Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
७०
सप्तमं पर्व - द्वितीयः सर्गः
प्रज्ञप्त्यादयो महाविद्याः पूर्वसुकृतकर्मणा दशमुखस्य स्वल्पैरेव दिनैः सिद्धा अभूवन् । संवृद्धयादयः पञ्चविद्याः कुम्भकर्णस्य सिद्धार्थादयश्चतस्त्रश्च विद्या विभीषणस्याऽसिधन् ।
अथ जम्बूद्वीपपतिः स देवो रावणं क्षमयामास । तथा तत्रैव रावणस्य कृते स देवः स्वयंप्रभं पुरं चकार । तेषां विद्यासिद्धिं श्रुत्वा च तेषां पितरौ स्वसा च तत्राऽऽयातास्तैः सत्कृताश्च । ते त्रयोऽपि च पित्रोर्दृक्प्रीणका: बन्धूनामुत्सवप्रदास्तत्रैव तस्थुः । ततो रावण: षड्भिरुपवासैदिशां जये उपयोगिनं चन्द्रहासमसिं साधयामास ।
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः क्रुद्धः सोऽब्रवीत्-'मां प्रत्यक्षदेवं मुक्त्वा किमन्यं ध्यायथ?' एवं प्रोक्त्वा स यक्षस्तत्परिक्षोभाय भ्रूसंज्ञया किङ्करान् व्यन्तरान् समादिशत् । ते च किलकिलारावकारिणो बहुरूपिणो गिरिशृङ्गाण्युत्पाट्य तेषां पुरतश्चिक्षिपुः । केऽपि सीभूय तानवेष्टयन्, केऽपि सिंहीभूय दारुणं पूच्चक्रुः । एवं नानारूपैस्ते तत्र बिभीषिकां चक्रुः। तथाऽपि ते मनागपि नाऽक्षुभ्यन् । ___ततस्ते कैकसी रत्नश्रवसं चन्द्रणखां च विकृत्य बद्धवा तेषां पुरश्चिक्षिपुः । विकृताश्च रत्नश्रवःप्रभृतयः उदश्रुनयनाः करुणस्वरमेवं चक्रन्दुः-'लुब्धकैस्तिर्यञ्च इव युष्माकं पश्यतामपि वयं गतघृणैरेभिर्बद्ध्वा हन्यामहे । वत्स ! दशमुख ! उत्तिष्ठोत्तिष्ठ, त्रायस्व । त्वमेकान्तभक्त: कथमस्मानुपेक्षसे ?' यस्त्वं जात एव महाहारं कण्ठे न्यधाः, तस्य बाहुबलमहङ्कारश्च क्व गतः ? कुम्भकर्ण ! किं त्वमपि मद्वचो नाऽऽकर्णयसि ? यदेवमस्मानुदासीनानिवोपेक्षसे ? विभीषण ! त्वं क्षणमपि भक्तिविमुखो नाऽभः, किमद्य परावर्तित इव लक्षसे? एवं विलपत्स्वपि तेषु ते समाधितो न चेलुः । ततस्ते यक्षकिङ्करास्तदने तेषां मौलींश्चिच्छिदुः। तद्दारुणं कर्माऽपश्यन्त इव ते समाधिस्था मनागपि न चुक्षुभुः । ततस्ते रावणाग्रे तदनुजयोस्तयोरग्रे च रावणस्य मूर्धानं मायया पातयामासुः ।
ततो गुरुभक्त्या कुम्भकर्ण-विभीषणौ किञ्चिच्चुक्षुभतुः । किन्तु परमार्थज्ञो रावणस्तमर्थमचिन्तयन् गिरिरिव निश्चलो विशेषेण ध्याननिष्ठोऽभूत् । ततोऽम्बरे देवानां साधु साध्विति वाणी समुद्भूता । यक्षकिङ्कराश्च चकिता द्रुतमपासर्पन् । सहस्रं विद्याश्च 'तव वशवर्त्तिन्यः स्म' इत्युच्चैर्भाषमाणा दशमुखमभ्येयुः । एवं
इतश्च वैताढ्ये दक्षिणश्रेण्यां सुरसङ्गीते पुरे मयो नाम विद्याधरेश्वरोऽभूत् । तस्य च गुणनिधिभूतायां हैमवतीनाम्न्यां पत्न्यां मन्दोदरी नाम दुहिता बभूव । तां पुत्री प्राप्तयौवनां प्रेक्ष्य तद्वरार्थी तदनुरूपं वरमपश्यंश्चिन्तितो 'रावण अचिन्तो वर' इति मन्त्रिणा प्रोक्तः सृष्टश्च मयो मन्दोदरीमुपादाय बान्धवादिभिः सह स्वयंप्रभपुरं ययौ। सुमालिप्रमुखाश्च गोत्रवृद्धा दशमुखाय मन्दोदरीं ग्रहीतुं प्रपेदिरे । ततो मयाद्याः सुमाल्याद्याश्च शुभे दिने तयोविवाह कारयामासुः । मयाद्याश्च ततः स्वपुरं ययुः । रावणोऽपि तया रमणीश्रेष्ठया चिरं रेमे ।
अन्येधुश्च रावणः क्रीडया मेघरथगिरिं गतस्तत्र सरसि षट् सहस्राणि खेचरकन्यका मज्जन्तीरपश्यत् । ता अपि च तं पद्मिन्य इव विकसितलोचनपङ्कजा: सानुरागा: प्रेक्ष्य स्मरात लज्जां विहाय त्वं नो भर्ता भवेति स्वयं प्रार्थयाञ्चक्रिरे । ततो रावणेन सर्वश्रीसुरसुन्दरपुत्री पद्मावती मनोवेगा-बुधसुता-ऽशोकलता कनक

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129