Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
....७३
७२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सन्ध्ययोः सुता विद्युत्प्रभा प्रख्यातकुलप्रसूता अन्याश्च सरागास्ताः सर्वा गान्धर्वेण विवाहेन परिणिताः । ततस्तासां सौविदास्तासां पितृणामेत्य 'युष्माकं कन्या: परिणीयाऽद्य कोऽप्येष गच्छती'ति व्यजिज्ञपन् । ततः क्रुद्धोऽमरसुन्दरोऽन्यैरपि विद्याधरैः सह रावणं जिघांसुरन्वधावत् । ततो नवोढास्ता रावणः 'त्वरितं विमानं प्रेरय, मा विलम्बय, एकोऽपि सुरसुन्दरोऽजय्यः, किं पुनः कनक-बुधादिभिः परिवारित' इति प्रोचुः ।
ततो रावणः स्मित्वा ता व्याजहार- मा भैषीष्ट, गरुडस्य सपैरिव ममैभियुद्धं पश्यत' । एवं बुबाणमेव रावणं विद्याधराः शस्त्रैर्दुर्दिनं कुर्वाणा: संवेष्टयामासुः । ततो रावणोऽस्त्रैरस्त्राणि खण्डयित्वा प्रस्वापनास्त्रेण तानमोहयत् । नागपाशैः पशूनिव तान् बबन्ध च । प्रेयसीभिः पितृभिक्षां याचितस्तान् मुमोच च । ततस्ते स्वपुरं ययुः । रावणोऽपि च ताभिः सह स्वयंप्रभपुरं प्राप । मुदितैर्जनैः पूजितश्च ।
अथ कुम्भकर्णः कुम्भपुरेशस्य महोदरमहीपतेः सुरूपनयनादेवीकुक्षिजां नवयौवनां नाम्ना तडिन्मालां सुतामुपायत । विभीषणश्च वैताढ्ये दक्षिणश्रेण्यां ज्योतिष्पुरपुरेशितुर्वीरस्य नन्दवतीकुक्षिसमुद्भवां पङ्कजश्रियं नाम कन्यां पर्यणैषीत् ।
अथ मन्दोदरी देवी देवेन्द्रतेजसमद्भुतविक्रममिन्द्रजितं नाम सुतं सुषुवे । कियत्यपि काले गते च मेघवद् नयनानन्दं द्वितीयमपि मेघवाहनं नाम तनयं सुषुवे ।
कुम्भकर्ण-विभीषणौ च पितृवैरमाकर्ण्य वैश्रवणाश्रितां लङ्कां सदैवोपदुद्रुवतुः । ततो वैश्रवणो दूतेन सुमालिनमवोचत्'इमौ रावणावरजौ सुतौ शाधि, वीरमानिनौ दुर्मदौ पाताल
सप्तमं पर्व - द्वितीयः सर्गः लङ्कास्थौ कूपमण्डूककल्पानविवेकिनावस्मत्पुर्यां छलकर्मणाऽवस्कन्दं ददाते, मया जेतुमिच्छया मत्ताविति चिरमुपेक्षितौ । त्वं चेदिमौ न शिक्षयसि, तर्हि त्वया सहैवेमावपि मालिवम॑ना नेष्यामि, त्वमस्मदलं न वेत्सि?' तज्ज्ञात्वा च क्रुद्धो रावणोऽभ्यधात्-'क एष परस्य करदो वैश्रवण: ? अन्यस्य शासनाल्लङ्कां शासन्न लज्जते वदन् ? दूतोऽसीति त्वां न हन्मि, याहि' । एवं रावणेनोक्तो निवृत्य स दूतो वैश्रवणं गत्वा यथातथमशंसत् । दूतस्याऽनुपदमेव च रावणः ससहोदरो ससैन्यो गरीयसाऽमर्षेण लङ्का ययौ । वैश्रवणश्च दूताख्यातवृत्तान्तः ससैन्यः पुर्या युद्धाय निर्ययौ ।
ततो रावणो महावातो वन्यामिव क्षणात् तदक्षौहिणीं सेनामभाङ्क्षीत् । बले भग्ने च भग्नम्मन्यो वैश्रवणः उपशान्तकोपो दध्यौ-'परैश्च भग्नमानस्य मानिनो नृपस्य गतचन्द्रिकस्य चन्द्रस्येवाऽवस्थितं धिक् । मुक्तये एव यतनीयम् । स्तोकं विहाय बह्विच्छोर्न किमपि लज्जास्पदम् । तन्मम राज्येनाऽलं, मुक्तिवेश्मनो द्वारं परिव्रज्यामुपादास्ये । अपकर्तारावप्येतौ कुम्भकर्ण-विभीषणौ ममोपकर्तारावेवेदृक्पथनिदर्शनाज्जातौ । रावणश्चाऽग्रेऽपि मम बन्धुः, सम्प्रति कर्मतोऽपि बन्धुः । यतोऽस्येममुपक्रमं विना ममेयं धीन स्यात्' । एवं विचिन्त्य शस्त्रादिकं त्यक्त्वा तत्त्वनिष्ठो वैश्रवण: स्वयमेव परिव्रज्यां समाददे । रावणोऽपि तं नत्वा रचिताअलिरुवाच-'त्वं मम ज्येष्ठो भ्राताऽसि, अनुजन्मनो मेऽपराधं सहस्व, निःशङ्कां लङ्कायां राज्यं कुरुष्व, वयमन्यत्र यास्यामः, मेदिनी न हीयते' । रावणे एवं ब्रुवाणेऽपि स प्रतिमास्थितो महात्मा तद्भव एव शिवंगमी न किञ्चिदूचे । ततो रावणस्तमनीहं ज्ञात्वा वैश्रवणं क्षमयित्वा प्रणम्य च लया सह तस्य पुष्पक विमानमग्रहीत् ।

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129