Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 53
________________ ८४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सर्वप्राणिरक्षणं दक्षिणा, त्रिरत्नी त्रिवेदिरि'ति वेदोदितः क्रतुः कृतो योगविशेषेण मुक्तिसाधनं भवति । ये क्रव्यादतुल्याश्छागवधादिना यज्ञं कुर्युस्ते घोरे नरके तिष्ठेयु: । त्वमुत्तमे वंशे समुत्पन्नोऽसि, बुद्धिमानुद्धिमांश्चाऽसि । तस्माद् व्याधोचितादस्मात् पापाद निवर्तस्व। यदि प्राणिवधैः स्वर्गो लभ्यते, तहल्पैरेव दिनैरयं लोकः शून्यो भवेत्' । एवं मम वचः श्रुत्वा क्रुद्धा द्विजा दण्डपाणय उत्तस्थुः । तैस्ताड्यमानेन मया नश्यता प्राप्तोऽसि, त्वदवलोकनादहं त्रात एव, तान् निरागस: पश्यन् वध्यमानांस्रायस्व' । तच्छ्रुत्वा विमानादवतीर्णो रावणस्तेन नृपेण पूजितः क्रुद्धो मरुत्तनृपमुवाच-'अरे ! नरकाभिमुखैः किमेष क्रतुः क्रियते ? अहिंसातो धर्मः प्रोक्तः । तस्माल्लोकद्वयारिं यज्ञं मा कार्षीः, यदि करिष्यसि, तीह ते वासो मम कारागारे परत्र च नरके' । ततो मरुत्तः सद्यो मखं विससर्ज। ततोऽमी ह्यध्वर्यवः कुतो जज्ञिरे इति रावणेन पृष्टश्च नारदोऽब्रवीत्-'शुक्तिमत्याख्यया नद्या शोभिता दिक्षु प्रसिद्धा शुक्तिमती पूरस्ति । मुनिसुव्रतादनेकेषु भूपेषु गतेषु तस्यामभिचन्द्रो नाम नृपोऽभवत् । तस्य चाऽभिचन्द्रस्य पुत्रो वसुनामा सत्यवादी क्षीरकदम्बकस्य गुरोः पार्वे तत्सुतः पर्वतकोऽहं च त्रयोऽपठाम । पाठश्रमाद् निश्यस्मासु सुप्तेषु चारणश्रमणौ व्योम्नि यान्तावूचतुः-'एषामेकतमः स्वर्गमपरौ च नरकं यास्यन्ति' । क्षीरकदम्बकस्तच्छ्रुत्वा दध्यौ-'मय्यप्यध्यापके सति शिष्यौ नरकं यास्यतः ? महाखेदकरमेतत् । एभ्यश्च को दिवं कौ च नरकं यास्यन्ति ?' सप्तमं पर्व - द्वितीयः सर्गः एवं जिज्ञासुः सोऽस्मांस्त्रीन् युगपदाह्वयत् । तथाऽस्माकमेकैकं पिष्टकुक्कुटं समोवाच-'यत्र कोऽपि न पश्यति तत्राऽमी वध्या:" । ततो वसु-पर्वतको शून्यप्रदेशयोर्गत्वा स्वहितां गतिमिव पिष्टकुक्कुटो जघ्नतुः । अहं तु नगराद् बहिर्दूरतरं प्रदेश गत्वा विजने देशे स्थित्वा दिशः प्रेक्ष्याऽतर्कयम्-'यथा कोऽपि न पश्यति तथा वध्य इति गुरुणोपदिष्टः, किन्त्वहं पश्यामि, तथाऽमी खेचरा पश्यन्ति, लोकपाला ज्ञानिनश्च पश्यन्ति । नास्त्येव तादृशं स्थानं यत्र कोऽपि न पश्यति । तद्गुरुगिरामेतत्तात्पर्य यत् कुक्कुटो न वध्य इति । यतो गुरुपादा दयावन्तः सदा हिंसापराङ्मुखाश्च । तदस्मत्प्रज्ञा प्रज्ञातुमेवेत्थमुपादिशन' । एवं विमश्य कुक्कुटमादायाऽहमागमम् । कुक्कुटाहनने हेतुं च गुरोर्व्यज्ञपयम् । ततोऽयं स्वर्ग यास्यतीति निश्चित्य गौरवाद् गुरुभिरहमालिङ्गितः । वसु-पर्वतकौ च पश्चादागत्योचतुः-'यत्र कोऽपि न पश्यति, तत्र कुक्कुटौ निहतौ । ततो गुरू 'रे पापौ ! युवामपश्यतं खेचरादयोऽपश्यन्, तत्कथं कुक्कुटौ निहतावित्यशपत् । ततश्च खेदादुपाध्यायो दध्यौ-'वसु-पर्वतयोर्मेऽध्यापनक्लेशो मुधाऽभूत् । गुरूपदेशो हि यथापात्रं परिणमेत् । प्रिय: पर्वतकः पुत्रस्ततोऽप्यधिको वसुश्च नरकं यास्यतः । ततो मम गृहवासेनाऽलम्' । एवं निर्वेदादुपाध्यायः प्रव्रज्यामग्रहीत् । व्याख्याविचक्षणः पर्वतकश्च तत्पदमध्यास्त । अहं च गुरुप्रसादेन सर्वशास्त्रविशारदो भूत्वा निजं स्थानमगमम् । अभिचन्द्रो नृपश्च समये व्रतमग्रहीत् । तत्पुत्रो वसुश्च राजाऽभवत् । स च पृथिव्यां सत्यवादीति प्रसिद्धि प्राप । स तां प्रसिद्धि रक्षितुं सत्यमेव जगाद।

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129