Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
९०
सप्तमं पर्व - द्वितीयः सर्गः
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः दारुणान् बहून् रोगान् विचक्रे । सगरोऽपि च लोकविश्वासात् पर्वतमाश्रयत् । सोऽपि चाऽसुरेण सह सर्वेषां व्याधिशान्ति व्यधात् । ___अथ सोऽसुरः-'सोत्रामण्यां यज्ञे विधिपूर्वकं मदिरापानं न दुष्यति, गोसवाख्ये यज्ञेऽगम्यागमनं कार्यम् । मातृमेधे मातुः, पितृमेधे च पितुर्वधो विधातव्यः, तत्र दोषो न विद्यते । अग्नि स्थापयित्वा कूर्मस्य पृष्ठे जुह्वकहविषा स्वाहेत्युक्त्वा प्रयत्नतः तर्पयेत् । यदा कूर्म न प्राप्नुयात् तदा शुद्धविप्रस्य खल्वाटस्य पिङ्गवर्णस्य क्रियारहितस्य मुखं यावच्छुद्धजलेऽवतीर्णस्य कूर्माभे मस्तकेऽग्नि प्रदीप्य जुहुयात् । भूतं भविष्यच्च सर्वं पुरुष एवेदम्। स मोक्षस्येश्वरः । एवं च पुरुष एक एवेति न कोऽपि केनाऽपि हन्यते । तस्माद् यज्ञे यथाऽभीष्टं प्राणिवधः कुर्यात् । तथा यज्ञे मांसस्य भक्षणं कर्त्तव्यम् । एवमादि समुपदिश्य च सगरं स्वमते स्थापयित्वा कुरुक्षेत्रादिषु स यज्ञानकारयत् । तथा स राजसूयादीनपि यज्ञानकार्षीत् । असुरश्च स यज्ञहतान् विमानस्थानदर्शयत् । ततो जातिविश्वासो लोकः पर्वतस्य मते स्थितो निःशर्षं प्राणिवधात्मकान् यज्ञानकरोत् । ___अथ तत् सम्प्रेक्ष्याऽहं दिवाकर विद्याधरमवोचम्-'त्वया यज्ञे सर्वे पशवोऽपहर्त्तव्याः' । स च मद्वाचं स्वीकृत्य तथा चक्रे । परमाधार्मिकश्च सोऽसुरस्तज्ज्ञात्वा दिवाकरविद्याविफलीकरणार्थमृषभप्रतिमां तत्राऽस्थापयत् । तेन च स विद्याधरस्तत उपरतवान् । ततोऽहमपि निरुपायस्तूष्णीमन्यत्राऽगाम् । सोऽसुरश्च मायया सगरं यज्ञेषु भावयित्वा सुलसायुक्तं तं यज्ञानले हुत्वा कृतकृत्यः स्वं स्थानं जगाम । एवं पर्वताद द्विजैहिंसात्मका यज्ञा अक्रियन्त. ते च त्वयैव निषेध्याः' ।
अथ रावणस्तद्वाचं स्वीकृत्य नारदं प्रणम्य मरुत्तात् क्षमयित्वा तं विससर्ज । मरुत्तश्च नत्वा रावणमवोचत्-'कोऽयं कृपालुर्योऽमुष्मात् पापात् त्वया कृत्वाऽस्मानवारयत्' । ततो रावणो जगाद-'ब्रह्मरुचिर्द्विज आसीत् । तस्य च तापसस्य भार्या कूर्मी गर्भवती जाता । तत्रैकदा समागतेषु साधुष्वेकोऽब्रवीत्-'भवभीत्या यद्गृहवासस्त्यक्तस्तत् साधु साधु । पुनश्च स्वदारसहितस्य विषयाधीनस्य तव वने वासो गृहवासात् कथं विशिष्यते ?' तच्छ्रुत्वा ब्रह्मरुचिर्जिनशासनं प्रपद्य तदैव प्राव्रजत् । सा च कूर्मी श्राविका जाता । आश्रमे वसन्ती च सा रोदनादिरहितं नारदं सुतं सुषुवे ।
एकदा तस्यामन्यत्र गतायां जृम्भकामरास्तं जगृहुः । ततः सा पुत्रशोकादिन्दुमालापार्वे प्राव्रजत् । ते देवाश्च तं पालयामासुः । शास्त्राण्यध्यापयन् । क्रमेण च तस्मा आकाशगामिनी विद्यां ददुः । स नारदश्चाऽखण्डव्रतधरो, मनोहरं यौवनं प्राप्तः, शिखाधारणात् संयतगृहस्थोभयलक्षणहीनः, कलहप्रेक्षणोत्सुको, गीत-नृत्यकुतूहली, कामचेष्टादिषु वत्सलो, वीराणां कामुकानां च सन्धिविग्रहयोनिपुणच्छत्राक्षमालासनपाणिः, पादुकारूढो, देवपालितत्वाद् देवर्षिरिति प्रथितः, प्रायेण ब्रह्मचारी, स्वेच्छाचारी नारद एषः' । एवमुक्तवन्तं रावणं स मरुत्तो यज्ञसम्भवमज्ञानात् कृतं निजमपराध क्षमयामास । तथा कनकप्रभा नाम निजां कन्यां रावणाय ददौ । ____ अथ रावणस्तामुद्वाह्य मथुरां नगरी जगाम । तत्र हरिवादनो नृपो मधुना पुत्रेण सह तमुपतस्थे । ततश्च प्रीतो रावणस्तमपृच्छत्'भवत्पुत्रस्येदं शूलमायुधं कुतः' । तत: पित्रा भूसंज्ञयाऽऽदिष्टो मधुरुवाच-'इदं मे प्राग्जन्मसुहृदा चमरेन्द्रेणाऽर्पितम्' । चमरेन्द्रश्च समर्पयद् मामवोचत्-'धातकीखण्डे ऐरावतक्षेत्रे शतद्वाराख्ये

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129