Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः समताधिष्ठितः। विना हवन-जप-दानादि साम्यमात्रेणाऽमूल्यक्रीती निर्वृतिर्जायते । तत: क्लिष्टान् रागादीन् विहायाऽयत्नलभ्यं हृद्यं सुखावहं च साम्यमेव धार्यम् । नास्तिकोऽपि साम्यजनितं सुखं स्वसम्वेद्यं नाऽपलपति । खाद्य-लेह्यादिभ्यो विरक्ता अपि यतयः स्वैरं साम्यामृतरसं मुहुः पिबन्ति । यस्य च कण्ठे सर्पो मुक्तादाम च नाऽप्रीत्यै न वा प्रीत्य, स एव समतापतिः । साम्यं हि बालानां सुधियां च निरुपाधिकं भवरुजौषधम् । योगिनश्चाऽतिक्रूरतरमपि कर्म साम्यशस्त्रेण सुखं घ्नन्ति । समताया अयं प्रभावोऽवश्यं प्रत्येतव्यो यत: पापिनोऽपि क्षणार्धेन शाश्वतं पदमिच्छन्ति । यस्मिन् सति रत्नत्रयं सफलं तस्मै समत्वाय स्वस्ति । उपसर्गे मृत्युकाले वा साम्याद् नाऽन्य उत्तम उपायः'।
प्रभोरेवं देशनां श्रुत्वा ते षड् भूपा अन्येऽपि च प्रबुद्धाः प्रवव्रजुः। कुम्भादयश्च श्रावकत्वं प्रपेदिरे । भिषगादिष्वष्टाविंशतौ गणधरेषु भिषग्गणधरो देशनां व्यधात् । द्वितीयदिने च तत्रैव वने मल्लिप्रभोविश्वसेननृपात् परमान्नेन पारणं जज्ञे । देवराजादयः कुम्भादयो नृपाश्च मल्लिपादौ नमस्कृत्य स्वं स्वं स्थानं ययुः ।
*** तत्तीर्थे समुत्पन्ने इन्द्रायुधधुतिश्चतुर्मुखो गजरथो दक्षिणैर्भुजैर्वरदपशु-शूला-ऽभयधरो वामैश्च बीजपूर-शक्ति-मुद्गरा-ऽक्षसूत्रधरः कुबेरयक्षः, कृष्णाङ्गी कमलासना दक्षिणाभ्यां बाहुभ्यां वरदाऽक्षसूत्रधरा वामाभ्यां च मातुलिङ्ग-शक्तिधरा वैरोट्यादेवी च श्रीमल्लेरर्हतः शासनदेवते अभूताम् । ततः प्रभुस्ततः स्थानाद् भव्यलोकावबोधाय ग्राम-पुरादिषु विजहार ।
षष्ठं पर्व - प्रथमः सर्गः
मल्लिप्रभोः परिवारे च श्रमणानां चत्वारिंशत्सहस्राणि, आर्यिकाणांश्च पञ्चपञ्चाशत्सहस्राः, मन:पर्ययिणां पञ्चाशदन्विता सप्तदशशती, चतुर्दशपूर्वभृतां साष्टषष्टिः षट्शती, अवधिज्ञानिनां द्वाविंशतिशती, केवलज्ञानिनां द्वाविंशतीशती, जातवैक्रियलब्धीनां शतोनां त्रिसहस्री, उत्पन्नवादलब्धीनां चतुर्दश शतानि, श्रावकाणां सत्र्यशीतिसहस्रकं लक्षमेकं, श्राविकाणां ससप्ततिसहस्रिका त्रिलक्षी चाऽभवन् । मल्लिप्रभुश्चैतैः परिवारैः परिवेष्टितः संवत्सरशतन्यूनां पञ्चपञ्चाशतं समासहस्त्रान् विजहार ।
अथ निर्वाणसमयं ज्ञात्वा सम्मेताद्रिमुपेत्याऽनशनं साध्वीनां साधूनां च पृथक् पृथक् पञ्चशत्या समं प्रपद्य मासान्ते फाल्गुनशुक्लद्वादश्यां याम्यभे तैः साधुभि: साध्वीभिश्च सार्धं निर्वाणमासदत् मल्लिप्रभुः ।
तदेवं मल्लिप्रभोः कौमारे व्रतपर्याये च वर्षाणां पञ्चपञ्चाशत्सहस्राण्यभवन् । अरनाथस्य निर्वाणाच्च वर्षाणां कोटिसहस्त्रे समतिक्रान्ते मल्लिजिननिर्वृतिरभूत् । इन्द्रादयश्च तत्कालमुपेत्य श्रीमल्लिप्रभोनिर्वाणमहोत्सवं यथाविधि चक्रुः ॥६॥
इति श्रीमल्लिजिनचरितवर्णनात्मकः षष्ठः सर्गः ॥६॥

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129