Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 63
________________ १०४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तथा दक्षिणकरमुन्नम्य धर्मलाभाशिषं ददौ । ततस्तत्सखी वसन्ततिलका पुनर्भक्त्या तं मुनिं प्रणम्य मूलतः सर्वमप्यञ्जनादुःखमाचख्यौ । तथाऽस्या गर्भ कोऽभवत् ? केन कर्मणैषेदृशीं दशामाप्तेति पप्रच्छ । ____ ततो मुनिरुवाच-'अस्यैव जम्बूद्वीपस्य भरते क्षेत्रे मन्दरनाम्नि नगरे प्रियनन्दी वणिगभूत् । तस्य जया नाम्न्यां जायायां कलानिधिर्दमयन्तो नाम पुत्रो बभूव । स एकदोद्याने क्रीडन् साधून् दृष्ट्वा तेभ्यो धर्मं श्रुत्वा सम्यक्त्वं प्रतिपद्य तप:संयमनिष्ठो विपद्य द्वितीये कल्पे देवोऽभूत् । ततश्च्युत्वा जम्बूद्वीपे मृगाङ्कनगरे प्रियङ्गलक्ष्म्यां पन्यां हरिचन्द्रनृपस्य सिंहचन्द्रनामा पुत्रो भूत्वा जैन धर्म प्रपद्य कालयोगतो विपद्य देवत्वं प्राप्तवान् । ततश्च्युत्वा च वैताढ्ये वारणे नगरे सुकण्ठनृपस्य कनकोदाँ पत्न्यां सिंहवाहनो नाम पुत्रो बभूव । तत्र च सुचिरं राज्यं भुक्त्वा श्रीविमलप्रभोस्तीर्थे लक्ष्मीधरमुनेव्रतमादाय दुस्तपं तपस्तप्त्वा लान्तके सुरोऽभवत् । ततश्च्युत्वा च त्वत्सख्या उदरे समवातरत् । अस्याश्च पुत्रो गुणवान् पराक्रमी विद्याधरेश्वरश्चरमदेहो भविष्यति । कनकपुरे नगरे कनकरथनृपस्य कनकोदरी लक्ष्मीवती च द्वे पत्न्यावभूताम् । तयोर्लक्ष्मीवती श्राविकाऽऽसीत् । सा च गृहचैत्ये रत्नमयं जिनबिम्बं विधाय प्रत्यहमपूजयत् । कनकोदर्या च मात्सर्यात् साऽर्हत्प्रतिमा हृत्वाऽवकरस्याऽन्तश्चिक्षेप । तदा च जयश्री नाम्नी गणिनी विहरन्ती समागता तद् दृष्ट्वा 'किमिदमकार्षीः? अत्र भगवत्प्रतिमां प्रक्षिपन्त्या त्वयाऽनेकभवदुःखमुपार्जितम्' । तयैवमुक्ता सा सदु:खा प्रतिमां गृहीत्वा प्रमृज्य क्षमयित्वा च यथास्थानं न्यवेशयत् । तत्प्रभृति च सम्यक्त्ववती जैन धर्म प्रपाल्य काले सप्तमं पर्व - तृतीयः सर्गः विपद्य सौधर्मे देवी जाता । ततश्च्युत्वा च महेन्द्रनृपसुता तवेयं सखी जाता । तदर्हत्प्रतिमाया दुःस्थानक्षेपजमस्या ईदृशं फलम् । तस्मिन् भवे चाऽस्यास्त्वं जामिस्तत्कर्माऽनुमन्त्री चाऽऽसीरित्यनया सह दुःखमनुभवसि । किन्त्वस्यास्तद् दुष्कर्मफलं भुक्तप्रायमस्ति । भवे भवे शुभो जिनो धर्मो गृह्यताम् । अकस्मादागतोऽस्या मातुल एनां स्ववेश्मनि नेष्यति । अचिरादेव च पत्याऽपि सङ्गमो भविष्यति' । एवमुक्त्वा स मुनिस्ते द्वे आर्हते धर्मे स्थापयित्वा नभसोत्पपात । अथ ते द्वे अपि किञ्चित्क्रूरं बूत्कारदारुणं सिंहं समायान्तं दृष्टवत्यौ भयार्ते कम्पमानगात्रे यावदतिष्ठतां, तावद् मणिचूलनामा तद्गुहाधिपो गन्धर्वोऽष्टापदरूपं विकृत्य तं सिंहमवधीत् । पुनः स्वं रूपं प्रतिपद्य तयोर्मोदाय सभार्योऽर्हद्गुणस्तवनं चकार । तथा ते द्वे तद्गन्धर्वसमीपे तद्गुहायामवस्थिते मुनिसुव्रतं पूजयामासतुः । अथाऽन्येधुरञ्जना वज्रा-ऽङ्कश-चक्राङ्कितपादं सुतं सुषुवे। वसन्ततिलका च तस्याः सूतिकर्म सहर्षं चकार । अञ्जना च तं सुतमङ्कमारोप्य साश्रुमुखी नितरां रुरोद । तां च रुदती प्रेक्ष्य विद्याधर उपेत्य मधुरगिरा दुःखकारणमपृच्छत् । ततस्तत्सखी विवाहादारभ्य सुतजन्मान्तं सर्वं वृत्तान्तं कथितवती । स विद्याधरोऽपि रुदनवादीत्-'अहं हनुपुराधिपश्चित्रभानुसुतः सुन्दरीमालाकुक्षिजातस्त्वज्जनन्या भ्राता मानसवेगोऽस्मि । दिष्ट्या त्वां जीवन्ती दृष्टवानस्मि, समाश्वसिहि' । ततस्तं मातुलं ज्ञात्वा साऽञ्जना बाढं रुरोद । स प्रतिसूर्यो विद्याधरस्तां रुदतीं वारयित्वा सार्धमागतं दैवज्ञं तद्बालस्य जन्मादिकमपृच्छत् । दैवज्ञो जगाद-'अयं बालः शुभे लग्ने जातोऽस्ति । तेनाऽयं महाराजो भविष्यति, तथाऽस्मिन्नेव भवे सिद्धिमेष्यति' ।

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129