Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः दातव्या, स चेत् स्वयं वरं वृणीते, तत् साधु । दूषणाग्रजः खरश्चन्द्रणखाया अनुरूपो वरः, स हि विक्रमी तव पत्तिभिरदूषणो भविष्यति। तत्प्रधानपुरुषान् प्रेष्य तया सह तमुद्वाह्य तस्मै पाताललङ्कां देहि, प्रसन्नतां धेहि' । एवमवरजाभ्यामप्युक्तो युक्तविचारकृत् स मय-मारीचौ प्रेषयित्वा तेन तां पर्यणाययत् ।
ततः स खरो रावणशासनं दधत् पाताललङ्कायां चन्द्रणखया समं निर्विघ्नं भोगान् बुभुजे । खरेण निर्वासिते चन्द्रोदरे कालाद् मृते चाऽनुराधा नाम तत्पत्नी नंष्ट्वा गर्भिणी वनमगात् । वने च सा सिंही सिंहमिव नयादिगुणयुतं विराधं नाम सुतमसूत । सर्वकलाकुशलः सम्प्राप्तयौवनः सोऽप्रतिहतगति: पृथिवीं विजहार ।
सप्तमं पर्व - द्वितीयः सर्गः
तच्छृत्वा क्रूद्धोऽपि महामना वाली स्वस्थो गम्भीरगिरा व्याजहार-'अद्य यावद् रक्षो-वानरकुलयोरखण्डितं स्नेहसम्बन्धं जानामि । यच्च पूर्वे सम्पद्यापदि चाऽन्योन्यं साहायकं व्यधस्तत्र स्नेहो निमित्तं, न तु सेव्य-सेवकभावः । अहं च देवं सर्वज्ञम र्हन्तं सुगुरुं साधं च विना नाऽन्यं सेव्यं जानामि । ततः त्वत्स्वामिन एष मोह एव । अद्य हि तेन स्वंसेव्यमस्मांश्च सेवकान मन्यमानेन कुलक्रमागतः स्नेहसम्बन्धः खण्डितः । तस्य मित्रकुलोत्पन्नत्वाद् न किमपि करोमि । यदि स किमपि विप्रियं करिष्यति तदा तत्प्रतिक्रियां करिष्यामि । किन्तु पूर्वस्नेहद्रुमखण्डनेऽग्रेगूर्न भविष्यामि । यथाशक्ति तव स्वामी करोतु, व्रज' ।
ततो दूतः स गत्वा दशमुखाय सर्वमाख्यत् । ततश्चाऽतिक्रुद्धो दशमुखः ससैन्य: किष्किन्धां द्रुतमाययौ । वाल्यपि च सन्नह्य तमभ्यगात् । ततश्च द्वयोः सैन्ययोर्दारुणे युद्धे प्राणिसंहारं प्रेक्ष्य सदयो वाली सत्वरं दशमुखमभ्येत्य जगाद-'प्राणिमात्रस्यैव वधोऽनुचितः । पञ्चेन्द्रियाणां तु कथैव का । शत्रुजयाय यद्यप्येतद्युक्तम् । तथाऽपि स्वबाहुबलैविजिगीषो.तद् युक्तम् । ततः सैन्ययुद्धं विमुञ्च । यतस्तदनेकप्राणिसंहाराच्चिराय नरकाय भवेत् । ततो दशमुखोऽपि सर्वयुद्धविशारदस्तेन स्वत एव योद्धमारेभे । तदा च यद् यदस्त्रं दशमुखोऽक्षिपत् तत्तत् कपीश्वरो निजास्वैश्चिच्छेद । ततो विफलपराक्रमोऽतिक्रुद्धो रावणश्चन्द्रहासासिमाकृष्य वालिनेऽधाविष्ट । स वाली चन्द्रहासं रावणं च लीलयैव वामेन बाहुनाऽऽदाय कन्दुकमिव च कक्षायां निक्षिप्याऽव्याकुल: क्षणेनाऽपि चतु:समुद्री बभ्राम।
इतश्च सभायां कथाप्रसङ्गेन वानरेश्वरं प्रौढप्रतापं वालिनं श्रुत्वाऽन्यप्रतापासहनो रावण एकं दूतमनुशिष्य तस्मै प्रेषयामास। दूतश्च गत्वा वालिनं नत्वाऽऽह-'अहं दशमुखस्य दूतोऽस्मि, तद्वाचिकं श्रृणु-अस्मत्पूर्व कीर्तिधवलं तव पूर्वज: श्रीकण्ठः शरणायाऽऽयात्, तं श्वशुर्यं शत्रुभ्यस्त्रात्वा कीर्तिधवल इह वानरद्वीपे न्यधात् । तत्प्रभृति चाऽऽवयोः स्वामि-भृत्यभावेनोभयोरपि पक्षयोर्बहवो नृपा गताः । तव पितामहः किष्किन्धो मम प्रपितामहः सुकेशश्च परस्परं तं सम्बन्धं तथैव नियूँढवान् । ततस्तव पिता सूर्यरजा अभवत्, तं च यमात् त्रात्वा यथाऽहं किष्किन्धाराज्ये न्यधां, तज्जनो वेत्ति । अधुना च तत्तनयो नयवांस्त्वं प्राग्वत् स्वस्वामिसम्बन्धादस्मत्सेवां कुरुष्व' ।

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129