Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 60
________________ तृतीयः सर्गः अथ वैताढ्यपर्वते आदित्यपुरनगरे प्रह्लादनामनृपस्य केतुमत्यां भार्यायां पवन इव बलवान् गगनगामी च पञ्ज नाम पुत्रो बभूव । इतश्चाऽत्रैव भरते उपसमुद्रं दन्तिपर्वते महेन्द्रनगरे महेन्द्रो नाम नृपो बभूव । तस्य च हृदयसुन्दर्यां भार्यायामरिन्दमादयः शतं पुत्रा अञ्जनसुन्दरी पुत्री च बभूवुः । प्राप्तयौवनायास्तस्या वरार्थं चिन्तितं नृपं मन्त्रिणो विद्याधरयूनां रूपाणि पृथक् पृथक् पटेष्वालिख्याऽऽनाय्य च दर्शयामासुः । तेषु विद्याधरेन्द्रस्य हिरण्याभस्य सुमनः कुक्षिजन्मानं पुत्रं विद्युत्प्रभं प्रह्लादपुत्रं पवनञ्जयं च दृष्ट्वा 'रूपवतोरनयोः कुलीनयोः क उत्तमो वर' इति राज्ञा पृष्टोऽमात्य उवाच- 'एष विद्युत्प्रभोऽष्टादशवर्षायुर्मोक्षं गमी ति नैमित्तिकाः कथयन्ति स्म, तथा पवनञ्जयश्च दीर्घायुः । तस्मादेष एव वरो योग्य:' । अत्रैवाऽवसरे सर्वे विद्याधरेन्द्रा यात्रायै नन्दीश्वरं द्वीपं ययुः । तत्र च प्रह्लादोऽञ्जनसुन्दरीं प्रेक्ष्य 'मत्सुताय पवनञ्जयायैषा प्रदीयतामि'ति महेन्द्रमुवाच । महेन्द्रोऽपि पुरैव चिन्तितं तत् स्वीकृतवान् । ततश्चेतस्तृतीये दिवसे मानसाख्ये सरोवरे विवाहोत्सवः सम्पाद्य इति निश्चित्य तौ स्वस्वस्थानं जग्मतुः । सप्तमं पर्व तृतीयः सर्गः ततस्तौ महेन्द्र - प्रह्लादौ सपरिच्छदौ सानन्दौ मानसं प्राप्याऽऽवासं चक्रतुः । तत्र च पवनञ्जयो मित्रं प्रहसितं पप्रच्छ'किं त्वयाऽञ्जनासुन्दरी दृष्टा ? सा कीदृशी ? तद् ब्रूहि' । सोऽपि चेषद् विहस्योवाच- 'सा मया दृष्टा सा रम्भादिभ्योऽप्यतिशेते । तस्या निरूपमं रूपं वक्तुं न शक्यते । ततः पवनञ्जयस्तमुवाच'विवाहकालो दूरे, तर्हि कथं मयाऽद्य स द्रष्टव्या ? तां द्रष्टुमहं न कालक्षेपं सोढुं समर्थोऽस्मि । ततः प्रहसित उवाच - 'शान्तो भव । तत्र रात्रावेत्याऽनुपलक्षितस्तां द्रक्ष्यसि । ततः प्रहसितेन सह पवनञ्जय उत्पत्याऽञ्जनासुन्दर्या अधिष्ठिते सप्तभूमिके प्रासादे चर इव गुप्तोऽञ्जनसुन्दरीं द्रष्टुमारेभे । तदानीमेव च वसन्ततिलका नाम सखी तामुवाच- 'त्वं धन्याऽसि, यत् पवनञ्जयं पतिं प्राप'। ततो मिश्रका नाम सख्युवाच'हले ! चरमशरीरं विद्युत्प्रभं विहाय कोऽन्यो वरः श्लाघ्यः ?' ततः स्वल्पायुर्वरो न श्लाघ्य' इति तया प्रत्युक्ता सा पुनरुवाच'त्वं मन्दबुद्धिरसि, स्वल्पमप्यमृतमेव श्रेयः । न तु विषस्य भारोऽपि ' । तयोरेवमालापं श्रुत्वा पवनञ्जयो दध्यौ - 'नूनमस्या इदं प्रियं कथमन्यथा न निषेधति ?' ततश्च क्रुद्धः सोऽसिमाकृष्य प्रकटीभूय ‘ययोर्द्वयोर्विद्युत्प्रभः प्रियस्तयोः शिरश्छिद्मीति मनसिकृत्य चलितं तं बाहौ गृहीत्वा प्रहसितोऽवदत्- 'साऽपराधाऽपि स्त्री गौरिवाऽवध्या । इयं चाऽनपराधा । यतो ह्रिया नैते निषेधति । एवं तेन निषिद्धः स निजावासमुपेत्य दुःखितस्तस्थौ । प्रातश्च प्रहसितमुवाच-‘मित्र ! अनयोढयाऽलम् । यतो भृत्योऽपि विरक्तो न श्रेयसे, प्रियाया: किं वक्तव्यम् ? तदेहि, स्वपुरीं गच्छावः' । एवमुक्त्वा यावत् स प्रतस्थे तावत् प्रहसितस्तं धृत्वाऽबोधयत्

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129