Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 50
________________ ७८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ___तदानीमेव च तत्रैत्य लज्जावनतं रावणं मुक्त्वाऽब्रवीत्'वीतरागमर्हन्तं विना न मे कश्चिद् नमस्योऽस्ति, मानं धिक्, येन मोहित इमामवस्थां प्राप्तोऽसि । पूर्वोपकारान् स्मरता मया सम्प्रति मुक्तोऽसि, पृथिवीराज्यं च ते दत्तम् । अखण्डाजस्तच्छाधि । मयि विजिगीषौ सति तवेयं पृथिवी नैव । तन्मुक्तये परिव्रज्यामादास्ये । किष्किन्धायां तवाऽऽज्ञाधरः सुग्रीवो राजाऽस्तु' । एवमुक्त्वा निजे राज्ये सुग्रीवं न्यस्य स वाली गगनचन्द्रमुनिपावें दीक्षामग्रहीत् । विविधाभिग्रहधरस्तपस्तत्परः प्रतिमास्थो निर्ममश्च वाली मुनिरवनि विजहार । विहरतश्च तस्य क्रमाल्लब्धय उत्पेदिरे । तथा सोऽष्टापदादौ गत्वा कायोत्सर्ग गृहीत्वा मासान्ते तदुत्सृज्य पारणं विधायैवमेव भूयो भूयश्चकार । इतश्च दशमुखाय सुग्रीवः स्नेहदाढ्याय श्रीप्रभां ददौ । तथा यौवराज्ये वालिपुत्रं महौजसं चन्द्ररश्मि न्यवीविशत् । दशमुखश्च सुग्रीवगृहीताज्ञस्तत्सहोदरां श्रीप्रभां परिणीय तां गृहीत्वा च लङ्कां ययौ । तथा स रावणोऽन्येषामपि विद्याधरेन्द्राणां रूपवती: कन्यका बलादपि परिणिनाय । अन्यदा च स नित्यालोकपुरे तदीशितुः कन्यां रत्नावलीमुद्वोढुं चचाल । गच्छतश्च तस्य विमानमष्टापदानेरुपरि स्खलितम् । रुद्धगतिकं विमानं प्रेक्ष्य कुपितश्च रावणः को मम विमानप्रतिरोधाद् यममुखं विविक्षतीति वदन् समुत्तीर्य विमानस्याऽधः प्रतिमाधरं वालिनं प्रेक्ष्योवाच-'अद्याऽपि मयि विरुद्धोऽसि, दम्भेन व्रतं वहसि, कयाऽपि मायया मां विजित्य मत्प्रतीकारं विशङ्कमान: प्रावाजी: खलु । अद्याऽप्यहं स एवाऽस्मि । तत्ते प्राप्तकालं कृतप्रतिकृतं करोमि। यथा त्वं सचन्द्रहासं गृहीत्वाऽब्धिष्वभ्राम्यस्तथा त्वां सप्तमं पर्व - द्वितीयः सर्गः साद्रिमुत्पाट्य लवणार्णवे क्षिपामि' । एवमुक्त्वा पृथिवीं विदार्य तद्रेिस्तले प्रविश्य विद्यासहस्रं स्मृत्वा दुर्धरं तं पर्वतमुद्दधे । स महामुनिर्वाली चाऽवधिना तं पर्वतं तेनोद्धृतं ज्ञात्वा दध्यौ-'आ: अद्याऽप्ययं दुर्मतिर्मयि मात्सर्यादकाण्डेऽनेकप्राणिसंहारं तनुतेतराम् ? सम्प्रत्येष भरतेश्वरचैत्यं भ्रंशयित्वा तीर्थमुच्छेत्तुं यतते । राग-द्वेषरहितोऽप्यहं चैत्यरक्षणाय प्राणित्राणाय चैनं राग-द्वेषौ विनैव शिक्षयामि' । एवं विमृश्य स मुनिर्लीलया पादाङ्गुष्ठेन तत्पर्वतशिखरं किञ्चिदपीडयत् । ततश्च तत्क्षणादेव रावणः सङ्कचद्गात्रो भङ्गुरदोर्दण्डो मुखेन रुधिरं वमन् तारमरावीत् । तेन रावणेति नाम्ना प्रसिद्धोऽभूत् । तस्य च दीनमारटनं श्रुत्वा दयापरो वाली तमाशु मुमोच । ततो रावणो निःसृत्योपेत्य नत्वा वालिनं कृताञ्जलिरुवाच'निस्त्रपोऽहं भूयो भूयस्तवाऽपराध्यामि, त्वं शक्तिमांश्च कृपया सोढाऽसि । मन्ये, मयि कृपां कृत्वा प्रागूर्वीमत्यजो न त्वसामर्थ्यात्, तदहं न प्रागज्ञासिषम् । नाथ! तेनाऽज्ञानादद्रिक्षेपे यत्नं कुर्वता मया स्वशक्तिस्तोलिता । अद्य भवत आत्मनश्चाऽन्तरं ज्ञातम् । मृत्युकोटि यातस्य मे त्वया प्राणा दत्ताः । यस्याऽपकारिण्यपीयं मतिस्तस्मै ते नमोऽस्तु' । एवं दृढभक्त्या भाषित्वा वालिनं क्षमयित्वा त्रिःप्रदक्षिणीकृत्य नमोऽकरोत् । तादृङ्माहात्म्यमुदिता देवाश्च साधु साध्विति वादिनो वालिमुनेरुपरिष्टात् पुष्पवृष्टि व्यधुः ।। रावणश्च भरतेश्वरनिर्मिते चैत्ये जगाम । तत्र च शस्त्रादीनि मुक्त्वा सान्तःपुरः स्वयमृषभादीनामर्हतामष्टविधां पूजां व्यधात् । तथा महासाहसिकः स भक्त्या स्नायुमाकृष्य प्रमृज्य च

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129