Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 57
________________ सप्तमं पर्व - द्वितीयः सर्गः भवं भ्रान्त्वा विश्वावसोज्योतिष्मत्यां श्रीकुमारनामा पुत्रोऽभवत् । सनिदानं च तप: कृत्वा विपद्य तव पूर्वजन्मसुहृदहं चमरेन्द्रोऽभवम्' । इत्याख्याय स मह्यं शूलं ददौ । यदेतदायोजनद्विसहस्याः कार्यं कृत्वा निवर्त्तते । रावणश्च तच्छ्रुत्वा तस्मै मधुकुमाराय मनोरमां नाम कन्यां ददौ । ९२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः महापुरे राजपुत्रः सुमित्रः कुलपुत्रकः प्रभवश्च वसन्तकामदेवाविव मित्रे अभूताम् । तौ च बाल्ये एकस्य गुरोः पार्वे कला जगृहतुः। अश्विनाविव सह चिक्रीडतुश्च । यौवनं प्रपन्नः सुमित्रश्च तन्नगरे नृपोऽभवत् । तेन च स्वमित्रं प्रभवो महर्द्धिको विदधे । एकदा च स नृपस्तुरङ्गेण हृतो महाटवीं प्राप्तः पल्लीपतिसुतां वनमालां परिणीय तामादाय स्वपुरं समायातवान् । रूपयौवनशालिनीं तां प्रेक्ष्य च प्रभवः कामार्त्तः कृष्णपक्षे चन्द्र इव दिने दिने कृशो जज्ञे । नृपेण साग्रहं तत्कारणं पृष्टश्च वनमालानुरागो मे दौर्बल्यकारणमित्यवोचत् । ततो राजोचे-'त्वदर्थे राज्यमपि सन्त्यजामि, किं पुनर्वनमालाम् ? इयमद्यैव गृह्यताम्' । इत्युक्त्वा तं विसृज्य तस्याऽनुपदमेव तां वनमालां रात्रौ तद्गृहे प्रेषीत् । सा तत्र गत्वा चोचे-'राज्ञा तुभ्यं दत्ताऽस्मि, मम भर्त्ता त्वदर्थे प्राणानपि विमुञ्चति'। ततः प्रभव उवाच-'धिङ् मां निर्लज्जं, स खलु महासत्त्वः । यस्य मयीदृशं प्रेम । परस्मै प्राणा अपि दीयन्ते न पुन: प्रिया । तेनाऽद्य मत्कृते दुष्करं कृतं, त्वं मम माताऽसि, गच्छ, नाऽतः परं पापराशि मां पत्याज्ञयाऽपि भाषस्व' । राजा च गुप्तं तत्राऽऽगत्य तद्वचोऽशृणोत्। तथा सुहृदो भावमालोक्य जहर्ष च । प्रभवश्च वनमालां नमस्कृत्य विसृज्य च खड्गमाकृष्य स्वशिरश्छेत्तुमारेभे । ततः सुमित्रः प्रकटीभूय साहसं मा कृथा इति वदन् तस्य करात् कृपाणमपाहार्षीत् । लज्जानम्रमुखः प्रभवश्च कथञ्चन स्वस्थतामानीतः । ततस्तौ प्राग्वद् मैत्रीपरायणौ चिरं राज्यं चक्रतुः । सुमित्रश्च मृत्वेशानसुरोऽभवत् । ततश्च स च्युत्वा मथुरेशस्य हरिवाहणस्य मधुर्नाम माधवीकुक्षिजः पुत्रोऽभूत् । प्रभवोऽपि च अथ लङ्काप्रयाणदिवसादष्टादशसु वर्षेषु स रावणो मेरौ पाण्डके चैत्यान्यचितुमगात् । तत्र च समहोत्सवं चैत्यान्यभ्यवन्दत। तदाज्ञया च कुम्भकर्णाद्या दुर्लङ्घनगरे इन्द्रदिक्पालं नलकुबरं ग्रहीतुं ययुः । स नलकुबरश्चाऽऽशालीविद्यया स्वपुरे योजनशतप्रमाणं वह्निमयं प्राकारं व्यधात् । तथा तत्राऽग्निमयान्येव यन्त्राणि चक्रे । तं च प्राकारमाश्रित्य वह्निकुमारवत् कोपाद् दीप्तो भटैः परिवृतो नलकुबरस्तस्थौ । कुम्भकर्णाद्याश्च तत्रैत्य ग्रीष्ममध्याह्नसूर्यमिव तं द्रष्टुमपि नाऽशकन् । ततो दुर्लङ्घयमेतद् दुर्लङ्घपुरमिति निवृत्य भग्नोत्साहा रावणाय व्यजिज्ञपन् । ततस्तत्र स्वयमागत्य रावणस्तं प्राकारं प्रेक्ष्य सबान्धवस्तद्ग्रहणोपायं चिरं चिन्तयामास । अथ नलकुबरपत्नी तं दृष्ट्वाऽनुरक्तोपरम्भा दूतीं प्रेषीत् । सा चैत्य रावणमब्रवीत्-'मूर्ती जयश्रीरिवोपरम्भा त्वय्यनुरक्ताऽस्ति, सा त्वद्गुणैर्हतचित्ता त्वामेव चिन्तयति । सा वप्रस्य रक्षिकामाशालीविद्यामात्मानमिव त्वदधीनां करिष्यति । तथा तया कृत्वा नलकुबरसहितमिदं पुरं ग्रहीष्यसि । सुदर्शनं नाम दैवं चक्रमपि तेऽत्र सेत्स्यति' । ततः सहासं रावणेनाऽवलोकितो विभीषण एवमस्त्वित्युक्त्वा तां विससर्ज ।

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129