Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
७४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ स रावणो विमानं पुष्पकमधिरुह्य सम्मेताद्रावर्हत्प्रतिमा वन्दितुं गतवान् । प्रतिमा वन्दित्वा शैलादवरोहतश्च तस्यैको वनकुञ्जरो जगर्ज । ततो हस्तिरत्नमसौ देवस्य यातनामर्हतीति प्रतिहारेण प्रहस्तेनोक्तो दशमुखः पिङ्गोत्तुङ्गदन्तं मधुपिङ्गललोचनं मदस्राविणं सप्तहस्तसमुच्छ्रायं नवहस्तायतं तं गजं क्रीडया वशीकृत्याऽध्यारुरोह ! भुवनालङ्कार इति च तस्य नाम विदधे । ततो गजं मालान्वितं कृत्वा तां निशां तत्रैवोषित्वा प्रातः सपरिच्छदः आस्थानीमधिष्ठितो रावणः ।
अथ प्रतीहारविज्ञप्तेन प्रविष्टेन घातजर्जरेण पवनवेगेन विद्याधरेण नत्वा विज्ञप्त:-'देव ! किष्किन्धनृपनन्दनौ सूर्यरजा ऋक्षरजा अपि च पाताललङ्काया: किष्किन्धायां गतौ तत्र च तयोर्यमनृपेण युद्धमभूत् । चिरं युद्ध्वा यमेन बद्ध्वा तौ द्वावपि दस्युवत् कारागृहे क्षिप्तौ । तथा तेन वैतरणीयुतान् नरकावासान् विधाय तौ सपरिच्छदं छेद-भेदादिदुःखं प्राप्यते । तौ च क्रमायातौ तव सेवको, तत्तौ मोचय, भृत्यपराभवो हि स्वामिपराभव एव' ।
ततो रावणो जगाद-‘एवमेतत्, यदनेन दुधियाऽसदृशमाचरितम्, एष तत्फलं यच्छामि' । एवमुक्त्वा स ससैन्य: किष्किन्धां गत्वा सप्ताऽपि नरकांस्तत्र क्लिश्यमानान् निजान् पत्तींश्च दृष्ट्वा क्रुद्धः परमाधार्मिकां त्रासयित्वा निजपत्तीनपरांश्च तत्र स्थितानमोचयत् । नरकारक्षैतिवृत्तान्तश्चाऽपरो यमो यमनृपोऽतिक्रुद्धो योद्धु नगराद् निर्ययौ । तयोश्च ससैन्ययोश्चिरं युद्धे प्रवृत्ते रावणो बाणवषैर्यमं जर्जरयाञ्चक्रे। ततो यमः सङ्ग्रामात् प्रणश्य रथनूपुरनेतारमिन्द्रमुपगम्य प्रणम्य कृताञ्जलिरुवाच-'प्रभो ! मयाऽधुना यमत्वाय
सप्तमं पर्व - द्वितीयः सर्गः जलाञ्जलिर्दत्तः, रुष्य वा तुष्य वा, अहं यमतां न करिष्ये । अधुना हि दशमुखो यमस्याऽपि यम उत्थितः । तेन हि नरकारक्षान् विद्राव्य नारका मोचिताः, आहवाच्च कथञ्चिज्जीवन्मुक्तोऽस्मि । तेन हि वैश्रवणं जित्वा लङ्कां पुष्पकं च गृहीते । सुरसुन्दरोऽपि च तेन जितः' ।
ततः क्रुद्धः शक्रो युद्धेच्छुर्यमाय सुरसङ्गीतपुरं प्रदाय स्वयं रथनूपुर एव तस्थौ । इतश्च दशमुख आदित्यरजसे किष्किन्धामृक्षरजसे च ऋक्षपुरं पुरं प्रदाय लङ्कां गत्वा बन्धुभिर्नागरैश्च स्तूयमानस्तत्राऽवस्थितः पैतामहं महद्राज्यं प्रशशास । यथेच्छं मन्दोदर्या सह विषयसुखमन्वभूच्च ।
अथाऽऽदित्यरजस: कपिराजस्येन्दुमालिन्यां महिष्यां वाली नाम बली सुतो जातः । स हि समुद्रान्तं जम्बूद्वीपं नित्यं प्रदक्षिणीकुर्वन् सर्वचैत्यान्यवन्दत । तथाऽऽदित्यरजसोऽपरः पुत्रः सुग्रीवः कन्या च सुप्रभा नाम्न्यभूताम् । तथाऽमृतरजसो हरिकान्तायां पत्न्यां भुवनविश्रुतौ नल-नीलाभिधौ द्वौ पुत्रौ जातौ । आदित्यरजाश्च वालिने राज्यं दत्त्वा प्रव्रज्य तपस्तप्त्वा च शिवं ययौ । वाली च दया-दाक्षिण्यादिगुणसमन्वितं स्वानुरूपं सुग्रीवं राज्ये न्यधात् ।
अथाऽन्यदा दशमुखश्चैत्यवन्दनार्थं गजारूढो मेरुपर्वतं गतः । तस्मिन्नेव समये च मेघप्रभात्मजः खरनामा खेचरश्चन्द्रणखां सानुरागां विलोक्य जातरागोऽपजहार । तामादाय पाताललङ्कां गत्वा च तत्रत्यमादित्यरजसः सूनुं चन्द्रोदरं नृपं निर्वास्य तां नगरी स्वयमादत्त । दशमुखश्च क्षणेन मेरोर्लङ्कामागतश्चन्द्रणखाहरणमाकर्ण्य कुपितः खरघाताय चलितो मन्दोदर्या निवेदित:कोऽयमस्थाने संरम्भः ? मनाग् विमृश, कन्या ह्यवश्यं कस्मैचिद्

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129