Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 27
________________ ३२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नृपेण सहैव यात्रादिवसे नागप्रतिमागृहं जगाम । तत्र च पुष्पमण्डपिकां पुष्पगुच्छं स्वां प्रियां च प्रेक्ष्य नृपः स्वबुद्धिं नाम सचिव पप्रच्छ- 'त्वं मया प्रेषितोऽनेकशो राज्ञां गृहेष्वगाः, किं क्वाऽपीदृक् स्त्रीरत्नं पुष्पगुच्छश्चाऽवलोकित: ?' ततः स्वबुद्धिरुवाच- 'त्वदादेशात् कुम्भभूपान्तिकमुपेयुषा मया मल्ली नाम तत्सुता दृष्टा । तस्या: स्त्रीरत्नमुख्याया आयुर्ग्रन्थौ य: पुष्पगुच्छ ः, स स्वर्गेऽप्यसम्भवी । तामेकवारमपि यः पश्येत् स तां कदाऽपि न विस्मरेत्' । तच्छ्रुत्वा प्रतिबुद्धिः पूर्वजन्मानुरागतस्तां वरीतुं कुम्भराजान्तिके सद्यो दूतं प्रैषीत् । इतश्च धरणजीवो वैजयन्तात् परिच्युत्य चम्पापुर्यां चन्द्रच्छायो नाम नृपो बभूव । तत्पुरीवास्तव्यश्च श्रावकोऽर्हन्नयाभिधः पोतारूढोऽम्भोधियात्रामकरोत् । तदानीं च मध्येसभं शक्रोऽन्नयसमः श्रावको नाऽस्तीति प्रशंसां विदधे । तच्छ्रुत्वा च मत्सरी कोऽपि देवः क्षणात् सागरमेत्यौत्पातिकमरुन्मेघाम्बरं विदधे । सांयात्रिकाश्च पोतभङ्गभयात् क्षुभ्यन्तोऽभीष्टदेवेभ्य उपयाचितकानि चक्रुः । अर्हन्नयश्च 'इतो विघ्नाद् में मृतिश्चेत् तदाऽनशनम' स्त्विति प्रत्याख्याय समाधिस्थस्तस्थौ । ततः स देवो रक्षोरूपं विकृत्य नभस्थ उवाच- 'अर्हन्नय! आर्हतं धर्मं जहीहि मद्वचः कुरु, नो चेदमुं स्फोटयित्वा त्वां सपरिच्छदं समुद्रसात् करिष्ये' । तथाऽपि धर्मादचलिते तस्मिन् विस्मितः स देवः क्षमणां चकार, तां शक्रप्रशंसां तं जगाद च । तथा तस्मै दिव्ये कुण्डलद्वन्द्वे दत्वा घोरं मेघ- वातादि संहृत्य च तिरोदधे । अर्हन्नयोऽपि क्रमादब्धेस्तीरोर्व्यामुत्ततार । अशेषं भाण्डं चाऽऽदाय मिथिलापुरीं ययौ । तत्र च विधिज्ञ: स कुम्भराजस्योपायने एकं कुण्डलद्वयमदात् । कुम्भराजश्च षष्ठं पर्व षष्ठः सर्गः तदुहित्रे मल्लये ददौ, तं सत्कृत्य विससर्ज च । ततः सोऽर्हन्नयो विक्रीतक्रीतभाण्डश्चम्पापुरीमगात् । तत्र च चन्द्रच्छायाय द्वितीयं कुण्डलद्वयमदात् । राज्ञा च कुतोऽदः कुण्डलद्वयमिति पृष्टश्च स यथायथं कुण्डलप्राप्तिवृत्तान्तं शशंस । तादृशापरकुण्डलद्वयदानप्रसङ्गाच्च मल्ल्या रूपोत्कर्षं विशेषतो वर्णयामास सः । चन्द्रच्छायनरेन्द्रोऽपि च प्राग्जन्मस्नेहतस्तां वरीतुं कुम्भाय दूतं प्राहिणोत् । इतश्च पूरणजीवो वैजयन्तात् परिच्युत्य श्रावस्त्यां पुर्यां रुक्मीनाम नृपो बभूव तस्य च धारण्याख्यां पत्न्यां रूपलावण्यवती सुबाहुर्नाम कन्यकाऽऽसीत् । नृपस्य चाऽतिप्रियत्वात् सा चातुर्मास्यां सादरं परिवारेण विशेषमज्जनविधिमकार्यत । कृतस्नाना धृतदिव्यालङ्कारा च सैकदा पितरं नन्तुं ययौ । नृपश्च तामुत्सङ्गमारोप्य सौविदल्लमीदृङ्मज्जनविधिः क्वाऽपीक्षित इत्यपृच्छत् । ततः सौविदल्ल उवाच- 'भवदादेशाद् मिथिलां गतेन मया कुम्भपुत्र्या आयुर्ग्रन्थौ विशेषोऽवलोकितः । तच्छ्रुत्वा जातानुरागेण रुक्मिणा मल्लिमार्गणाय कुम्भं प्रति दूतः प्रैषीत् । इतश्च वसुजीवोऽपि वैजयन्तात् परिच्युत्य वाराणसीपुर्यां शङ्खो नाम नृपो बभूव । एकदा च मल्लेस्तत्कुण्डलद्वये विघटिते तत्सङ्घट्टनायाऽऽदिष्टैः स्वर्णकारैः 'दिव्यमिदं वयं संघट्टयितुं न क्षमा' इत्युक्तेन नृपेण क्रुधा ते स्वर्णकाराः पुर्या निर्वासिता वाराणसीमेत्य शङ्खाय तद्वृत्तान्तमाचख्युः । कुण्डलप्रसङ्गाद् मल्ले रूपं च वर्णयामास। तच्छ्रुत्वा शङ्खोऽपि च कुम्भात् तामुपयाचितुं दूतं प्रैषीत् । इतश्च मल्लेरनुजो मल्लो नाम कुतूहलाच्चित्रकरैश्चित्रितां चित्रशालामकारयत् । तेषु चित्रकरेष्वेकाङ्गदर्शनात् तादृक्सर्वाङ्गालेख्य

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129