Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 52
________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पयस्तेन स्त्रीसहस्रयुतेन मुच्यमानत्वादुल्लुठितं वेगात् तटद्वयं प्लावयित्वा ते देवपूजामिह प्लावयामास । तत्स्त्रीणामेतानि निर्माल्यानि रेवातीरे तरन्ति, पश्य' । ___ एवं तद्गिरमाकाऽधिकमुद्दीप्तो दशाननोऽवोचत्-'अरे ! तेन मुमूर्षणा स्वाङ्गदूषितैर्वारिभिरञ्जनैर्देवदूष्यमिवेयं देवपूजा दूषिता । राक्षसभटाः ! तद्यात, भटमानिनं तं पापं मत्स्यं धीवरा इव बद्ध्वा समानयत' । एवमुच्चस्तेनाऽऽदिष्टा अनुचरा लक्षशो राक्षसभटा दधाविरे । तीरस्थितैः सहस्रांशुसैनिकैश्च ते युद्ध चक्रुः । तैर्नभ:स्थितैः स्वान् सैनिकानुपद्रुतान् ज्ञात्वा क्रोधातुरः स्वाः प्रेयसीराश्वास्याऽधिज्यधन्वा सहस्रांशुर्जलाद् निर्गत्य बाणैस्तृणपूलाननल इव तान् विद्रावयामास । तांश्च निशाचरान् रणाद् व्यावृत्तान् निरीक्ष्याऽतिक्रुद्धो रावणः स्वयमुपस्थाय सहस्रांशुमभि बाणानवर्षत् । चिरं च विविधैरायुधैर्द्वयोयुद्धे प्रवृत्ते रावणोऽजय्यं तं ज्ञात्वा विद्यया मोहयित्वा जग्राह । जित्वाऽपि च तं महावीर्यं प्रशंसन् स्वस्कन्धावारे समानयत्। यावच्च हृष्टः सभायां तस्थौ तावच्चारणश्रमणः शतबाहुः समाययौ । रावणश्च सिंहासनादुत्थाय तमभ्युत्थाय नत्वा स्वसमर्पिते आसने आसयित्वा पुनः प्रणम्य स्वयमूर्त्यामुपाविशत् । मुनिश्च तस्मै धर्मलाभाशिषं प्रदाय रावणेन समागमनकारणं पृष्टोऽवोचत्-'अहं शतबाहुः पुरा माहिष्मत्यां नृपोऽभवं, पावकाद् व्याघ्र इव भववासाद् भीतः सहस्रांशुं राज्ये निवेश्य व्रतमाशिश्रियम्' । एवमर्धोक्त एव रावणो नम्रमुखोऽब्रवीत्-'किमसौ महाभुजः पूज्यपादानामङ्गजः' । मुनीन्द्रेण 'ओम्' इत्युक्ते च स पुनराह-'अहं दिग्जयाय क्रमेणाऽत्राऽऽगतो रेवातटे दत्तवासः सहस्रांशुमुक्त सप्तमं पर्व - द्वितीयः सर्गः निजाङ्ग कलुषाविलजलैर्जातजिनपूजाभङ्गः 'क्रुधाऽज्ञानादेवमकार्ष, त्वत्सूनुरप्यज्ञानादेतत् कृतवानिति मन्ये' । एवमुक्त्वा सहस्त्रांशु नत्वाऽनैषीत् । सोऽपि लज्जानम्रमुखो निजं पितरं ननाम। ततो रावणस्तमुवाच-'त्वमतः परं मम भ्राताऽसि, तवेवाऽयं शतबाहुमुनिर्ममाऽपि पिता। गच्छ, निजं राज्यं शाधि, अन्यामपि भुवं गृहाण, अस्माकं त्रयाणां त्वं चतुर्थः श्रियोंऽशभागसि' । तेनैवमुक्तो मुक्तश्च सहस्त्रांशुरवदत्-'अतः परं मम राज्येन वपुषा वा न प्रयोजनं, संसारनाशनं व्रतमेव श्रयिष्यामि' । एवमुक्त्वा रावणाय निजं तनयं समर्प्य चरमदेहः स स्वपितुरन्तिके दीक्षामग्रहीत् । तथा स तदैव वाचिकेनाऽनरण्यनृपाय स्वयमात्तां परिव्रज्यां कथयामास । तज्ज्ञात्वा च सोऽयोध्याधिपो दध्यौ-'मम तेन प्रियमित्रेणैवं सङ्केतोऽभवद् यद् युगपद् व्रतं ग्राह्यम्' । तां स्वप्रतिज्ञा स्मृत्वा च स स्वपुत्राय दशरथाय राज्यं दत्वा व्रतमुपाददे । रावणश्च शतबाहु-सहस्रांशुमुनी वन्दित्वा सहस्रांशोः सुतं राज्ये निवेश्याऽम्बरेणाऽचालीत् । अथ तदानीं यष्टिघातादिजर्जरो नारदमुनिरन्याय इत्येवं पूत्कुर्वन् रावणमभाषिष्ट-'राजन् राजपुरे मिथ्यादृग् मरुत्तो नाम नृपः क्रतुं कुर्वन्नास्ते । तत्र यज्ञे वधायाऽऽनीतान् पशून् पाशबद्धाननागस आरटतो दृष्ट्वा व्योम्नोऽवतीर्य कृपापरो ब्राह्मणाऽऽवृत्तं मरुत्त'महो किमिदमारब्धमि'त्यपृच्छम् । ततो मरुत्त उवाच-'अयं ब्राह्मणोदितो यज्ञः, अमी पशवो देवतृप्तयेऽत्र होतव्याः, अयं च महाधर्म: स्वर्गहेतुः'। ततोऽहमाख्यं-'वपुरेव वेदिः, आत्मा यष्टा, तपो वह्निः, ज्ञानं सर्पिः, कर्माणि समिधः, क्रोधादयः पशवः, सत्यं यूपः,

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129