Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 64
________________ १०७ १०६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ प्रतिसूर्यो भगिनीपुत्री ससखीं ससुतां च तामञ्जनां विमानमारोप्य स्वपुरं प्रति प्रस्थितवान् । स बालकश्च विमाने लम्बमाना रत्नकिङ्किणीर्ग्रहीतुमिच्छुर्मातुरुत्सङ्गादुत्पपात । गिरिशिखरे च वज्रमिव पतितः सः । तेन च स गिरिस्तत्पातघातवशात् कणशो जातः । अञ्जना च विह्वला हृदयं ताडयन्ती करुणं रुरोद । प्रतिसूर्यश्च सद्य एव नीचैरागत्य तं बालमक्षताङ्गमेवोपादायाऽपितवान् । तथा तां मुदा स्वगृहे निवासयामास । तदन्तःपुरं च तां चारु सच्चकार । 'अयं बालो जातमात्रो हनुपुरे समाययावित्यतो मातुलस्तस्य हनुमानित्यभिधेयमकरोत् । तथा स पतितः शैलं चूर्णीकृतवानित्यत: श्रीशैल इति द्वितीयाख्यामप्यकरोत् । हनुमांश्च यथा सुखं क्रीडन् वृद्धिमाप । अञ्जना च श्वश्वाऽऽरोपितो दोषः कथमपगच्छेदिति चिन्तयन्ती हृद्यताम्यत् । इतश्च पवनवेगः सन्धि विधाय वरुणात् खर-दूषणौ मोचयित्वा रावणं तोषयामास । रावणश्च सपरिवारो लङ्कां जगाम । पवनोऽपि तमापृच्छ्य स्वपुरमाययौ । तत्र च पितरौ प्रणम्याऽञ्जनावासगृहं गतस्तत्राञ्जनामपश्यन् तत्रस्थामेकां स्त्रियं क्वाऽञ्जनेत्यपृच्छत् । साऽपि च पवनवेगयात्रात आरभ्याऽञ्जनाया अरण्यमोचनपर्यन्तं सर्वं वृत्तान्तं यथातथमाख्यत् । तच्छ्रुत्वा च पवनवेगः श्वशुरपुरं शीघ्रं गत्वा प्रियामनवलोकमानः कुतश्चित्स्त्रियास्ततोऽप्यञ्जनानिर्वासनं श्रुत्वा शैलवनादिषु तामन्वेषयन् बभ्राम । किन्तु प्रियायाः प्रवृत्तिमप्राप्य विषण्णो मित्रं प्रहसितं जगाद-'मित्र ! गत्वा पित्रोः कथय-'मयाऽद्य यावत् क्वाऽप्यञ्जना न दृष्टा । पुनस्तामन्वेषयामि । तां द्रक्ष्यामि वा पावकं प्रवेक्ष्यामि । सप्तमं पर्व - तृतीयः सर्गः तत: प्रहसितो द्रुतमादित्यपुरं गत्वा प्रह्लाद-केतुमत्योस्तवृत्तान्तं कथयामास । तच्छ्रुत्वा च मूर्च्छिता केतुमती कथञ्चिल्लब्धसंज्ञोवाच-प्रहसित ! मरणे कृतनिश्चयः पवन: कि वने एकाकी मुक्तः ? मया वाऽविमृश्यकारिण्या निर्दोषा सा कि निरवास्यत?' एवं रुदतीं तां निवार्य प्रहलादः ससैन्यः पुत्रमन्वेष्टं चचाल । तथाऽञ्जना-पवनयोरन्वेषणाय सर्वत्र दूतं प्रेषयामास । पुत्रं पुत्रवधू चाऽनवलोकयन् स सत्वरं भ्राम्यन् भूतवनं नाम वनमगात् । अत्राऽवसरं च पवनश्चितां विरचय्य तत्राऽग्नि ज्वालयामास । प्रहलादश्च तं ददर्श । पवनश्च चितासमीपे स्थित्वा वनदेवताः समुद्दिश्य स्वं वृत्तान्तं निवेद्य त्वद्वियोगात् तव पतिश्चितां प्रविष्ट इति वाचिकं दत्त्वा च चितायां झम्पां दातुमुत्पपात । प्रह्लादश्चाऽपि तच्छ्रुत्वा ससम्भ्रमं तं स्वबाहुभ्यामधारयत् । तथाऽञ्जनान्वेषणाय सहस्रशो विद्याधराः प्रेषिताः सन्ति मया, तानागमयस्वेत्युवाच च । ___ अत्रैव चाऽन्तरे तेन प्रेषिताः केचिद् विद्याधरा हनुपुरं ययुः। तत्र प्रतिसूर्या-ऽञ्जनयोः पवनस्याऽग्निप्रवेशप्रतिज्ञामाचख्युः । अञ्जना च तच्छ्रुत्वा हा हताऽस्मीति जल्पन्ती मूर्च्छिता भुवि पपात । शीतोपचारैर्लब्धसंज्ञां मुहुर्मुहू रुदतीं तां बोधयित्वा प्रतिसूर्यः सपुत्री विमानमारोप्य पवनमन्वेष्टुं ययौ । भ्राम्यंश्च तत्रैव भूतवने प्रहसितेन दूरादपि ददृशे । तथा प्रह्लाद-पवनयो: साञ्जनं समायातं तं जयपूर्वकमाख्यत्। ततः प्रतिसूर्योऽञ्जनाऽपि च विमानादवतीर्य प्रह्लादं नेमतुः । __ प्रह्लादश्च प्रतिसूर्यमालिङ्ग्य पौत्रमङ्के स्थापयित्वा जातहर्षो जगाद-'त्वमेव बन्धुर्यद् व्यसनाब्धौ मज्जन्तं सकुटुम्बं मामद्य समुद्धर' । पवनोऽपि च शान्तशोको नितरां मुमुदे । विद्याधरेन्द्राश्च तत्र विद्यामाहात्म्याद् महोत्सवं चक्रुः । तथा सर्वे ते विमानैर्हनुपुरं


Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129