतुनृपो बभूव । तस्य विपुलाकुक्षिजो भुवि ख्यातो जनको नाम पुत्र आसीत् । अयोध्यापुर्यां चेक्ष्वाकुसन्ताने सूर्यवंशीयो विंशतितमाहतस्तीर्थे विजयाख्यस्य नृपस्य हिमचूलाकुक्षिजौ वज्रबाहु-पुरन्दरौ द्वौ पुत्रावभूताम् । नागपुरे नगरे चेभवाहननृपस्य चूडामणिकुक्षिजा मनोरमा पुत्र्यासीत् । वज्रबाहुश्च तां परिणीयोदयसुन्दराख्येन श्यालेनाऽनुस्रियमाणो मनोरमामादाय स्वपुराय प्रस्थितवान् । स गच्छंश्च मार्गे वसन्ताद्रौ ज्ञानिनं तपस्यन्तं महामुनि गुणसागरं दृष्ट्वा जातहर्षो वाहनं धृत्वाऽऽह-'पुण्येन दृष्टोऽयं महामुनिर्मया ऽवश्यवन्द्यः' । तच्छ्रुत्वोदयसुन्दरेण परिव्रज्यामिच्छसीति पृष्टस्तथेति समर्थितवान् । 'यदि तथा, तदा विलम्बो न कार्यः, अहमपि ते सहायः' इत्युदयसुन्दरेण पुनरुक्तः प्रतिज्ञाय प्रतिज्ञाप्य च वाहनादुत्तीर्य वसन्ताद्रिमुदयसुन्दरादिभिः परिवृत आरुरोह । तत्र उदयसुन्दरो वज्रबाहुमुवाच-'स्वामिन् ! मा प्रव्राजी:, मम परिहासवाचं धिक् । नर्मोक्तिव्यतिक्रमे न कोऽपि दोषः' । ततो वज्रबाहुरुवाच-'चारित्रं मर्त्यजन्मफलं, तत्ते नर्मोक्तिरपि परमार्थफला जाता । प्रतिज्ञामनुपालयस्व, क्षत्रियाणामेष कुलधर्मः' । एवमुदयसुन्दरं प्रतिबोध्य वज्रबाहुर्गुणसागरमुनिमुपेत्य तत्पादान्ते

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129