Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः विजितस्तं याचमानश्च न लज्जे । तच्छकं मुञ्च, मे पुत्रभिक्षा प्रयच्छ' । ततो रावण उवाच -'शक्रं मुञ्चामि, यद्यसौ लङ्कां परितः क्षणे क्षणे वासगृहमिव तृणादिरहितां करोति । स प्रातः प्रात: पुरीमिमां दिव्यगन्धैर्जलैरभितोऽभिषिञ्चतु । मालाकार इव च सदा स्वयमवचित्य पुष्पाणि ग्रथित्वा च देवपूजादिषु समानयतु । एवंविधानि कर्माणि कुर्वन्नेष तव सुतः पुना राज्यं गृह्णातु, मत्प्रासादाद् नन्दतु च' । तत एवं करिष्यतीति सहस्रारेण स्वीकृते निजबन्धुवत् सत्कृत्य काराया इन्द्रं मुमोच । इन्द्रश्च रथनूपुरमेत्योद्विग्न इव तस्थौ ।
अथाऽन्यदा तत्र निर्वाणसङ्गमो नाम ज्ञानी मुनि: समवासरत् । इन्द्रश्च तत्र गत्वा वन्दित्वा-'केन कर्मणा मम रावणकृतस्तिरस्कार' इति पृष्टवान् । ततो मुनिरब्रवीत्-'पुराऽरिञ्जयपुरे ज्वलनसिंहो नाम विद्याधरेन्द्रोऽभवत् । तस्य वेगवत्यां पत्न्यां जाताया अहल्यायाः स्वयंवरे सर्वे विद्याधरेन्द्राः समेयुः । तत्र च चन्द्रावतपुरेश्वर आनन्दमाली सूर्यावर्तपुरेश्वरस्तडित्प्रभश्च त्वं समागाः । अहल्या च त्वां त्यक्त्वाऽऽनन्दमालिनं ववे । तेन पराभवेन च त्वमानन्दमालिनीालुर्जातः । आनन्दमाली च कालक्रमेण निर्वेदाद् व्रतं गृहीत्वा तीव्र तपस्तप्यमानो मुनिभिः समं विजहार ।
एकदा च स रथावर्त्त गिरिं गतस्त्वया ददृशे । अहल्यायाः स्वयंवरश्च त्वया स्मृतः । ततस्त्वया स ध्यानस्थो बद्धोऽनेकशस्ताडितश्च । तथाऽपि स ध्यानाद् न चचाल । किन्तु कल्याणगुणधरस्तभ्राता मुनिस्तत् प्रेक्ष्य त्वयि वृक्षे वज्रमिव तेजोलेश्याममुचत् । ततस्त्वत्पन्या सत्यश्रिया भक्तिवचनैः प्रसादितः स
सप्तमं पर्व - द्वितीयः सर्गः मुनिस्तेजोलेश्यां संजहार । तेन च त्वं तदैव न दग्धः । मुनितिरस्कारपापाच्च बहून् भवान् भ्रान्त्वा शुभं कर्म विधाय सहस्रारसुतस्त्वमिन्द्रोऽभुवः। तन्मुनितिरस्कारप्रहारजन्यकर्मण: फलं च तव रावणात् पराजयः । कीटादिन्द्रं यावच्चिरादपि सर्वस्य कर्माण्यवश्यमेव फलन्ति' । तच्छ्रुत्वा सुतं दत्तवीर्यं राज्येऽभिषिच्य प्रव्रज्य तीव्र तपस्तप्त्वेन्द्रः शिवं ययौ ।
अथैकदा रावणो मेरुशिखरेऽनन्तवीर्यं नामर्षि जातकेवलं वन्दितुं गतः । तं वन्दित्वा यथास्थानमुपविश्य धर्मदेशनां श्रुत्वाऽन्ते 'कुतो मम मरणमि'ति महर्षि पृष्टवान् । ततः स मुनीश्वरो जगाद'प्रतिविष्णोस्तव पारदारिकदोषेण वासुदेवाद् मरणं भविता' । तत: सोऽनिच्छन्तीं परस्त्रियं न रमयिष्यामीत्यभिग्रहं तस्यैव मुनेः पुरो जगृहे । ततस्तं मुनि नत्वा पुष्पकविमानस्थ: स्वां पुरीं रावणः समेयाय ॥ २ ॥
इति रावणदिग्विजयवर्णनात्मको द्वितीयः सर्गः ॥२॥

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129