Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
पुरुष-गद्यात्मकसारोद्धारः
इत्युक्तवन्तं तमुपलक्ष्य त्रपावती नम्रमुखी सोत्तस्थौ । पवनञ्जयश्च तां बाहुना गृहीत्वा पर्यङ्के न्यषदत् । ततः प्रहसितो वसन्ततिलका च गृहाद् निर्जग्मतुः ।
१०२
ततश्च स्वैरं रममाणयोस्तयोरेकयामेव रात्रिः समाप्ता । प्रभातकल्पां रात्रिं ज्ञात्वा च पवनञ्जयस्तामूचे- 'कान्ते ! जयाय यास्यामि । अतः परं खेदं मा कार्षीः । सखीभिः समं सुखं तिष्ठ, यावद् रावणकार्यं सम्पाद्याऽऽगच्छामि' । साऽप्युवाच- 'तत्कार्यं सम्पाद्य शीघ्रमागच्छेः, यदि मां जीवन्तीं द्रष्टुमिच्छसि । किं चाऽद्यैवाऽहमृतुस्नाताऽस्मि । यदि मे गर्भो भवेत् तदा त्वत्परोक्षे लोका मामपवदेयुः' । पवनञ्जय उवाच - 'सुन्दरि ! शीघ्रमागमिष्यामि । तदा च त्वयि न दोषावसरः स्यात् । तथा मदागमनसूचकमिदं मन्नामाङ्कितमङ्गुलीयं गृहाण । अवसरे सति तत् प्रकाशयेः' । एवमुक्त्वाऽङ्गुलीयं दत्वोत्पत्त्य स मानससरस्तीरस्थं निजं शिबिरं जगाम । ततोऽपि च सैन्येन सह सुर इवाऽऽकाशमार्गेण लङ्कानगरी गत्वा रावणं प्रणाम । रावणोऽपि च सेनासहितः पातालं प्रविश्य वरुणमभिययौ ।
alsalts als
इतश्चाऽञ्जना तद्दिन एव गर्भं बभार । तस्याः शरीरे च गर्भलक्षणानि क्रमशः प्रकटितानि । तद् दृष्ट्वा श्वश्रूः केतुमती साधिक्षेपमवदत् - 'त्वया किमिदं कुलद्वयकलङ्ककरमाचरितम् ? यद् विदेशस्थे पत्यौ गर्भवत्यभूः'। श्वश्र्वा निर्भत्सता साऽञ्जना साश्रुमुखी पत्युरागमनचिन्हं तदङ्गुलीयकमदर्शयत् । तथाऽपि सोवाच'किमङ्गुलीयकेन मां प्रतारयसि ? यस्तेन नामाऽपि नाऽग्रहीत्, तेन तव सङ्गमः कथम् ? अद्यैव मद्गृहाद् निर्गच्छ पितुर्गृहं गच्छ' ।
सप्तमं पर्व तृतीयः सर्गः
१०३
एवमञ्जनां निर्भर्त्स्य तां पितृगृहं नेतुमारक्षानादिक्षत् । तेऽपि च तां यानमारोप्य महेन्द्रनगरोपान्तेऽमुञ्चन् । तां नमस्कृत्य क्षमयित्वा च स्वस्थानं ययुः । तदानीमेव च रविरस्तमगात् । सा चाऽञ्जना भीता जाग्रत्येव तां निशामनयत् । प्रातश्चोत्थाय सा शनैः पितृगृहद्वारं ययौ ।
तां दृष्ट्वा ससम्भ्रमो द्वारपालः दृष्ट्वा सख्या निवेदितां तादृशीमवस्थां राज्ञे व्यजिज्ञपत् । राजा च लज्जानम्रमुखोऽचिन्तयत्'स्त्रीणां चरितमचिन्त्यम् । इयं कुलटा कुलकलङ्काय गृहमागता' । तमेवं चिन्ताचान्तस्वान्तं नयज्ञः प्रसन्नकीर्तिनामा पुत्रोऽवोचत् - 'एषा द्रुतं निर्वास्यताम् । अनया हि कुलं दूषितम् । ततो महोत्साहो नाम मन्त्री राजानमवोचत् - 'पुत्रीणां श्वश्रदुःखे पितैव शरणम् । किं च केतुमती क्रूरा निर्दोषामप्येनां दोषमुत्पाद्य निर्वासयेत् । तद्यावद् दोषाऽदोषयोर्निर्णयो न भवेत् तावदेषा स्वपुत्रीति कृपया गुप्तं पाल्यताम्' । ततो नृपः पुनरुवाच- 'श्वश्रूस्तथा भवति, किन्तु वधूरीदृशी न भवति । किं च पुरा श्रृणोमि यदेषा पवनस्य द्वेष्या । तत् कथमस्यास्ततो गर्भः सम्भाव्यते ? तदेषा सर्वथा दोषवती तया साधु निर्वासिता । इतोऽपि शीघ्रं निर्वास्यतां, तन्मुखं न पश्यामः' ।
इत्थं नृपाज्ञया द्वारपालोऽञ्जनां निरवासयत् । सा च क्षुधा तृष्णया चाऽऽर्त्ता श्रान्ताऽश्रूणि वर्षन्ती पदोर्दर्भेण विद्धा शोणितैर्महीतलं रञ्जयन्ती पदे पदे प्रस्खलन्ती रुदन्ती सख्या सहाऽचालीत् । यत्र यत्र चाऽगच्छत् तत्र तत्र पूर्वमेवाऽऽयातै राजपुरुषैः प्रतिषिद्धा कुत्रापि स्थिति न लेभे । इत्थं पर्यटन्ती सा कामप्येकां महाटवीं प्राप्य तरुमूले उपविश्य चिरं विललाप । सख्या च सम्बोध्याऽग्रतो नीता सा गुहान्तर्ध्यानस्थममितगतिं मुनिं ददर्श । ततस्ते द्वे अपि चारणश्रमणं तं प्रणम्य पुरो भूमौ समुपविष्टवत्यौ । मुनिरपि ध्यानमपारयत् ।

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129