Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 45
________________ ११ द्वितीयः सर्गः अथैकदा दशमुखः सानुजो गगने विमानारूढमायान्तं वैश्रवणं नृपमपश्यत् । ततः कोऽयमिति तेन पृष्टा माताऽब्रवीत्'मम ज्येष्ठभगिन्यां कौशिकायां जातो विश्रवोनाम्नो विद्याधरेन्द्रस्य पुत्रः सर्वविद्याधरेन्द्रस्येन्द्रस्याऽग्रसुभटोऽयं वैश्रवणः । इन्द्रो भवत्पितामहज्येष्ठं मालिनं रणे हत्वा सराक्षसद्वीपां लङ्का पुरीमस्मै ददौ । ततः प्रभृति लङ्कायाः प्राप्तौ कृतमनोरथस्ते पितेहाऽस्ति । शक्ते द्विष्ये तदेव युक्तम् । राक्षसेन्द्रो भीमो विद्विषां प्रतीकाराय पूर्वजन्मपुत्राय रक्षोवंशस्थापकाय मेघवाहननृपाय पाताललया सह सराक्षसद्वीपां लङ्कां राक्षसी विद्यां च ददौ । तस्यां पुर्या शत्रुभिर्हतायां परम्परायातायामेतस्यां राजधान्यां ते पितामहः पिताऽपि च मृतवत् तिष्ठति । अरक्षके क्षेत्रे वृषभा इव तस्यां शत्रवः स्वच्छन्दाश्चरन्ति । वत्स ! मया मन्दभाग्यया सानुजस्तत्र गत्वा पैतामहासनं समासीनो द्रक्ष्यसे? लङ्कालुण्टाकांस्त्वत्कारागारे बद्धान् दृष्ट्वा कदा पुत्रवतीषु शिरोमणिर्भविष्यामि ? एतैर्मनोरथैर्मरौ मरालीवाऽहरहः क्षामीभवामि' । । तच्छ्रुत्वा विभीषणोऽवदत्-‘मातः! विषादेनाऽलं, सुतविक्रम न वेत्सि, आर्यस्य दशकण्ठस्य पुरत इन्द्रो वैश्रवणोऽन्ये विद्याधरा सप्तमं पर्व - द्वितीयः सर्गः वा के ? अज्ञानादद्य यावदिदं सोढम् । आस्तामार्यो दशमुखः, कुम्भकर्ण एव शत्रून् निःशेषीकर्तुमीश्वरः । रावणोऽप्यूचे-'मातः ! त्वं वज्रकठिनाऽसि, यद् दुःशल्यं चिरमधाः । एकबाहुबलेनैवेन्द्रादिकान् द्विषो हन्याम् । तथाऽप्यत्र क्रमागता विद्याशक्तिरेव प्रयोज्या । तत्ता विद्याः साधयिष्यामि, अनुजानीहि, सानुजस्तत्सिद्ध्यै यास्यामि' । एवमुक्त्वा पितरौ नमस्कृत्य सानुज: स भीमारण्यमुपाययौ । अथ भ्रातृभ्यां सहितश्च तदरण्यं प्रविश्य तपस्विवेषधरास्ते त्रयोऽपि यामद्वितयेन सर्वकामप्रदामष्टाक्षरी विद्यामसाधयन् । तथा यस्य दशकोटीसहस्राणि जपः फलप्रदस्तं षोडशाक्षरं मन्त्रं जपितुमारेभिरे । तदानीं चाऽनादूतो नाम जम्बूद्वीपपतिः सुरस्तत्र सान्त:पुरः क्रीडितुं समायातस्तान् ददर्श । स यक्षाधिपस्तेषां विघ्नायोपसर्गाय च स्वयोषितः प्रेषयामास । किन्तु तेषां क्षोभार्थमायातास्तास्तेषामतिसुन्दरै रूपैः स्वयमेव स्वामिशासनं विस्मृत्य क्षोभमायाताः । तान् निर्विकारानालोक्य स्मरातुरास्ता बभाषिरे-'भो भो ध्यानजडाः ! अग्रतः पश्यत, देव्योऽपि वो वशीभूताः, अत: परा का सिद्धिः? किं विद्यासिद्धये क्लेशः? अमुना यत्नेनाऽलं, विद्याभिः किं करिष्यथ ? यतो वयं देव्यो वः सिद्धाः । अस्माभिस्त्रयाणां जगतां रम्यप्रदेशेषु स्वैरं रमध्वम्' । सकाममेवं जल्पन्त्यस्तानविचलितधैर्यानालोक्य ता विलक्षा जज्ञिरे । ततो जम्बूद्वीपपतिस्तानब्रवीत्-'मुग्धैर्युष्माभिः किमेतत् कष्टचेष्टितमारब्धम् ? मन्ये केनाऽपि दुरात्मना पाखण्डिना मृत्युहेतवे यूयं शिक्षिताः । अधुनाऽप्येतं दुराग्रहं मुक्त्वा यात, ब्रूत, अहमपि कृपापरो वो वाञ्छितं यच्छामि' । एवमपि तांस्तूष्णीकान् दृष्ट्वा

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129