Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 58
________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तेन च क्रुद्धो रावणो विभीषणमुवाच-'त्वया कुलविरुद्धमिदं कि स्वीकृतम् ? अस्मत्कुलभवैः परस्त्रीणां द्विषां पृष्ठमिव कदाऽपि हृदयं नाऽर्पितम् । त्वयाऽयं नवीन: कुलकलङ्कः कृतः । केयं तव मतिर्जाता येनेत्थमब्रवीः' । ततो विभीषण उवाच'आर्य ! प्रसीद, विशुद्धचित्तानां वाङ्मात्रं दोषाय न भवति, सा समायातु, तुभ्यं विद्यां प्रयच्छतु, शत्रुश्योऽस्तु तां न भजेथाः, वाचोयुक्त्या तां परित्यजे:' । तदानीमेव चोपरम्भा रावणं तत्सङ्गमोत्कण्ठिता समागात् । तथा तस्मै आशालिकां विद्याममोघानि व्यन्तराधिष्ठितानि शस्त्राणि च ददौ । रावणश्च तया विद्ययाऽग्निप्राकारं तं संहृत्य सबलवाहनो दुर्लङ्घपुरं प्रविश्य रणायोत्थितं नलकुबरं विभीषणेन कृत्वा वशगं विदधे । तथा सुदर्शनं नाम चक्रं तत्र प्राप्य पुनर्नलकुबराय तत्पुरं दत्त्वोपरम्भामुवाच-'भद्रे ! निजं पति मयि विनयिनं भज । त्वं विद्यादानाद् मम गुरुरिवाऽसि । अहं चाऽन्या अपि परस्त्रियः स्वस्य मातृवत् पश्यामि । त्वं च पुनः कामध्वजस्य सुन्दरीसम्भवा पुत्र्यसि, कुलद्वयकालुष्यकरस्तव कलङ्को माऽस्तु' । एवमुक्त्वा तां नलकबराय समर्पयामास । नलकुबरेण च पूजितः स रावणः सेनाभी रथनूपुरं नगरं प्रति प्रतस्थे । ____ अथ तमायान्तं श्रुत्वा सहस्रारः सुतमिन्द्रं सस्नेहमवोचत्'त्वया महौजसाऽन्यवंशोत्कर्षमपहत्याऽस्माकं वंशः परोत्कर्ष प्रापितः । त्वया चैकेनैव विक्रमेणैवमनुष्ठितम् । सम्प्रति च नीत्या त्वया वर्त्तितव्यम् । विक्रमो हि क्वाऽपि विपदे क्वाऽपि च नाशायाऽपि जायते । वसुन्धरा हि बहुरत्ना । तस्मादहमेवौजस्वीत्यहङ्कारं मा कृथाः । सम्प्रति जगति स्वगुणैः ख्यातो रावणः सपरिवारः सप्तमं पर्व - द्वितीयः सर्गः ससैन्यश्च समुपस्थितोऽस्ति । स च नम्रतयाऽनुकूलनीयः । तस्मै इमां रूपवतीं सुतां प्रयच्छ । तत्सम्बन्धाच्च तेनोत्तमः सन्धिर्भविष्यति' । ___ एवं पितृवचः श्रुत्वा कुप्यन्निव सोऽवोचत्-निजा कन्या कथमस्मै दीयते ? अनेन नाऽऽधुनिकं वैरं किन्तु कुलक्रमागतम् । तत्पक्ष्यहि तातो विजयसिंहो हतः, तत् स्मर । एतत्पितामहस्य मालिनो यद् मया कृतं तदस्याऽपि करिष्यामि, एष समायातु । स्नेहात् कातरो मा भूः, धैर्यमाश्रय, किं स्वसूनोर्मम पराक्रमं न वेत्सि'। तस्यैवं कथयत एव रावणः समेत्य सेनाभी रथनूपुरं परिवेष्टयामास । तथा रावणेन प्रेषितो दूत: समेत्योवाच-'पराक्रमशीलै: सर्वैरेव नृपै रावणः पूजितः । साम्प्रतं तव भक्तिकालः । तद्भक्ति स्वशक्ति वा दर्शय, अन्यथैवमेव विनक्ष्यसि । तत इन्द्र उवाच-'दुर्बलै राजभिः पूजितो मत्तो रावणो मत्सकाशादपि पूजां वाञ्छति ? याहि, स्वस्वामिनो भक्ति शक्ति वा मयि दर्शय, अन्यथैवमेव विनक्ष्यसि' । दूतेन तज्ज्ञात्वा क्रुद्धो रावणः सन्नह्य समाययौ । इन्द्रोऽपि च सन्नह्य पुराद् निर्ययौ । द्वयोः सैन्ययोश्च दारुणे युद्धे प्रवृत्ते रावण इन्द्रेणैरावणस्थेन योद्धं प्रावृतत् । द्वयोश्च तुमुले युद्धे प्रवृत्ते छलविद् रावणो निजगजादुत्प्लुत्यैरावणं प्राप्य तन्महामात्रं हत्वेन्द्रं बबन्ध । शक्रे च गृहीते तत्सैन्यं सर्वतो विदुद्राव । रावणश्चेन्द्रं सैरावणं स्वशिबिरे निनाय। स्वयं च द्वयोः श्रेण्यो यको जातः । अथ रावणस्ततो निवृत्त्य लङ्कामगात् । इन्द्रं च शुकं पञ्जर इव कारायामक्षिपत् । तत: सदिक्पालः सहस्रारो लङ्कायामेत्य नमस्कृत्य बद्धाञ्जलिर्दशमुखमभाषिष्ट-'य: कैलासमप्युद्दधार, ततो

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129