Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 51
________________ ८० सप्तमं पर्व - द्वितीयः सर्गः नाऽऽप । तारायां रममाणस्य सुग्रीवस्य चाऽङ्गद-जयानन्दौ द्वौ पुत्रौ बभूवतुः । तारायामनुरागवान् साहसगतिश्च कामार्त्तश्चिन्तयामास-'बलेनाऽपि च्छलेनाऽपि च तां हर्ताऽस्मि' । एवं विचिन्त्य रूपपरिवर्तिनी शेमुषी विद्यां साधयितुं क्षुद्रहिमवगिरिगुहान्तरं गत्वा तां साधयितुमारेभे । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः भुजवीणामवादयत् । तस्मिन् ग्रामरागरम्यमुपवीणयति सप्तस्वरमनोरममन्तःपुरे गायति च चैत्यवन्दनयात्रायै समागतो धरणेन्द्रोऽर्हतां पूजां विधायाऽवन्दत । तं च रावणं वीणया श्रुतिमधुरं गायन्तं वीक्ष्याऽवदत्-'नन्वर्हद्गुणस्तुतिमयमिदं गीतं साधु निजभावानुरूपं च, तेन ते तुष्टोऽस्मि, यद्यप्य«द्गुणस्तुतेर्मुख्यं फलं मोक्षस्तथाऽप्यहमजीर्णवासनस्तुभ्यं किं यच्छामि ? वृणीष्व । ततो रावण उवाच-'यदि जिनस्तवैस्तुष्टोऽसि, सा तवस्वामिभक्तिः । यथा च ददानस्य तव सा प्रकृष्यते तथा ममाऽऽददानस्य साऽपकृष्यते' । ततो नागेन्द्रः पुनरुवाच-'तवाऽनया निराकाङ्क्षतया विशेषतस्तुष्टोऽस्मि' । एवमुक्त्वा रावणाय सोऽमोघविजयां रूपविकारिणीं विद्याशक्ति दत्त्वा निजाश्रयमगात् । रावणोऽपि तीर्थनाथान् नमस्कृत्य नित्यालोकपुरं गत्वा रत्नावली परिणीय लङ्कामाययौ । अथ तदानीमेव वालिनोऽपि केवलज्ञानमुत्पेदे । सुराऽसुरैश्च केवलज्ञानमहिमा विदधे । क्रमेण च भवोपग्राहिणां कर्मणां क्षयात् सिद्धानन्तचतुष्टयः सोऽपुनर्भवमगात् । इतश्च वैताढ्ये ज्योतिष्पुरपुरे ज्वलनशिखो नाम विद्याधरेश्वरो बभूव । तस्य श्रीमत्यां देव्यां तारा नाम दुहिता जज्ञे । तां चैकदा चक्राङ्कविद्याधरनृपात्मजः साहसगतिर्दृष्ट्वा कामातॊ दूतैर्व्वलनं तां याचयाञ्चके । वानरेन्द्रः सुग्रीवश्चाऽपि तां तं याचयाञ्चक्रे । स ज्वलनशिखश्च कस्मै कन्या दीयते इति संशयापन्नः पृष्टेन नैमित्तिकेन-'अल्पायुः साहसगतिर्दीर्घायुश्च सुग्रीव' इति ज्ञात्वा सुग्रीवाय तां ददौ । ततः साहसो मनोरथच्छेदात् क्वाऽपि निवृत्ति __ इतश्च लङ्कायाः पुर्या दिग्यात्रायै निर्गतो दशमुखो विद्याधरेन्द्रान् नरेन्द्रांश्च वशीकृत्य पाताललङ्कां प्राप्य चन्द्रणखाभर्ना खरेणोपायनादिभिः पूजितस्तेनैव सह चेन्द्रजिगीषया चतुर्दशभिविद्याधरसहस्रैः परिवारितश्चचाल । सुग्रीवोऽपि च ससैन्यो वायोरग्निरिव रावणस्याऽनुचचाल । अस्खलद्गतिः प्रयाणं कुर्वश्च रेवां नाम नदीं दृष्ट्वा तस्यास्तटे ससैन्य उवास । तथा तस्यां नद्यां स्नात्वा वस्त्रादि परिधायाऽर्हबिम्बं मणिमये पट्टे न्यस्य रेवाजलैः स्नपयित्वा कमलैः पूजयितुमारेभे । पूजातत्परस्य स्थितवतस्तस्याऽकस्मादब्धिवेलेव महापूरः समाययौ । वेगादागतं सपर्क फेनिलं च तत्पूरवारि रावणस्याऽर्हत्पूजामपानैषीत् । तेन जातकोपः 'केन पूजान्तरायकारीदं वार्यमुच्यते'ति जगाद । ततः कश्चिद् विद्याधरः समाचख्यौ-'इतः पुरस्ताद् माहिष्मती पूर्यस्ति । तस्यां सहस्रांशुनामा नृपोऽस्ति । स रेवायां सेतुबन्धेन जलक्रीडोत्सवकृते वारिबन्धं व्यधात् । स करेणुभिः करीव राज्ञीसहस्रेण समं वारिभिः क्रीडति । तस्याऽऽत्मरक्षाश्च लक्षसङ्ख्या द्वयोस्तीरयोः सवमिता उदस्त्राश्च तिष्ठन्ति । तस्योजितैर्जलक्रीडाकराघातैर्जलदेवीभिर्जलजन्तुभिश्च क्षुभितं पलायितम् । इदं च

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129