Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 55
________________ E ८८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्वां सत्यप्रसिद्धिमुपेक्ष्य स वसुरजान् मेषान् गुरुराख्यदिति साक्ष्य व्यधात् । तस्याऽसत्यवचसा क्रुद्धाश्च देवतास्तदैव तस्याऽऽकाशस्फटिकवेदिकां चूर्णयामासुः । वसुश्च ततः सद्यः पृथिव्यां पपात । घोरं नरकं च जगाम । वसोः सुताश्च पृथुवसुश्चित्रवसुर्वासवः शक्रो विभावसुविश्वावसुः सूरो महाशूरश्चाऽष्टौ पैतृके पदे निषण्णाः देवताभिः कोपतस्तत्कालमहन्यन्त । ततो नवमः सुवसुनंष्ट्वा नागपुरं ययौ । दशमश्च वसुपुत्रो बृहद्ध्वजो मथुरां ययौ । पौरैश्च बहुधा हसित्वा निर्वासितः स महाकालासुरेण सजगृहे । ततः कोऽयं महाकाल इति रावणेन पृष्टो नारदोऽब्रवीत्'अत्र चारणयुगलं पुरमस्ति । तत्राऽयोधनो नृपस्तत्पत्नी दितिस्तयोश्च सुता सुलसा बभूवुः । पित्रा च तस्याः स्वयंवरे समाहूताः सर्वे पार्थिवाः समाययुः । तेषु सगरोऽधिको बभूव । सगरस्याऽऽज्ञया च द्वारपालिका मन्दोदरी प्रतिदिनमयोधननृपावासं जगाम। एकदा च सुलसया समं दितिगृहोद्याने कदलीगृहमविशत् । तदैव तत्र मन्दोदरी चाऽपि समाययौ । तयोश्च वचः श्रोतुकामा सा लतान्तरिता तस्थौ । तदानीं च दितिः सुलसां जगौ-'वत्से ! अस्मिन् स्वयंवरे मम मनःशल्यमस्ति, तदुद्धारश्च त्वदधीनः, तन्मूलतः श्रृणु-ऋषभस्वामिनो भरत-बाहुबली पुत्रावभूताम् । तयोश्च सूर्य-सोमौ पुत्रौ । तत्र सोमवंशे मम भ्राता तृणबिन्दुरजायत । सूर्यवंशे च तव पिताऽयोधनो नृपः । अयोधनस्वसा च सत्ययशा तृणबिन्दो र्याऽभूत् । तयोः सुतश्च मधुपिङ्गः । तस्मै प्रदीयमानां त्वामिच्छामि, तव पिता च त्वां स्वयंवरवराय प्रदित्सते, न जाने त्वं कं वृणोषि ? तदेतद् मम मनःशल्यम् । सप्तमं पर्व - द्वितीयः सर्गः त्वया राजमध्ये मद्भातृज एव वरणीयः' । सुलसाऽपि च तत् प्रत्यपद्यत । मन्दोदरी च तच्छ्रुत्वा सगरभूपतेराख्यत् । सगरेण समादिष्टस्तत्पुरोधा विश्वभूतिः सद्य: कविपलक्षणसंहितां चक्रे । तत्र च स तथोचे-येन समस्तै राजलक्षणैर्युक्त: सगरो हीनस्तु मधुपिङ्गलो जायते । तत्पुस्तकं च पुराणवत् पेटायां प्रक्षिप्य राजपर्षदि नीतम् । तत्राऽऽदौ सगरस्तत्पुस्तके वाच्यमानेऽवोचत्-'यो लक्षणहीनो भवेत् सोऽखिलैर्जनैस्त्याज्यो वध्यश्च' । ततो यथा यथा पुरोहितस्तत्पुस्तकमवाचयत तथा तथाऽपलक्षणः स मधुपिङ्गलोऽलज्जत । लज्जामसहिष्णुश्च स ततो निर्ययौ । सुलसा च सगरमवृणोत् । तयोश्च सद्यो विवाहे जाते सर्वे स्वं स्वं स्थानं ययुः । ___अथ मधुपिङ्गोऽपमानाद् बालतपो विधाय मृतो महाकालनामा षष्टिसहस्रशोऽसुरोऽभवत् । अवधेश्च सगरस्य सुलसायाः स्वयंवरे निजापमानकारणं छलं ज्ञात्वा 'सगरमन्यांश्च नृपान् हन्मी'ति सङ्कल्प्य छिद्रान्वेषी स शुक्तिमतीनद्यां पर्वतकमैक्षत । ततो विप्रवेषो गत्वा स तमुवाच-'महामते ! अहं शाण्डिल्यो नाम त्वत्पितुर्मित्रमस्मि, अहं क्षीरकदम्बश्च पुरा गौतमोपाध्यात् सहैवाऽपठाव । जनश्रुत्या नारदेन त्वां तिरस्कृतं श्रुत्वाऽऽगतोऽस्मि। मन्त्रैः सर्वं विमोहयन् त्वत्पक्षं समर्थयिष्यामि' । एवमुक्त्वा स पर्वतकेन सह कुधर्मेणाऽखिलं जनं दुर्गतौ पातनाय मोहयामास । स सर्वत्र लोके व्याध्यादिदोषानजनयत् । पर्वतमतानुयायिनं च निर्दोष चकार । तस्य शाण्डिल्यस्याऽऽज्ञया स पर्वतश्चाऽपि लोकानां व्याधिशान्ति व्यधात् । एवमुपकृत्योपकृत्य स जनं स्वमतेऽस्थापयत् । तथा सोऽसुरः सगरस्याऽप्यन्तःपुरे सपरिच्छदे

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129