Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१०० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
- 'अङ्गीकृतस्याऽतिक्रमो महतां न युज्यते । किं चाऽञ्जनासुन्दरी निरपराधा, ततो विरम' । ततः पवनञ्जयो विमृश्य कथमपि तत्रैवाऽस्थात् । ततस्तयोनिश्चिते शुभे लग्ने विवाहमहोत्सवोऽभवत् । प्रह्लादश्च प्रमुदितो महेन्द्रेण सत्कृतस्तद्वधू-वरमादाय स्वां पुरीं प्रति प्रस्थितः । पुरीं प्राप्य च प्रह्लादोऽञ्जनासुन्दर्याः सप्तभूमिकं प्रासादं वासायाऽऽर्पयत् ।
इतश्च पवनञ्जयस्तां वाचाऽपि न सत्कृतवान् । तेन च सा चन्द्रं विना रात्रिरिव पवनञ्जयं विना बाष्पान्धकारावलिप्तमुखी दुःखिता तस्थौ । एवं कियत्यपि काले गते राक्षसेन्द्रस्य दूतः समुपेत्य प्रह्लादमब्रवीत्-'वरुणो रावणेन सह वैरायते । तेन च क्रुद्धो रावणः सेनया तत्पुरमरौत्सीत् । वरुणश्च पुराद् निर्गत्य राजीव-पुण्डरीकाद्यैः पुत्रैः समन्वितोऽयुध्यत । तस्मिश्च रणे वीरैर्वरुणपुत्रैः खर-दूषणौ बद्ध्वाऽनीयेताम् । ततश्च राक्षससैन्ये भग्ने वरुणो निजां नगरीमविशत् । तेन रावणो विद्याधरेन्द्रान् प्रत्येकमाकारयितुं दूतान् प्रेषितवान् । भवते चाऽहं प्रेषितोऽस्मि' । ___ तच्छ्रुत्वा तत्साहाय्यार्थं प्रह्लादो यावच्चचाल तावत् पवनञ्जयः समुपेत्य तमुवाच-'तात ! त्वमिहैव तिष्ठ, अहमपि रावणमनोरथं पूरयिष्यामि' एवमुक्त्वा साग्रहं पितरं निषिध्य स प्रतस्थे । अञ्जनासुन्दरी च पत्युर्यात्रां श्रुत्वोत्सुका प्रासादादवरुह्य तमीक्षितुं स्तम्भमवष्टभ्य तस्थौ । पवनञ्जयश्च व्रजन् तां साश्रुनेत्रां दृष्ट्वा दध्यौ-'इयं मन्दमतिर्निीका निर्भीका च । यद् वाऽस्या विरक्तत्वं मया पुराऽपि ज्ञातमेव' । अञ्जनासुन्दरी च तस्य पादयोः पतित्वा रचिताञ्जलिरूचे-'त्वया सर्वोऽपि सम्भाषितः, किन्त्वहं मनागपि न । तथाऽपि प्रार्थ्यसे मया-यत् त्वया नाऽहं विस्मर्त्तव्या, ते
सप्तमं पर्व - तृतीयः सर्गः पन्थानः शिवाः सन्तु' । एवं कथयन्तीं तामनिन्दितामवगणय्यैव स जयाय ययौ । पत्युरवज्ञया वियोगेन च दुःखिता सा गृहान्तर्गत्वा भूतले निपपात ।
पवनञ्जयश्चोत्पत्य गच्छन् रात्रौ मानसे सरसि तस्थौ । तत्र च विकृते प्रासादे पर्यङ्कमास्थितः सरस्तीरे पतिवियोगातचक्रवाकीं क्रन्दन्ती प्रेक्ष्य दध्यौ-'या विवाहात् प्रभृत्येव न कदाऽपि भाषिता, आगमनकालेऽपि या मयाऽवज्ञाता, अदृष्टमत्सङ्गसुखा सेदानीमञ्जना कथं भविष्यति ? धिङ्मामविवेकिनम्' । एवं स्वचिन्तितं च सर्व स प्रहसितायाऽऽख्यत् । ततः प्रहसित उवाच-'चिरादप्यद्य साधु त्वया ज्ञातम् । नूनं सा त्वद्वियोगाद विपद्येत । तामद्याऽप्याश्वासयितुमर्हसि, गच्छ, अद्याऽपि तां समाश्वास्य पुनरागच्छ' । एवं तेन प्रबोधितः स उत्पत्याऽञ्जनागृहं प्रापत् । तत्र च स द्वार एव तिरोहितस्तस्थौ । प्रहसितश्चाऽग्रे भूत्वा तद्गृहे प्राविशत् । अञ्जना च विरहार्ताऽपि तं दृष्ट्वा 'कस्माद् व्यन्तर इव कः समाययों । वसन्ततिलके ! बहिः कुर्वेतं पुरुषं, पवनञ्जयं विहाय न कस्याऽपि मद्गृहे प्रवेशाधिकारोऽस्ति । नाऽहमेनं द्रष्टुमपि क्षमे'त्यब्रवीत् ।
तत्छ्रुत्वा नत्वा प्रहसित उवाच-'स्वामिनि ! दिष्ट्या वर्धसे । पवनः सोत्कण्ठित: समायातोऽस्ति । तस्य मित्रं प्रहसितोऽहमायातोऽस्मि' । ततोऽञ्जना जगाद-'विधिना कर्थितां मां मा कदर्थय । मत्पुराकृतानामेष दोषः । कथमन्यथा तादृशः कुलीनो भर्ता मां त्यजेत् ? विवाहात् प्रभृति भ; त्यक्ताया मम द्वाविंशतिर्वर्षाणि व्यतीयुः । अद्याऽपि पापिन्यहं जीवामि' । ततो दुःखितः पवनञ्जयोऽन्तः प्रविश्य सगद्गदस्वरमुवाच-'विवाहात् प्रभृति निर्दोषाऽपि दोषमारोप्य मयाऽवज्ञाताऽसि, त्वं मद्राग्यादेवाऽद्याऽपि जीवसि' ।

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129