Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१११
११८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पुत्रत्वेन स्वयमाददे । तथा पुष्पवत्त्याः समर्प्य 'देव्यद्य पुत्रं सुषुवे' इति पुर्यघोषयत् । समहोत्सवं च तस्य भामण्डलयोगाद् भामण्डल इति नाम चकार । ततः स बालो विद्याधरीभिर्लालितः क्रमाद् ववृधे ।
इतश्च विदेहा पुत्रेऽपहते करुणस्वरं रुरोद । जनकश्च प्रतिदिशं दूतान् प्रेष्य तमन्वेषयामास । किन्तु चिरादपि क्वाऽपि तत्प्रवृत्ति नाऽऽप । अनेकगुणसस्यानामत्र प्रादुर्भाव इति मिथिलेशो युग्मजाताया: पुत्र्या: सीतेति नाम चकार । काले गच्छति च तयोः शोकोऽस्तमियाय । सीता च क्रमाद् वर्धमाना चन्द्रलेखेव कलापूर्णा जाता । तां च वयस्थां दृष्ट्वा कोऽस्या अनुरूपो वरो भवितेति जनको दिवानिशं चिन्तयामास । चरैश्च राज्ञां कुमारान् ज्ञात्वाऽमात्यैर्विचारयन् न क्वाऽपि तुतोष ।
तदानीमेव चाऽर्धबर्बरैरातरङ्गतमादिनृपैर्बहुभिस्तस्य भूमिरुपदुद्रुवे । तान् वशीकर्तुमक्षमश्च जनको दशरथाह्वानाय दूतं प्राहिणोत् । नृपेण सत्कृत्य समागमकारणं पृष्टश्च दूत उवाच-'त्वं जनकस्य मित्रमस्ति, तेनाऽद्य विधुरे समुपस्थिते कुलदेवतेव तेन स्मृतोऽसि । वैताढ्यस्य दक्षिणतः कैलासस्योत्तरतश्च भूयांसोऽनार्या जनपदाः सन्ति । तेष्वर्धबर्बरे नाम देशे मयूरमालनगरे आतरङ्ग तमो नाम म्लेच्छराजोऽस्ति । तस्य तनयाश्च शुक-मङ्कनकाम्बोजप्रभृतीन् विषयान् भुञ्जते । अधुना चाऽऽतरङ्गो जनक भूमिमुपाद्रवत् । प्रतिस्थानं च चैत्यानि बभः । तस्माद् मित्रस्य धर्मस्य च परित्राणं कुरुष्व' । तच्छ्रुत्वा च दशरथो यात्राभेरीम
सप्तमं पर्व - चतुर्थः सर्गः वादयत् । ततो राम उवाच-'म्लेच्छोच्छेदाय स्वयं चेत् तातो यास्यति तदा रामः सानुजः किं करिष्यति ? ततः प्रसीद, विरम, मां समादिश, अचिरादेव जयवान् श्रोष्यसि ।
इत्थं राजानमनुज्ञाप्य सेनापरिवृतः सानुजो रामो मिथिलापुरीं जगाम । तत्र च पुरीपरिसरे म्लेच्छभटान् दृष्टवान् । म्लेच्छाश्च सत्वरमेव राममुपद्रोतुं प्रावर्त्तन्त । तैर्युगपदेवाऽस्त्रै रामसैन्यमन्धीकृतम् । ततः क्रुद्धो रामो धनुरधिज्यं विधाय मृगान् व्याध इव तानस्त्रैविव्याध । आतरङ्गादयश्च म्लेच्छाः कुपित-विस्मिता युगपदस्त्राणि ततोऽभिरामं दधावुः । रामश्च शरभः कुञ्जरानिव तान् म्लेच्छानभाङ्क्षीत् । ततस्ते म्लेच्छा: काकनाशं नष्टा: कान्दिशीकाः पलायामासुः । जनकश्च स्वस्थो बभूव । ततः प्रसन्नो जनको रामाय स्वसुतां सीतां ददौ ।
तदानीं च नारदो जानकीरूपमाकर्ण्य कौतुकात् तां द्रष्टुं कन्यागृहं निवेश । तं च भीषणं दृष्ट्वा सीता भीता कम्पमानगात्रा हा मातरित्याक्रोशन्ती गर्भगृहान्तरविशत् । ततो नारदो दासीद्वारपालाद्यैः कण्ठे शिखादिषु च धृतः क्षुभितः कथञ्चन स्वं विमोच्योत्पत्त्य वैताढ्यं गतोऽचिन्तयत्-'दिष्ट्या वैताढ्यं प्राप्तोऽस्मि' इह दक्षिणश्रेण्यां चन्द्रगतिपुत्रस्तरुणः पराक्रमी भामण्डलोऽस्ति, तत्सीतां पटे लिखित्वाऽस्य तद्रूपं दर्शयामि । येनाऽयं हठात् तामपहरति । एवमेष कृते प्रतिकरोमि' ।
ततस्सद्यस्तथा कृत्वा भामण्डलस्य सीतारूपमदर्शयत् । भामण्डलश्चाऽदृष्टपूर्वं तद्रूपं दृष्ट्वा भूतेनेव कामेनाऽऽक्रान्तो जातुचिद् निद्रां न लेभे । विषण्णं तं दृष्ट्वा चन्द्रगतिना कारणं

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129