Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
५६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः विष्णुश्च तं दृष्ट्वा दध्यौ-'किमपि सङ्घकार्य, तद्वेगादसावायाति, अन्यथा प्रावृट्काले साधूनां विहारो न भवेत् । ततोऽन्यथा ते लब्धीनामुपयोगं न कुर्युः' । ततः स तं मुनिमभिनन्द्य तदागमकारणं ज्ञात्वा तं मुनि गृहीत्वा विहायसा हस्तिनापरमेत्य गरुं वन्दित्वा ससाधुपरिवारो नमुचिमुपेत्य धर्मकथापूर्वमवोचत्-'इमे मुनयो यावत् प्रावृषमिहैव तिष्ठन्तु, स्वयमप्येते चिरमेकत्र न तिष्ठन्ति, किन्तु वर्षासु जन्तुबाहुल्याद् विहारो न कल्पते, अस्माभिर्भेक्षवृत्तिभिश्च महति पुरे वसद्भिर्न ते काऽपि हानि:' । ततो मन्त्री कुपित: प्राह-'तव वचनैरलम्, इह वो वस्तुं न ददामि' । ततो विष्णुः पुनरुवाच-'इमे नगराद् बहिः स्थिता उद्यान एव वसन्तु' । ततश्चाऽतिक्रुद्धः सचिवस्तमब्रवीत्-'अहं वो गन्धमपि न सहे, अलं प्रार्थनैः, पुरस्याऽन्तर्बहिर्वाऽपि दस्यूनामिव मर्यादाहीनानां श्वेतवाससां वासो न भविष्यति । यदि वः प्राणा: प्रियाः तदा द्रुतमपसरत, अन्यथा तायः सानिव वो हनिष्यामि'।
एवं तदुक्त्योद्दीपितो विष्णुमिनो बलिमिव स्थातुं त्रिपदीमयाचत । ततो नमुचिना 'दत्ता वत्रिपदी, यस्ततो बहिः स्यात् तं हनिष्यामी'त्युक्तो विष्णुर्देहीत्युक्त्वा वर्धमानः किरीटादिभूषितो, वज्रावस्त्रभृत्, खेचरान् भ्रंशयन्, पदाघातैर्महीं कम्पयन्, जलनिधीनुत्तालयन्, आपगा: कुर्वाणो, ज्योतिश्चक्राणि पर्यस्यन्, पर्वतवरानपि दारयन्, महातेजा, महौजाः, सर्वभयङ्करो, नानारूपो मेरुसमोऽभवत् ।
ततस्त्रिजगत्क्षोभमालोक्य शक्रस्तं प्रसादयितमप्सरसः समादिशत् । ताश्च तस्य कर्णमूले जगुः-'कोपाज्जना इहाऽपि
षष्ठं पर्व - प्रथमः सर्गः दह्यन्तेऽसकृद् मुह्यन्ति च, विपद्य चाऽनन्तदुखं नरकं यान्ति' । एवं कोपं शमयितुं किन्नरादिस्त्रियोऽपि जगुर्ननृतुश्च । ततश्च विष्णुर्नमुचिं धरण्यां क्षिप्त्वा मध्येपूर्वापराम्बुधि पादं ददौ । पद्मश्चाऽपि ज्ञातवृत्तान्तः ससम्भ्रमः समुपेत्य स्वप्रमादेन तेन मन्त्रिदोषेण च चकित: स्वमग्रजं तं मुनि नमस्कृत्य रचिताञ्जलिरवदत्-'स्वामिन् ! त्वयि विजयिनि सति चेतसा तात: पद्मोत्तरोऽद्याऽपि तिष्ठति, अमुना मन्त्रिणा क्रियमाणां श्रीसङ्घाशातनां न जानामि, तथाऽप्यपराध्यस्मि, स्वामिनो हि भृत्यदोषेण गृह्यन्ते, अहं भृत्यस्त्वं च मम स्वामीति कोपं संहर, त्रैलोक्यं प्राणशंसये समारूढं त्रायस्व' ।
एवमन्येऽपि सुरा-ऽसुरादयः श्रीसङ्घश्च तं मुनि सान्त्वयामासुः । किन्तु सोऽतिशब्दपथां वृद्धि प्राप्तो नाऽशृणोत्, अत: सर्वेऽपि भक्तितस्तस्य पादस्पर्श व्यधुः । पादस्पर्शेन च सोऽधस्तान् निजं भ्रातरं सङ्घ-सुरादींश्चाऽपि दृष्ट्वा दध्यौ-'अयं श्रीसङ्घोऽयं मे दीनो भ्राता, एते च सुरादय: कोपोपसंहारकृते मां युगपत् सान्त्वयन्ति ततः सङ्घो मान्य: पद्मादयश्चाऽनुकम्प्याः । एवं विमृश्य वपुर्वृद्धिं संहृत्य प्रकृत्यवस्थायां तस्थौ । सङ्घानुरोधाच्च नमुचिं मुक्तवान् पद्मश्च तं निरवासयत् । तया त्रिपद्या च स मुनिस्तत्प्रभृति जगत्त्रये त्रिविक्रम इति ख्यातिमाससाद । ततः स सङ्घकार्यं कृत्वा परं तपस्तप्त्वा विष्णुकुमार उत्पन्नकेवलः परमं पदं प्राप ।
पद्मोऽपि भवोद्विग्नो राज्यं त्यक्त्वा सद्गुरोरन्ते प्रव्रज्यामाददे। तस्य च कौमारेऽब्दपञ्चशती, मण्डलित्वे च तावती, दिग्जये त्र्यब्दशती, चक्रित्वे च सप्तशतीयुताऽष्टादशसहस्राब्दी, व्रते च दशसहस्रीत्येवं त्रिंशद्वर्षसहस्राण्यायुः । ततः स नानाविधा

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129